वैशम्पायन उवाच 001
सा तु कन्या बहुविधं ब्रुवन्ती मधुरं वचः 001a
अनुनेतुं सहस्रांशुं न शशाक मनस्विनी 001c
न शशाक यदा बाला प्रत्याख्यातुं तमोनुदम् 002a
भीता शापात्ततो राजन्दध्यौ दीर्घमथान्तरम् 002c
अनागसः पितुः शापो ब्राह्मणस्य तथैव च 003a
मन्निमित्तः कथं न स्यात्क्रुद्धादस्माद्विभावसोः 003c
बालेनापि सता मोहाद्भृशं सापह्नवान्यपि 004a
नात्यासादयितव्यानि तेजांसि च तपांसि च 004c
साहमद्य भृशं भीता गृहीता च करे भृशम् 005a
कथं त्वकार्यं कुर्यां वै प्रदानं ह्यात्मनः स्वयम् 005c
सैवं शापपरित्रस्ता बहु चिन्तयती तदा 006a
मोहेनाभिपरीताङ्गी स्मयमाना पुनः पुनः 006c
तं देवमब्रवीद्भीता बन्धूनां राजसत्तम 007a
व्रीडाविह्वलया वाचा शापत्रस्ता विशां पते 007c
कुन्त्युवाच 008
पिता मे ध्रियते देव माता चान्ये च बान्धवाः 008a
न तेषु ध्रियमाणेषु विधिलोपो भवेदयम् 008c
त्वया मे सङ्गमो देव यदि स्याद्विधिवर्जितः 009a
मन्निमित्तं कुलस्यास्य लोके कीर्तिर्नशेत्ततः 009c
अथ वा धर्ममेतं त्वं मन्यसे तपतां वर 010a
ऋते प्रदानाद्बन्धुभ्यस्तव कामं करोम्यहम् 010c
आत्मप्रदानं दुर्धर्ष तव कृत्वा सती त्वहम् 011a
त्वयि धर्मो यशश्चैव कीर्तिरायुश्च देहिनाम् 011c
सूर्य उवाच 012
न ते पिता न ते माता गुरवो वा शुचिस्मिते 012a
प्रभवन्ति वरारोहे भद्रं ते शृणु मे वचः 012c
सर्वान्कामयते यस्मात्कनेर्धातोश्च भामिनि 013a
तस्मात्कन्येह सुश्रोणि स्वतन्त्रा वरवर्णिनि 013c
नाधर्मश्चरितः कश्चित्त्वया भवति भामिनि 014a
अधर्मं कुत एवाहं चरेयं लोककाम्यया 014c
अनावृताः स्त्रियः सर्वा नराश्च वरवर्णिनि 015a
स्वभाव एष लोकानां विकारोऽन्य इति स्मृतः 015c
सा मया सह सङ्गम्य पुनः कन्या भविष्यसि 016a
पुत्रश्च ते महाबाहुर्भविष्यति महायशाः 016c
कुन्त्युवाच 017
यदि पुत्रो मम भवेत्त्वत्तः सर्वतमोपह 017a
कुण्डली कवची शूरो महाबाहुर्महाबलः 017c
सूर्य उवाच 018
भविष्यति महाबाहुः कुण्डली दिव्यवर्मभृत् 018a
उभयं चामृतमयं तस्य भद्रे भविष्यति 018c
कुन्त्युवाच 019
यद्येतदमृतादस्ति कुण्डले वर्म चोत्तमम् 019a
मम पुत्रस्य यं वै त्वं मत्त उत्पादयिष्यसि 019c
अस्तु मे सङ्गमो देव यथोक्तं भगवंस्त्वया 020a
त्वद्वीर्यरूपसत्त्वौजा धर्मयुक्तो भवेत्स च 020c
सूर्य उवाच 021
अदित्या कुण्डले राज्ञि दत्ते मे मत्तकाशिनि 021a
तेऽस्य दास्यामि वै भीरु वर्म चैवेदमुत्तमम् 021c
पृथोवाच 022
परमं भगवन्देव सङ्गमिष्ये त्वया सह 022a
यदि पुत्रो भवेदेवं यथा वदसि गोपते 022c
वैशम्पायन उवाच 023
तथेत्युक्त्वा तु तां कुन्तीमाविवेश विहङ्गमः 023a
स्वर्भानुशत्रुर्योगात्मा नाभ्यां पस्पर्श चैव ताम् 023c
ततः सा विह्वलेवासीत्कन्या सूर्यस्य तेजसा 024a
पपाताथ च सा देवी शयने मूढचेतना 024c
सूर्य उवाच 025
साधयिष्यामि सुश्रोणि पुत्रं वै जनयिष्यसि 025a
सर्वशस्त्रभृतां श्रेष्ठं कन्या चैव भविष्यसि 025c
वैशम्पायन उवाच 026
ततः सा व्रीडिता बाला तदा सूर्यमथाब्रवीत् 026a
एवमस्त्विति राजेन्द्र प्रस्थितं भूरिवर्चसम् 026c
इति स्मोक्ता कुन्तिराजात्मजा सा विवस्वन्तं याचमाना सलज्जा 027a
तस्मिन्पुण्ये शयनीये पपात मोहाविष्टा भज्यमाना लतेव 027c
तां तिग्मांशुस्तेजसा मोहयित्वा योगेनाविष्यात्मसंस्थां चकार 028a
न चैवैनां दूषयामास भानुः सञ्ज्ञां लेभे भूय एवाथ बाला 028c