वैशम्पायन उवाच 001
गते तस्मिन्द्विजश्रेष्ठे कस्मिंश्चित्कालपर्यये 001a
चिन्तयामास सा कन्या मन्त्रग्रामबलाबलम् 001c
अयं वै कीदृशस्तेन मम दत्तो महात्मना 002a
मन्त्रग्रामो बलं तस्य ज्ञास्ये नातिचिरादिव 002c
एवं सञ्चिन्तयन्ती सा ददर्शर्तुं यदृच्छया 003a
व्रीडिता साभवद्बाला कन्याभावे रजस्वला 003c
अथोद्यन्तं सहस्रांशुं पृथा दीप्तं ददर्श ह 004a
न ततर्प च रूपेण भानोः सन्ध्यागतस्य सा 004c
तस्या दृष्टिरभूद्दिव्या सापश्यद्दिव्यदर्शनम् 005a
आमुक्तकवचं देवं कुण्डलाभ्यां विभूषितम् 005c
तस्याः कौतूहलं त्वासीन्मन्त्रं प्रति नराधिप 006a
आह्वानमकरोत्साथ तस्य देवस्य भामिनी 006c
प्राणानुपस्पृश्य तदा आजुहाव दिवाकरम् 007a
आजगाम ततो राजंस्त्वरमाणो दिवाकरः 007c
मधुपिङ्गो महाबाहुः कम्बुग्रीवो हसन्निव 008a
अङ्गदी बद्धमुकुटो दिशः प्रज्वालयन्निव 008c
योगात्कृत्वा द्विधात्मानमाजगाम तताप च 009a
आबभाषे ततः कुन्तीं साम्ना परमवल्गुना 009c
आगतोऽस्मि वशं भद्रे तव मन्त्रबलात्कृतः 010a
किं करोम्यवशो राज्ञि ब्रूहि कर्ता तदस्मि ते 010c
कुन्त्युवाच 011
गम्यतां भगवंस्तत्र यतोऽसि समुपागतः 011a
कौतूहलात्समाहूतः प्रसीद भगवन्निति 011c
सूर्य उवाच 012
गमिष्येऽहं यथा मां त्वं ब्रवीषि तनुमध्यमे 012a
न तु देवं समाहूय न्याय्यं प्रेषयितुं वृथा 012c
तवाभिसन्धिः सुभगे सूर्यात्पुत्रो भवेदिति 013a
वीर्येणाप्रतिमो लोके कवची कुण्डलीति च 013c
सा त्वमात्मप्रदानं वै कुरुष्व गजगामिनि 014a
उत्पत्स्यति हि पुत्रस्ते यथासङ्कल्पमङ्गने 014c
अथ गच्छाम्यहं भद्रे त्वयासङ्गम्य सुस्मिते 015a
शप्स्यामि त्वामहं क्रुद्धो ब्राह्मणं पितरं च ते 015c
त्वत्कृते तान्प्रधक्ष्यामि सर्वानपि न संशयः 016a
पितरं चैव ते मूढं यो न वेत्ति तवानयम् 016c
तस्य च ब्राह्मणस्याद्य योऽसौ मन्त्रमदात्तव 017a
शीलवृत्तमविज्ञाय धास्यामि विनयं परम् 017c
एते हि विबुधाः सर्वे पुरन्दरमुखा दिवि 018a
त्वया प्रलब्धं पश्यन्ति स्मयन्त इव भामिनि 018c
पश्य चैनान्सुरगणान्दिव्यं चक्षुरिदं हि ते 019a
पूर्वमेव मया दत्तं दृष्टवत्यसि येन माम् 019c
वैशम्पायन उवाच 020
ततोऽपश्यत्त्रिदशान्राजपुत्री सर्वानेव स्वेषु धिष्ण्येषु खस्थान् 020a
प्रभासन्तं भानुमन्तं महान्तं यथादित्यं रोचमानं तथैव 020c
सा तान्दृष्ट्वा व्रीडमानेव बाला सूर्यं देवी वचनं प्राह भीता 021a
गच्छ त्वं वै गोपते स्वं विमानं कन्याभावाद्दुःख एषोपचारः 021c
पिता माता गुरवश्चैव येऽन्ये देहस्यास्य प्रभवन्ति प्रदाने 022a
नाहं धर्मं लोपयिष्यामि लोके स्त्रीणां वृत्तं पूज्यते देहरक्षा 022c
मया मन्त्रबलं ज्ञातुमाहूतस्त्वं विभावसो 023a
बाल्याद्बालेति कृत्वा तत्क्षन्तुमर्हसि मे विभो 023c
सूर्य उवाच 024
बालेति कृत्वानुनयं तवाहं ददानि नान्यानुनयं लभेत 024a
आत्मप्रदानं कुरु कुन्तिकन्ये शान्तिस्तवैवं हि भवेच्च भीरु 024c
न चापि युक्तं गन्तुं हि मया मिथ्याकृतेन वै 025a
गमिष्याम्यनवद्याङ्गि लोके समवहास्यताम् 025c
सर्वेषां विबुधानां च वक्तव्यः स्यामहं शुभे 025e
सा त्वं मया समागच्छ पुत्रं लप्स्यसि मादृशम् 026a
विशिष्टा सर्वलोकेषु भविष्यसि च भामिनि 026c