मार्कण्डेय उवाच 001
तस्यां रात्र्यां व्यतीतायामुदिते सूर्यमण्डले 001a
कृतपूर्वाह्णिकाः सर्वे समेयुस्ते तपोधनाः 001c
तदेव सर्वं सावित्र्या महाभाग्यं महर्षयः 002a
द्युमत्सेनाय नातृप्यन्कथयन्तः पुनः पुनः 002c
ततः प्रकृतयः सर्वाः शाल्वेभ्योऽभ्यागता नृप 003a
आचख्युर्निहतं चैव स्वेनामात्येन तं नृपम् 003c
तं मन्त्रिणा हतं श्रुत्वा ससहायं सबान्धवम् 004a
न्यवेदयन्यथातत्त्वं विद्रुतं च द्विषद्बलम् 004c
ऐकमत्यं च सर्वस्य जनस्याथ नृपं प्रति 005a
सचक्षुर्वाप्यचक्षुर्वा स नो राजा भवत्विति 005c
अनेन निश्चयेनेह वयं प्रस्थापिता नृप 006a
प्राप्तानीमानि यानानि चतुरङ्गं च ते बलम् 006c
प्रयाहि राजन्भद्रं ते घुष्टस्ते नगरे जयः 007a
अध्यास्स्व चिररात्राय पितृपैतामहं पदम् 007c
चक्षुष्मन्तं च तं दृष्ट्वा राजानं वपुषान्वितम् 008a
मूर्धभिः पतिताः सर्वे विस्मयोत्फुल्ललोचनाः 008c
ततोऽभिवाद्य तान्वृद्धान्द्विजानाश्रमवासिनः 009a
तैश्चाभिपूजितः सर्वैः प्रययौ नगरं प्रति 009c
शैब्या च सह सावित्र्या स्वास्तीर्णेन सुवर्चसा 010a
नरयुक्तेन यानेन प्रययौ सेनया वृता 010c
ततोऽभिषिषिचुः प्रीत्या द्युमत्सेनं पुरोहिताः 011a
पुत्रं चास्य महात्मानं यौवराज्येऽभ्यषेचयन् 011c
ततः कालेन महता सावित्र्याः कीर्तिवर्धनम् 012a
तद्वै पुत्रशतं जज्ञे शूराणामनिवर्तिनाम् 012c
भ्रातॄणां सोदराणां च तथैवास्याभवच्छतम् 013a
मद्राधिपस्याश्वपतेर्मालव्यां सुमहाबलम् 013c
एवमात्मा पिता माता श्वश्रूः श्वशुर एव च 014a
भर्तुः कुलं च सावित्र्या सर्वं कृच्छ्रात्समुद्धृतम् 014c
तथैवैषापि कल्याणी द्रौपदी शीलसम्मता 015a
तारयिष्यति वः सर्वान्सावित्रीव कुलाङ्गना 015c
वैशम्पायन उवाच 016
एवं स पाण्डवस्तेन अनुनीतो महात्मना 016a
विशोको विज्वरो राजन्काम्यके न्यवसत्तदा 016c