वैशम्पायन उवाच 001
एतस्मिन्नेव काले तु धृतराष्ट्रस्य वै सखा 001a
सूतोऽधिरथ इत्येव सदारो जाह्नवीं ययौ 001c
तस्य भार्याभवद्राजन्रूपेणासदृशी भुवि 002a
राधा नाम महाभागा न सा पुत्रमविन्दत 002c
अपत्यार्थे परं यत्नमकरोच्च विशेषतः 002e
सा ददर्शाथ मञ्जूषामुह्यमानां यदृच्छया 003a
दत्तरक्षाप्रतिसरामन्वालभनशोभिताम् 003c
ऊर्मीतरङ्गैर्जाह्नव्याः समानीतामुपह्वरम् 003e
सा तां कौतूहलात्प्राप्तां ग्राहयामास भामिनी 004a
ततो निवेदयामास सूतस्याधिरथस्य वै 004c
स तामुद्धृत्य मञ्जूषामुत्सार्य जलमन्तिकात् 005a
यन्त्रैरुद्घाटयामास सोऽपश्यत्तत्र बालकम् 005c
तरुणादित्यसङ्काशं हेमवर्मधरं तथा 006a
मृष्टकुण्डलयुक्तेन वदनेन विराजता 006c
स सूतो भार्यया सार्धं विस्मयोत्फुल्ललोचनः 007a
अङ्कमारोप्य तं बालं भार्यां वचनमब्रवीत् 007c
इदमत्यद्भुतं भीरु यतो जातोऽस्मि भामिनि 008a
दृष्टवान्देवगर्भोऽयं मन्येऽस्मान्समुपागतः 008c
अनपत्यस्य पुत्रोऽयं देवैर्दत्तो ध्रुवं मम 009a
इत्युक्त्वा तं ददौ पुत्रं राधायै स महीपते 009c
प्रतिजग्राह तं राधा विधिवद्दिव्यरूपिणम् 010a
पुत्रं कमलगर्भाभं देवगर्भं श्रिया वृतम् 010c
पुपोष चैनं विधिवद्ववृधे स च वीर्यवान् 011a
ततः प्रभृति चाप्यन्ये प्राभवन्नौरसाः सुताः 011c
वसुवर्मधरं दृष्ट्वा तं बालं हेमकुण्डलम् 012a
नामास्य वसुषेणेति ततश्चक्रुर्द्विजातयः 012c
एवं स सूतपुत्रत्वं जगामामितविक्रमः 013a
वसुषेण इति ख्यातो वृष इत्येव च प्रभुः 013c
स ज्येष्ठपुत्रः सूतस्य ववृधेऽङ्गेषु वीर्यवान् 014a
चारेण विदितश्चासीत्पृथाया दिव्यवर्मभृत् 014c
सूतस्त्वधिरथः पुत्रं विवृद्धं समये ततः 015a
दृष्ट्वा प्रस्थापयामास पुरं वारणसाह्वयम् 015c
तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्मणि 016a
सख्यं दुर्योधनेनैवमगच्छत्स च वीर्यवान् 016c
द्रोणात्कृपाच्च रामाच्च सोऽस्त्रग्रामं चतुर्विधम् 017a
लब्ध्वा लोकेऽभवत्ख्यातः परमेष्वासतां गतः 017c
सन्धाय धार्तराष्ट्रेण पार्थानां विप्रिये स्थितः 018a
योद्धुमाशंसते नित्यं फल्गुनेन महात्मना 018c
सदा हि तस्य स्पर्धासीदर्जुनेन विशां पते 019a
अर्जुनस्य च कर्णेन यतो दृष्टो बभूव सः 019c
तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम् 020a
अवध्यं समरे मत्वा पर्यतप्यद्युधिष्ठिरः 020c
यदा तु कर्णो राजेन्द्र भानुमन्तं दिवाकरम् 021a
स्तौति मध्यन्दिने प्राप्ते प्राञ्जलिः सलिले स्थितः 021c
तत्रैनमुपतिष्ठन्ति ब्राह्मणा धनहेतवः 022a
नादेयं तस्य तत्काले किञ्चिदस्ति द्विजातिषु 022c
तमिन्द्रो ब्राह्मणो भूत्वा भिक्षां देहीत्युपस्थितः 023a
स्वागतं चेति राधेयस्तमथ प्रत्यभाषत 023c