कुन्त्युवाच 001
ब्राह्मणं यन्त्रिता राजनुपस्थास्यामि पूजया 001a
यथाप्रतिज्ञं राजेन्द्र न च मिथ्या ब्रवीम्यहम् 001c
एष चैव स्वभावो मे पूजयेयं द्विजानिति 002a
तव चैव प्रियं कार्यं श्रेयश्चैतत्परं मम 002c
यद्येवैष्यति सायाह्ने यदि प्रातरथो निशि 003a
यद्यर्धरात्रे भगवान्न मे कोपं करिष्यति 003c
लाभो ममैष राजेन्द्र यद्वै पूजयती द्विजान् 004a
आदेशे तव तिष्ठन्ती हितं कुर्यां नरोत्तम 004c
विस्रब्धो भव राजेन्द्र न व्यलीकं द्विजोत्तमः 005a
वसन्प्राप्स्यति ते गेहे सत्यमेतद्ब्रवीमि ते 005c
यत्प्रियं च द्विजस्यास्य हितं चैव तवानघ 006a
यतिष्यामि तथा राजन्व्येतु ते मानसो ज्वरः 006c
ब्राह्मणा हि महाभागाः पूजिताः पृथिवीपते 007a
तारणाय समर्थाः स्युर्विपरीते वधाय च 007c
साहमेतद्विजानन्ती तोषयिष्ये द्विजोत्तमम् 008a
न मत्कृते व्यथां राजन्प्राप्स्यसि द्विजसत्तमात् 008c
अपराधे हि राजेन्द्र राज्ञामश्रेयसे द्विजाः 009a
भवन्ति च्यवनो यद्वत्सुकन्यायाः कृते पुरा 009c
नियमेन परेणाहमुपस्थास्ये द्विजोत्तमम् 010a
यथा त्वया नरेन्द्रेदं भाषितं ब्राह्मणं प्रति 010c
राजोवाच 011
एवमेतत्त्वया भद्रे कर्तव्यमविशङ्कया 011a
मद्धितार्थं कुलार्थं च तथात्मार्थं च नन्दिनि 011c
वैशम्पायन उवाच 012
एवमुक्त्वा तु तां कन्यां कुन्तिभोजो महायशाः 012a
पृथां परिददौ तस्मै द्विजाय सुतवत्सलः 012c
इयं ब्रह्मन्मम सुता बाला सुखविवर्धिता 013a
अपराध्येत यत्किञ्चिन्न तत्कार्यं हृदि त्वया 013c
द्विजातयो महाभागा वृद्धबालतपस्विषु 014a
भवन्त्यक्रोधनाः प्रायो विरुद्धेष्वपि नित्यदा 014c
सुमहत्यपराधेऽपि क्षान्तिः कार्या द्विजातिभिः 015a
यथाशक्ति यथोत्साहं पूजा ग्राह्या द्विजोत्तम 015c
तथेति ब्राह्मणेनोक्ते स राजा प्रीतमानसः 016a
हंसचन्द्रांशुसङ्काशं गृहमस्य न्यवेदयत् 016c
तत्राग्निशरणे कॢप्तमासनं तस्य भानुमत् 017a
आहारादि च सर्वं तत्तथैव प्रत्यवेदयत् 017c
निक्षिप्य राजपुत्री तु तन्द्रीं मानं तथैव च 018a
आतस्थे परमं यत्नं ब्राह्मणस्याभिराधने 018c
तत्र सा ब्राह्मणं गत्वा पृथा शौचपरा सती 019a
विधिवत्परिचारार्हं देववत्पर्यतोषयत् 019c