सूर्य उवाच 001
माहितं कर्ण कार्षीस्त्वमात्मनः सुहृदां तथा 001a
पुत्राणामथ भार्याणामथो मातुरथो पितुः 001c
शरीरस्याविरोधेन प्राणिनां प्राणभृद्वर 002a
इष्यते यशसः प्राप्तिः कीर्तिश्च त्रिदिवे स्थिरा 002c
यस्त्वं प्राणविरोधेन कीर्तिमिच्छसि शाश्वतीम् 003a
सा ते प्राणान्समादाय गमिष्यति न संशयः 003c
जीवतां कुरुते कार्यं पिता माता सुतास्तथा 004a
ये चान्ये बान्धवाः केचिल्लोकेऽस्मिन्पुरुषर्षभ 004c
राजानश्च नरव्याघ्र पौरुषेण निबोध तत् 004e
कीर्तिश्च जीवतः साध्वी पुरुषस्य महाद्युते 005a
मृतस्य कीर्त्या किं कार्यं भस्मीभूतस्य देहिनः 005c
मृतः कीर्तिं न जानाति जीवन्कीर्तिं समश्नुते 005e
मृतस्य कीर्तिर्मर्त्यस्य यथा माला गतायुषः 006a
अहं तु त्वां ब्रवीम्येतद्भक्तोऽसीति हितेप्सया 006c
भक्तिमन्तो हि मे रक्ष्या इत्येतेनापि हेतुना 007a
भक्तोऽयं परया भक्त्या मामित्येव महाभुज 007c
ममापि भक्तिरुत्पन्ना स त्वं कुरु वचो मम 007e
अस्ति चात्र परं किञ्चिदध्यात्मं देवनिर्मितम् 008a
अतश्च त्वां ब्रवीम्येतत्क्रियतामविशङ्कया 008c
देवगुह्यं त्वया ज्ञातुं न शक्यं पुरुषर्षभ 009a
तस्मान्नाख्यामि ते गुह्यं काले वेत्स्यति तद्भवान् 009c
पुनरुक्तं च वक्ष्यामि त्वं राधेय निबोध तत् 010a
मास्मै ते कुण्डले दद्या भिक्षवे वज्रपाणये 010c
शोभसे कुण्डलाभ्यां हि रुचिराभ्यां महाद्युते 011a
विशाखयोर्मध्यगतः शशीव विमलो दिवि 011c
कीर्तिश्च जीवतः साध्वी पुरुषस्येति विद्धि तत् 012a
प्रत्याख्येयस्त्वया तात कुण्डलार्थे पुरन्दरः 012c
शक्या बहुविधैर्वाक्यैः कुण्डलेप्सा त्वयानघ 013a
विहन्तुं देवराजस्य हेतुयुक्तैः पुनः पुनः 013c
उपपत्त्युपपन्नार्थैर्माधुर्यकृतभूषणैः 014a
पुरन्दरस्य कर्ण त्वं बुद्धिमेतामपानुद 014c
त्वं हि नित्यं नरव्याघ्र स्पर्धसे सव्यसाचिना 015a
सव्यसाची त्वया चैव युधि शूरः समेष्यति 015c
न तु त्वामर्जुनः शक्तः कुण्डलाभ्यां समन्वितम् 016a
विजेतुं युधि यद्यस्य स्वयमिन्द्रः शरो भवेत् 016c
तस्मान्न देये शक्राय त्वयैते कुण्डले शुभे 017a
सङ्ग्रामे यदि निर्जेतुं कर्ण कामयसेऽर्जुनम् 017c