वैशम्पायन उवाच 001
देवराजमनुप्राप्तं ब्राह्मणच्छद्मना वृषः 001a
दृष्ट्वा स्वागतमित्याह न बुबोधास्य मानसम् 001c
हिरण्यकण्ठीः प्रमदा ग्रामान्वा बहुगोकुलान् 002a
किं ददानीति तं विप्रमुवाचाधिरथिस्ततः 002c
ब्राह्मण उवाच 003
हिरण्यकण्ठ्यः प्रमदा यच्चान्यत्प्रीतिवर्धनम् 003a
नाहं दत्तमिहेच्छामि तदर्थिभ्यः प्रदीयताम् 003c
यदेतत्सहजं वर्म कुण्डले च तवानघ 004a
एतदुत्कृत्य मे देहि यदि सत्यव्रतो भवान् 004c
एतदिच्छाम्यहं क्षिप्रं त्वया दत्तं परन्तप 005a
एष मे सर्वलाभानां लाभः परमको मतः 005c
कर्ण उवाच 006
अवनिं प्रमदा गाश्च निर्वापं बहुवार्षिकम् 006a
तत्ते विप्र प्रदास्यामि न तु वर्म न कुण्डले 006c
वैशम्पायन उवाच 007
एवं बहुविधैर्वाक्यैर्याच्यमानः स तु द्विजः 007a
कर्णेन भरतश्रेष्ठ नान्यं वरमयाचत 007c
सान्त्वितश्च यथाशक्ति पूजितश्च यथाविधि 008a
नैवान्यं स द्विजश्रेष्ठः कामयामास वै वरम् 008c
यदा नान्यं प्रवृणुते वरं वै द्विजसत्तमः 009a
तदैनमब्रवीद्भूयो राधेयः प्रहसन्निव 009c
सहजं वर्म मे विप्र कुण्डले चामृतोद्भवे 010a
तेनावध्योऽस्मि लोकेषु ततो नैतद्ददाम्यहम् 010c
विशालं पृथिवीराज्यं क्षेमं निहतकण्टकम् 011a
प्रतिगृह्णीष्व मत्तस्त्वं साधु ब्राह्मणपुङ्गव 011c
कुण्डलाभ्यां विमुक्तोऽहं वर्मणा सहजेन च 012a
गमनीयो भविष्यामि शत्रूणां द्विजसत्तम 012c
यदा नान्यं वरं वव्रे भगवान्पाकशासनः 013a
ततः प्रहस्य कर्णस्तं पुनरित्यब्रवीद्वचः 013c
विदितो देवदेवेश प्रागेवासि मम प्रभो 014a
न तु न्याय्यं मया दातुं तव शक्र वृथा वरम् 014c
त्वं हि देवेश्वरः साक्षात्त्वया देयो वरो मम 015a
अन्येषां चैव भूतानामीश्वरो ह्यसि भूतकृत् 015c
यदि दास्यामि ते देव कुण्डले कवचं तथा 016a
वध्यतामुपयास्यामि त्वं च शक्रावहास्यताम् 016c
तस्माद्विनिमयं कृत्वा कुण्डले वर्म चोत्तमम् 017a
हरस्व शक्र कामं मे न दद्यामहमन्यथा 017c
शक्र उवाच 018
विदितोऽहं रवेः पूर्वमायन्नेव तवान्तिकम् 018a
तेन ते सर्वमाख्यातमेवमेतन्न संशयः 018c
काममस्तु तथा तात तव कर्ण यथेच्छसि 019a
वर्जयित्वा तु मे वज्रं प्रवृणीष्व यदिच्छसि 019c
वैशम्पायन उवाच 020
ततः कर्णः प्रहृष्टस्तु उपसङ्गम्य वासवम् 020a
अमोघां शक्तिमभ्येत्य वव्रे सम्पूर्णमानसः 020c
कर्ण उवाच 021
वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव 021a
अमोघां शत्रुसङ्घानां घातनीं पृतनामुखे 021c
वैशम्पायन उवाच 022
ततः सञ्चिन्त्य मनसा मुहूर्तमिव वासवः 022a
शक्त्यर्थं पृथिवीपाल कर्णं वाक्यमथाब्रवीत् 022c
कुण्डले मे प्रयच्छस्व वर्म चैव शरीरजम् 023a
गृहाण कर्ण शक्तिं त्वमनेन समयेन मे 023c
अमोघा हन्ति शतशः शत्रून्मम करच्युता 024a
