वैशम्पायन उवाच 001
ततो गर्भः समभवत्पृथायाः पृथिवीपते 001a
शुक्ले दशोत्तरे पक्षे तारापतिरिवाम्बरे 001c
सा बान्धवभयाद्बाला तं गर्भं विनिगूहती 002a
धारयामास सुश्रोणी न चैनां बुबुधे जनः 002c
न हि तां वेद नार्यन्या काचिद्धात्रेयिकामृते 003a
कन्यापुरगतां बालां निपुणां परिरक्षणे 003c
ततः कालेन सा गर्भं सुषुवे वरवर्णिनी 004a
कन्यैव तस्य देवस्य प्रसादादमरप्रभम् 004c
तथैव बद्धकवचं कनकोज्ज्वलकुण्डलम् 005a
हर्यक्षं वृषभस्कन्धं यथास्य पितरं तथा 005c
जातमात्रं च तं गर्भं धात्र्या सम्मन्त्र्य भामिनी 006a
मञ्जूषायामवदधे स्वास्तीर्णायां समन्ततः 006c
मधूच्छिष्टस्थितायां सा सुखायां रुदती तथा 007a
श्लक्ष्णायां सुपिधानायामश्वनद्यामवासृजत् 007c
जानती चाप्यकर्तव्यं कन्याया गर्भधारणम् 008a
पुत्रस्नेहेन राजेन्द्र करुणं पर्यदेवयत् 008c
समुत्सृजन्ती मञ्जूषामश्वनद्यास्तदा जले 009a
उवाच रुदती कुन्ती यानि वाक्यानि तच्छृणु 009c
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च पुत्रक 010a
दिव्येभ्यश्चैव भूतेभ्यस्तथा तोयचराश्च ये 010c
शिवास्ते सन्तु पन्थानो मा च ते परिपन्थिनः 011a
आगमाश्च तथा पुत्र भवन्त्वद्रोहचेतसः 011c
पातु त्वां वरुणो राजा सलिले सलिलेश्वरः 012a
अन्तरिक्षेऽन्तरिक्षस्थः पवनः सर्वगस्तथा 012c
पिता त्वां पातु सर्वत्र तपनस्तपतां वरः 013a
येन दत्तोऽसि मे पुत्र दिव्येन विधिना किल 013c
आदित्या वसवो रुद्राः साध्या विश्वे च देवताः 014a
मरुतश्च सहेन्द्रेण दिशश्च सदिगीश्वराः 014c
रक्षन्तु त्वां सुराः सर्वे समेषु विषमेषु च 015a
वेत्स्यामि त्वां विदेशेऽपि कवचेनोपसूचितम् 015c
धन्यस्ते पुत्र जनको देवो भानुर्विभावसुः 016a
यस्त्वां द्रक्ष्यति दिव्येन चक्षुषा वाहिनीगतम् 016c
धन्या सा प्रमदा या त्वां पुत्रत्वे कल्पयिष्यति 017a
यस्यास्त्वं तृषितः पुत्र स्तनं पास्यसि देवज 017c
को नु स्वप्नस्तया दृष्टो या त्वामादित्यवर्चसम् 018a
दिव्यवर्मसमायुक्तं दिव्यकुण्डलभूषितम् 018c
पद्मायतविशालाक्षं पद्मताम्रतलोज्ज्वलम् 019a
सुललाटं सुकेशान्तं पुत्रत्वे कल्पयिष्यति 019c
धन्या द्रक्ष्यन्ति पुत्र त्वां भूमौ संसर्पमाणकम् 020a
अव्यक्तकलवाक्यानि वदन्तं रेणुगुण्ठितम् 020c
धन्या द्रक्ष्यन्ति पुत्र त्वां पुनर्यौवनगे मुखे 021a
हिमवद्वनसम्भूतं सिंहं केसरिणं यथा 021c
एवं बहुविधं राजन्विलप्य करुणं पृथा 022a
अवासृजत मञ्जूषामश्वनद्यास्तदा जले 022c
रुदती पुत्रशोकार्ता निशीथे कमलेक्षणा 023a
धात्र्या सह पृथा राजन्पुत्रदर्शनलालसा 023c
विसर्जयित्वा मञ्जूषां सम्बोधनभयात्पितुः 024a
विवेश राजभवनं पुनः शोकातुरा ततः 024c
मञ्जूषा त्वश्वनद्याः सा ययौ चर्मण्वतीं नदीम् 025a
चर्मण्वत्याश्च यमुनां ततो गङ्गां जगाम ह 025c
गङ्गायाः सूतविषयं चम्पामभ्याययौ पुरीम् 026a
स मञ्जूषागतो गर्भस्तरङ्गैरुह्यमानकः 026c
अमृतादुत्थितं दिव्यं तत्तु वर्म सकुण्डलम् 027a
धारयामास तं गर्भं दैवं च विधिनिर्मितम् 027c