वैशम्पायन उवाच 001
सा तु कन्या महाराज ब्राह्मणं संशितव्रतम् 001a
तोषयामास शुद्धेन मनसा संशितव्रता 001c
प्रातरायास्य इत्युक्त्वा कदाचिद्द्विजसत्तमः 002a
तत आयाति राजेन्द्र साये रात्रावथो पुनः 002c
तं च सर्वासु वेलासु भक्ष्यभोज्यप्रतिश्रयैः 003a
पूजयामास सा कन्या वर्धमानैस्तु सर्वदा 003c
अन्नादिसमुदाचारः शय्यासनकृतस्तथा 004a
दिवसे दिवसे तस्य वर्धते न तु हीयते 004c
निर्भर्त्सनापवादैश्च तथैवाप्रियया गिरा 005a
ब्राह्मणस्य पृथा राजन्न चकाराप्रियं तदा 005c
व्यस्ते काले पुनश्चैति न चैति बहुशो द्विजः 006a
दुर्लभ्यमपि चैवान्नं दीयतामिति सोऽब्रवीत् 006c
कृतमेव च तत्सर्वं पृथा तस्मै न्यवेदयत् 007a
शिष्यवत्पुत्रवच्चैव स्वसृवच्च सुसंयता 007c
यथोपजोषं राजेन्द्र द्विजातिप्रवरस्य सा 008a
प्रीतिमुत्पादयामास कन्या यत्नैरनिन्दिता 008c
तस्यास्तु शीलवृत्तेन तुतोष द्विजसत्तमः 009a
अवधानेन भूयोऽस्य परं यत्नमथाकरोत् 009c
तां प्रभाते च साये च पिता पप्रच्छ भारत 010a
अपि तुष्यति ते पुत्रि ब्राह्मणः परिचर्यया 010c
तं सा परममित्येव प्रत्युवाच यशस्विनी 011a
ततः प्रीतिमवापाग्र्यां कुन्तिभोजो महामनाः 011c
ततः संवत्सरे पूर्णे यदासौ जपतां वरः 012a
नापश्यद्दुष्कृतं किञ्चित्पृथायाः सौहृदे रतः 012c
ततः प्रीतमना भूत्वा स एनां ब्राह्मणोऽब्रवीत् 013a
प्रीतोऽस्मि परमं भद्रे परिचारेण ते शुभे 013c
वरान्वृणीष्व कल्याणि दुरापान्मानुषैरिह 014a
यैस्त्वं सीमन्तिनीः सर्वा यशसाभिभविष्यसि 014c
कुन्त्युवाच 015
कृतानि मम सर्वाणि यस्या मे वेदवित्तम 015a
त्वं प्रसन्नः पिता चैव कृतं विप्र वरैर्मम 015c
ब्राह्मण उवाच 016
यदि नेच्छसि भद्रे त्वं वरं मत्तः शुचिस्मिते 016a
इमं मन्त्रं गृहाण त्वमाह्वानाय दिवौकसाम् 016c
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि 017a
तेन तेन वशे भद्रे स्थातव्यं ते भविष्यति 017c
अकामो वा सकामो वा न स नैष्यति ते वशम् 018a
विबुधो मन्त्रसंशान्तो वाक्ये भृत्य इवानतः 018c
वैशम्पायन उवाच 019
न शशाक द्वितीयं सा प्रत्याख्यातुमनिन्दिता 019a
तं वै द्विजातिप्रवरं तदा शापभयान्नृप 019c
ततस्तामनवद्याङ्गीं ग्राहयामास वै द्विजः 020a
मन्त्रग्रामं तदा राजन्नथर्वशिरसि श्रुतम् 020c
तं प्रदाय तु राजेन्द्र कुन्तिभोजमुवाच ह 021a
उषितोऽस्मि सुखं राजन्कन्यया परितोषितः 021c
तव गेहे सुविहितः सदा सुप्रतिपूजितः 022a
साधयिष्यामहे तावदित्युक्त्वान्तरधीयत 022c
स तु राजा द्विजं दृष्ट्वा तत्रैवान्तर्हितं तदा 023a
बभूव विस्मयाविष्टः पृथां च समपूजयत् 023c