जनमेजय उवाच 001
यत्तत्तदा महाब्रह्मल्ँलोमशो वाक्यमब्रवीत् 001a
इन्द्रस्य वचनादेत्य पाण्डुपुत्रं युधिष्ठिरम् 001c
यच्चापि ते भयं तीव्रं न च कीर्तयसे क्वचित् 002a
तच्चाप्यपहरिष्यामि सव्यसाचाविहागते 002c
किं नु तद्विदुषां श्रेष्ठ कर्णं प्रति महद्भयम् 003a
आसीन्न च स धर्मात्मा कथयामास कस्यचित् 003c
वैशम्पायन उवाच 004
अहं ते राजशार्दूल कथयामि कथामिमाम् 004a
पृच्छते भरतश्रेष्ठ शुश्रूषस्व गिरं मम 004c
द्वादशे समतिक्रान्ते वर्षे प्राप्ते त्रयोदशे 005a
पाण्डूनां हितकृच्छक्रः कर्णं भिक्षितुमुद्यतः 005c
अभिप्रायमथो ज्ञात्वा महेन्द्रस्य विभावसुः 006a
कुण्डलार्थे महाराज सूर्यः कर्णमुपागमत् 006c
महार्हे शयने वीरं स्पर्ध्यास्तरणसंवृते 007a
शयानमभिविश्वस्तं ब्रह्मण्यं सत्यवादिनम् 007c
स्वप्नान्ते निशि राजेन्द्र दर्शयामास रश्मिवान् 008a
कृपया परयाविष्टः पुत्रस्नेहाच्च भारत 008c
ब्राह्मणो वेदविद्भूत्वा सूर्यो योगाद्धि रूपवान् 009a
हितार्थमब्रवीत्कर्णं सान्त्वपूर्वमिदं वचः 009c
कर्ण मद्वचनं तात शृणु सत्यभृतां वर 010a
ब्रुवतोऽद्य महाबाहो सौहृदात्परमं हितम् 010c
उपायास्यति शक्रस्त्वां पाण्डवानां हितेप्सया 011a
ब्राह्मणच्छद्मना कर्ण कुण्डलापजिहीर्षया 011c
विदितं तेन शीलं ते सर्वस्य जगतस्तथा 012a
यथा त्वं भिक्षितः सद्भिर्ददास्येव न याचसे 012c
त्वं हि तात ददास्येव ब्राह्मणेभ्यः प्रयाचितः 013a
वित्तं यच्चान्यदप्याहुर्न प्रत्याख्यासि कर्हिचित् 013c
तं त्वामेवंविधं ज्ञात्वा स्वयं वै पाकशासनः 014a
आगन्ता कुण्डलार्थाय कवचं चैव भिक्षितुम् 014c
तस्मै प्रयाचमानाय न देये कुण्डले त्वया 015a
अनुनेयः परं शक्त्या श्रेय एतद्धि ते परम् 015c
कुण्डलार्थे ब्रुवंस्तात कारणैर्बहुभिस्त्वया 016a
अन्यैर्बहुविधैर्वित्तैः स निवार्यः पुनः पुनः 016c
रत्नैः स्त्रीभिस्तथा भोगैर्धनैर्बहुविधैरपि 017a
निदर्शनैश्च बहुभिः कुण्डलेप्सुः पुरन्दरः 017c
यदि दास्यसि कर्ण त्वं सहजे कुण्डले शुभे 018a
आयुषः प्रक्षयं गत्वा मृत्योर्वशमुपेष्यसि 018c
कवचेन च संयुक्तः कुण्डलाभ्यां च मानद 019a
अवध्यस्त्वं रणेऽरीणामिति विद्धि वचो मम 019c
अमृतादुत्थितं ह्येतदुभयं रत्नसम्भवम् 020a
तस्माद्रक्ष्यं त्वया कर्ण जीवितं चेत्प्रियं तव 020c
कर्ण उवाच 021
को मामेवं भवान्प्राह दर्शयन्सौहृदं परम् 021a
कामया भगवन्ब्रूहि को भवान्द्विजवेषधृक् 021c
ब्राह्मण उवाच 022
अहं तात सहस्रांशुः सौहृदात्त्वां निदर्शये 022a
कुरुष्वैतद्वचो मे त्वमेतच्छ्रेयः परं हि ते 022c
कर्ण उवाच 023
श्रेय एव ममात्यन्तं यस्य मे गोपतिः प्रभुः 023a
प्रवक्ताद्य हितान्वेषी शृणु चेदं वचो मम 023c
प्रसादये त्वां वरदं प्रणयाच्च ब्रवीम्यहम् 024a
न निवार्यो व्रतादस्मादहं यद्यस्मि ते प्रियः 024c
व्रतं वै मम लोकोऽयं वेत्ति कृत्स्नो विभावसो 025a
यथाहं द्विजमुख्येभ्यो दद्यां प्राणानपि ध्रुवम् 025c
यद्यागच्छति शक्रो मां ब्राह्मणच्छद्मनावृतः 026a
हितार्थं पाण्डुपुत्राणां खेचरोत्तम भिक्षितुम् 026c
दास्यामि विबुधश्रेष्ठ कुण्डले वर्म चोत्तमम् 027a
न मे कीर्तिः प्रणश्येत त्रिषु लोकेषु विश्रुता 027c
मद्विधस्यायशस्यं हि न युक्तं प्राणरक्षणम् 028a
युक्तं हि यशसा युक्तं मरणं लोकसम्मतम् 028c
सोऽहमिन्द्राय दास्यामि कुण्डले सह वर्मणा 029a
यदि मां बलवृत्रघ्नो भिक्षार्थमुपयास्यति 029c
हितार्थं पाण्डुपुत्राणां कुण्डले मे प्रयाचितुम् 030a
तन्मे कीर्तिकरं लोके तस्याकीर्तिर्भविष्यति 030c
वृणोमि कीर्तिं लोके हि जीवितेनापि भानुमन् 031a
कीर्तिमानश्नुते स्वर्गं हीनकीर्तिस्तु नश्यति 031c
कीर्तिर्हि पुरुषं लोके सञ्जीवयति मातृवत् 032a
अकीर्तिर्जीवितं हन्ति जीवतोऽपि शरीरिणः 032c
अयं पुराणः श्लोको हि स्वयं गीतो विभावसो 033a
धात्रा लोकेश्वर यथा कीर्तिरायुर्नरस्य वै 033c
पुरुषस्य परे लोके कीर्तिरेव परायणम् 034a
इह लोके विशुद्धा च कीर्तिरायुर्विवर्धनी 034c
सोऽहं शरीरजे दत्त्वा कीर्तिं प्राप्स्यामि शाश्वतीम् 035a
दत्त्वा च विधिवद्दानं ब्राह्मणेभ्यो यथाविधि 035c
हुत्वा शरीरं सङ्ग्रामे कृत्वा कर्म सुदुष्करम् 036a
विजित्य वा परानाजौ यशः प्राप्स्यामि केवलम् 036c
भीतानामभयं दत्त्वा सङ्ग्रामे जीवितार्थिनाम् 037a
वृद्धान्बालान्द्विजातींश्च मोक्षयित्वा महाभयात् 037c
प्राप्स्यामि परमं लोके यशः स्वर्भानुसूदन 038a
जीवितेनापि मे रक्ष्या कीर्तिस्तद्विद्धि मे व्रतम् 038c
सोऽहं दत्त्वा मघवते भिक्षामेतामनुत्तमाम् 039a
ब्राह्मणच्छद्मिने देव लोके गन्ता परां गतिम् 039c