कर्ण उवाच 001
भगवन्तमहं भक्तो यथा मां वेत्थ गोपते 001a
तथा परमतिग्मांशो नान्यं देवं कथञ्चन 001c
न मे दारा न मे पुत्रा न चात्मा सुहृदो न च 002a
तथेष्टा वै सदा भक्त्या यथा त्वं गोपते मम 002c
इष्टानां च महात्मानो भक्तानां च न संशयः 003a
कुर्वन्ति भक्तिमिष्टां च जानीषे त्वं च भास्कर 003c
इष्टो भक्तश्च मे कर्णो न चान्यद्दैवतं दिवि 004a
जानीत इति वै कृत्वा भगवानाह मद्धितम् 004c
भूयश्च शिरसा याचे प्रसाद्य च पुनः पुनः 005a
इति ब्रवीमि तिग्मांशो त्वं तु मे क्षन्तुमर्हसि 005c
बिभेमि न तथा मृत्योर्यथा बिभ्येऽनृतादहम् 006a
विशेषेण द्विजातीनां सर्वेषां सर्वदा सताम् 006c
प्रदाने जीवितस्यापि न मेऽत्रास्ति विचारणा 006e
यच्च मामात्थ देव त्वं पाण्डवं फल्गुनं प्रति 007a
व्येतु सन्तापजं दुःखं तव भास्कर मानसम् 007c
अर्जुनं प्रति मां चैव विजेष्यामि रणेऽर्जुनम् 007e
तवापि विदितं देव ममाप्यस्त्रबलं महत् 008a
जामदग्न्यादुपात्तं यत्तथा द्रोणान्महात्मनः 008c
इदं त्वमनुजानीहि सुरश्रेष्ठ व्रतं मम 009a
भिक्षते वज्रिणे दद्यामपि जीवितमात्मनः 009c
सूर्य उवाच 010
यदि तात ददास्येते वज्रिणे कुण्डले शुभे 010a
त्वमप्येनमथो ब्रूया विजयार्थं महाबल 010c
नियमेन प्रदद्यास्त्वं कुण्डले वै शतक्रतोः 011a
अवध्यो ह्यसि भूतानां कुण्डलाभ्यां समन्वितः 011c
अर्जुनेन विनाशं हि तव दानवसूदनः 012a
प्रार्थयानो रणे वत्स कुण्डले ते जिहीर्षति 012c
स त्वमप्येनमाराध्य सूनृताभिः पुनः पुनः 013a
अभ्यर्थयेथा देवेशममोघार्थं पुरन्दरम् 013c
अमोघां देहि मे शक्तिममित्रविनिबर्हिणीम् 014a
दास्यामि ते सहस्राक्ष कुण्डले वर्म चोत्तमम् 014c
इत्येवं नियमेन त्वं दद्याः शक्राय कुण्डले 015a
तया त्वं कर्ण सङ्ग्रामे हनिष्यसि रणे रिपून् 015c
नाहत्वा हि महाबाहो शत्रूनेति करं पुनः 016a
सा शक्तिर्देवराजस्य शतशोऽथ सहस्रशः 016c
वैशम्पायन उवाच 017
एवमुक्त्वा सहस्रांशुः सहसान्तरधीयत 017a
ततः सूर्याय जप्यान्ते कर्णः स्वप्नं न्यवेदयत् 017c
यथादृष्टं यथातत्त्वं यथोक्तमुभयोर्निशि 018a
तत्सर्वमानुपूर्व्येण शशंसास्मै वृषस्तदा 018c
तच्छ्रुत्वा भगवान्देवो भानुः स्वर्भानुसूदनः 019a
उवाच तं तथेत्येव कर्णं सूर्यः स्मयन्निव 019c
ततस्तत्त्वमिति ज्ञात्वा राधेयः परवीरहा 020a
शक्तिमेवाभिकाङ्क्षन्वै वासवं प्रत्यपालयत् 020c