पुनश्च पाणिमभ्येति मम दैत्यान्विनिघ्नतः 024c
सेयं तव करं प्राप्य हत्वैकं रिपुमूर्जितम् 025a
गर्जन्तं प्रतपन्तं च मामेवैष्यति सूतज 025c
कर्ण उवाच 026
एकमेवाहमिच्छामि रिपुं हन्तुं महाहवे 026a
गर्जन्तं प्रतपन्तं च यतो मम भयं भवेत् 026c
इन्द्र उवाच 027
एकं हनिष्यसि रिपुं गर्जन्तं बलिनं रणे 027a
त्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना 027c
यमाहुर्वेदविद्वांसो वराहमजितं हरिम् 028a
नारायणमचिन्त्यं च तेन कृष्णेन रक्ष्यते 028c
कर्ण उवाच 029
एवमप्यस्तु भगवन्नेकवीरवधे मम 029a
अमोघा प्रवरा शक्तिर्येन हन्यां प्रतापिनम् 029c
उत्कृत्य तु प्रदास्यामि कुण्डले कवचं च ते 030a
निकृत्तेषु च गात्रेषु न मे बीभत्सता भवेत् 030c
इन्द्र उवाच 031
न ते बीभत्सता कर्ण भविष्यति कथञ्चन 031a
व्रणश्चापि न गात्रेषु यस्त्वं नानृतमिच्छसि 031c
यादृशस्ते पितुर्वर्णस्तेजश्च वदतां वर 032a
तादृशेनैव वर्णेन त्वं कर्ण भविता पुनः 032c
विद्यमानेषु शस्त्रेषु यद्यमोघामसंशये 033a
प्रमत्तो मोक्ष्यसे चापि त्वय्येवैषा पतिष्यति 033c
कर्ण उवाच 034
संशयं परमं प्राप्य विमोक्ष्ये वासवीमिमाम् 034a
यथा मामात्थ शक्र त्वं सत्यमेतद्ब्रवीमि ते 034c
वैशम्पायन उवाच 035
ततः शक्तिं प्रज्वलितां प्रतिगृह्य विशां पते 035a
शस्त्रं गृहीत्वा निशितं सर्वगात्राण्यकृन्तत 035c
ततो देवा मानवा दानवाश्च निकृन्तन्तं कर्णमात्मानमेवम् 036a
दृष्ट्वा सर्वे सिद्धसङ्घाश्च नेदुर्न ह्यस्यासीद्दुःखजो वै विकारः 036c
ततो दिव्या दुन्दुभयः प्रणेदुः पपातोच्चैः पुष्पवर्षं च दिव्यम् 037a
दृष्ट्वा कर्णं शस्त्रसङ्कृत्तगात्रं मुहुश्चापि स्मयमानं नृवीरम् 037c
ततश्छित्त्वा कवचं दिव्यमङ्गात्तथैवार्द्रं प्रददौ वासवाय 038a
तथोत्कृत्य प्रददौ कुण्डले ते वैकर्तनः कर्मणा तेन कर्णः 038c
ततः शक्रः प्रहसन्वञ्चयित्वा कर्णं लोके यशसा योजयित्वा 039a
कृतं कार्यं पाण्डवानां हि मेने ततः पश्चाद्दिवमेवोत्पपात 039c
श्रुत्वा कर्णं मुषितं धार्तराष्ट्रा दीनाः सर्वे भग्नदर्पा इवासन् 040a
तां चावस्थां गमितं सूतपुत्रं श्रुत्वा पार्था जहृषुः काननस्थाः 040c
जनमेजय उवाच 041
क्वस्था वीराः पाण्डवास्ते बभूवुः कुतश्चैतच्छ्रुतवन्तः प्रियं ते 041a
किं वाकार्षुर्द्वादशेऽब्दे व्यतीते तन्मे सर्वं भगवान्व्याकरोतु 041c
वैशम्पायन उवाच 042
लब्ध्वा कृष्णां सैन्धवं द्रावयित्वा विप्रैः सार्धं काम्यकादाश्रमात्ते 042a
मार्कण्डेयाच्छ्रुतवन्तः पुराणं देवर्षीणां चरितं विस्तरेण 042c
प्रत्याजग्मुः सरथाः सानुयात्राः सर्वैः सार्धं सूदपौरोगवैश्च 043a
ततः पुण्यं द्वैतवनं नृवीरा निस्तीर्योग्रं वनवासं समग्रम् 043c