जनमेजय उवाच 001
किं तद्गुह्यं न चाख्यातं कर्णायेहोष्णरश्मिना 001a
कीदृशे कुण्डले ते च कवचं चैव कीदृशम् 001c
कुतश्च कवचं तस्य कुण्डले चैव सत्तम 002a
एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि तपोधन 002c
वैशम्पायन उवाच 003
अयं राजन्ब्रवीम्येतद्यत्तद्गुह्यं विभावसोः 003a
यादृशे कुण्डले चैव कवचं चैव यादृशम् 003c
कुन्तिभोजं पुरा राजन्ब्राह्मणः समुपस्थितः 004a
तिग्मतेजा महाप्रांशुः श्मश्रुदण्डजटाधरः 004c
दर्शनीयोऽनवद्याङ्गस्तेजसा प्रज्वलन्निव 005a
मधुपिङ्गो मधुरवाक्तपःस्वाध्यायभूषणः 005c
स राजानं कुन्तिभोजमब्रवीत्सुमहातपाः 006a
भिक्षामिच्छाम्यहं भोक्तुं तव गेहे विमत्सर 006c
न मे व्यलीकं कर्तव्यं त्वया वा तव चानुगैः 007a
एवं वत्स्यामि ते गेहे यदि ते रोचतेऽनघ 007c
यथाकामं च गच्छेयमागच्छेयं तथैव च 008a
शय्यासने च मे राजन्नापराध्येत कश्चन 008c
तमब्रवीत्कुन्तिभोजः प्रीतियुक्तमिदं वचः 009a
एवमस्तु परं चेति पुनश्चैनमथाब्रवीत् 009c
मम कन्या महाब्रह्मन्पृथा नाम यशस्विनी 010a
शीलवृत्तान्विता साध्वी नियता न च मानिनी 010c
उपस्थास्यति सा त्वां वै पूजयानवमन्य च 011a
तस्याश्च शीलवृत्तेन तुष्टिं समुपयास्यसि 011c
एवमुक्त्वा तु तं विप्रमभिपूज्य यथाविधि 012a
उवाच कन्यामभ्येत्य पृथां पृथुललोचनाम् 012c
अयं वत्से महाभागो ब्राह्मणो वस्तुमिच्छति 013a
मम गेहे मया चास्य तथेत्येवं प्रतिश्रुतम् 013c
त्वयि वत्से पराश्वस्य ब्राह्मणस्याभिराधनम् 014a
तन्मे वाक्यं न मिथ्या त्वं कर्तुमर्हसि कर्हिचित् 014c
अयं तपस्वी भगवान्स्वाध्यायनियतो द्विजः 015a
यद्यद्ब्रूयान्महातेजास्तत्तद्देयममत्सरात् 015c
ब्राह्मणा हि परं तेजो ब्राह्मणा हि परं तपः 016a
ब्राह्मणानां नमस्कारैः सूर्यो दिवि विराजते 016c
अमानयन्हि मानार्हान्वातापिश्च महासुरः 017a
निहतो ब्रह्मदण्डेन तालजङ्घस्तथैव च 017c
सोऽयं वत्से महाभार आहितस्त्वयि साम्प्रतम् 018a
त्वं सदा नियता कुर्या ब्राह्मणस्याभिराधनम् 018c
जानामि प्रणिधानं ते बाल्यात्प्रभृति नन्दिनि 019a
ब्राह्मणेष्विह सर्वेषु गुरुबन्धुषु चैव ह 019c
तथा प्रेष्येषु सर्वेषु मित्रसम्बन्धिमातृषु 020a
मयि चैव यथावत्त्वं सर्वमादृत्य वर्तसे 020c
न ह्यतुष्टो जनोऽस्तीह पुरे चान्तःपुरे च ते 021a
सम्यग्वृत्त्यानवद्याङ्गि तव भृत्यजनेष्वपि 021c
सन्देष्टव्यां तु मन्ये त्वां द्विजातिं कोपनं प्रति 022a
पृथे बालेति कृत्वा वै सुता चासि ममेति च 022c
वृष्णीनां त्वं कुले जाता शूरस्य दयिता सुता 023a
दत्ता प्रीतिमता मह्यं पित्रा बाला पुरा स्वयम् 023c
वसुदेवस्य भगिनी सुतानां प्रवरा मम 024a
अग्र्यमग्रे प्रतिज्ञाय तेनासि दुहिता मम 024c
तादृशे हि कुले जाता कुले चैव विवर्धिता 025a
सुखात्सुखमनुप्राप्ता ह्रदाद्ध्रदमिवागता 025c
दौष्कुलेया विशेषेण कथञ्चित्प्रग्रहं गताः 026a
बालभावाद्विकुर्वन्ति प्रायशः प्रमदाः शुभे 026c
पृथे राजकुले जन्म रूपं चाद्भुतदर्शनम् 027a
तेन तेनासि सम्पन्ना समुपेता च भामिनी 027c
सा त्वं दर्पं परित्यज्य दम्भं मानं च भामिनि 028a
आराध्य वरदं विप्रं श्रेयसा योक्ष्यसे पृथे 028c
एवं प्राप्स्यसि कल्याणि कल्याणमनघे ध्रुवम् 029a
कोपिते तु द्विजश्रेष्ठे कृत्स्नं दह्येत मे कुलम् 029c