मार्कण्डेय उवाच 001
एतस्मिन्नेव काले तु द्युमत्सेनो महावने 001a
लब्धचक्षुः प्रसन्नात्मा दृष्ट्या सर्वं ददर्श ह 001c
स सर्वानाश्रमान्गत्वा शैब्यया सह भार्यया 002a
पुत्रहेतोः परामार्तिं जगाम मनुजर्षभ 002c
तावाश्रमान्नदीश्चैव वनानि च सरांसि च 003a
तांस्तान्देशान्विचिन्वन्तौ दम्पती परिजग्मतुः 003c
श्रुत्वा शब्दं तु यत्किञ्चिदुन्मुखौ सुतशङ्कया 004a
सावित्रीसहितोऽभ्येति सत्यवानित्यधावताम् 004c
भिन्नैश्च परुषैः पादैः सव्रणैः शोणितोक्षितैः 005a
कुशकण्टकविद्धाङ्गावुन्मत्ताविव धावतः 005c
ततोऽभिसृत्य तैर्विप्रैः सर्वैराश्रमवासिभिः 006a
परिवार्य समाश्वास्य समानीतौ स्वमाश्रमम् 006c
तत्र भार्यासहायः स वृतो वृद्धैस्तपोधनैः 007a
आश्वासितो विचित्रार्थैः पूर्वराज्ञां कथाश्रयैः 007c
ततस्तौ पुनराश्वस्तौ वृद्धौ पुत्रदिदृक्षया 008a
बाल्ये वृत्तानि पुत्रस्य स्मरन्तौ भृशदुःखितौ 008c
पुनरुक्त्वा च करुणां वाचं तौ शोककर्शितौ 009a
हा पुत्र हा साध्वि वधूः क्वासि क्वासीत्यरोदताम् 009c
सुवर्चा उवाच 010
यथास्य भार्या सावित्री तपसा च दमेन च 010a
आचारेण च संयुक्ता तथा जीवति सत्यवान् 010c
गौतम उवाच 011
वेदाः साङ्गा मयाधीतास्तपो मे सञ्चितं महत् 011a
कौमारं ब्रह्मचर्यं मे गुरवोऽग्निश्च तोषिताः 011c
समाहितेन चीर्णानि सर्वाण्येव व्रतानि मे 012a
वायुभक्षोपवासश्च कुशलानि च यानि मे 012c
अनेन तपसा वेद्मि सर्वं परिचिकीर्षितम् 013a
सत्यमेतन्निबोध त्वं ध्रियते सत्यवानिति 013c
शिष्य उवाच 014
उपाध्यायस्य मे वक्त्राद्यथा वाक्यं विनिःसृतम् 014a
नैतज्जातु भवेन्मिथ्या तथा जीवति सत्यवान् 014c
ऋषय ऊचुः 015
यथास्य भार्या सावित्री सर्वैरेव सुलक्षणैः 015a
अवैधव्यकरैर्युक्ता तथा जीवति सत्यवान् 015c
भारद्वाज उवाच 016
यथास्य भार्या सावित्री तपसा च दमेन च 016a
आचारेण च संयुक्ता तथा जीवति सत्यवान् 016c
दाल्भ्य उवाच 017
यथा दृष्टिः प्रवृत्ता ते सावित्र्याश्च यथा व्रतम् 017a
गताहारमकृत्वा च तथा जीवति सत्यवान् 017c
माण्डव्य उवाच 018
यथा वदन्ति शान्तायां दिशि वै मृगपक्षिणः 018a
पार्थिवी च प्रवृत्तिस्ते तथा जीवति सत्यवान् 018c
धौम्य उवाच 019
सर्वैर्गुणैरुपेतस्ते यथा पुत्रो जनप्रियः 019a
दीर्घायुर्लक्षणोपेतस्तथा जीवति सत्यवान् 019c
मार्कण्डेय उवाच 020
एवमाश्वासितस्तैस्तु सत्यवाग्भिस्तपस्विभिः 020a
तांस्तान्विगणयन्नर्थानवस्थित इवाभवत् 020c
ततो मुहूर्तात्सावित्री भर्त्रा सत्यवता सह 021a
आजगामाश्रमं रात्रौ प्रहृष्टा प्रविवेश ह 021c
ब्राह्मणा ऊचुः 022
पुत्रेण सङ्गतं त्वाद्य चक्षुष्मन्तं निरीक्ष्य च 022a
सर्वे वयं वै पृच्छामो वृद्धिं ते पृथिवीपते 022c
समागमेन पुत्रस्य सावित्र्या दर्शनेन च 023a
चक्षुषश्चात्मनो लाभात्त्रिभिर्दिष्ट्या विवर्धसे 023c
सर्वैरस्माभिरुक्तं यत्तथा तन्नात्र संशयः 024a
भूयो भूयश्च वृद्धिस्ते क्षिप्रमेव भविष्यति 024c
मार्कण्डेय उवाच 025
ततोऽग्निं तत्र सञ्ज्वाल्य द्विजास्ते सर्व एव हि 025a
उपासां चक्रिरे पार्थ द्युमत्सेनं महीपतिम् 025c
शैब्या च सत्यवांश्चैव सावित्री चैकतः स्थिताः 026a
सर्वैस्तैरभ्यनुज्ञाता विशोकाः समुपाविशन् 026c
ततो राज्ञा सहासीनाः सर्वे ते वनवासिनः 027a
जातकौतूहलाः पार्थ पप्रच्छुर्नृपतेः सुतम् 027c
प्रागेव नागतं कस्मात्सभार्येण त्वया विभो 028a
विरात्रे चागतं कस्मात्कोऽनुबन्धश्च तेऽभवत् 028c
सन्तापितः पिता माता वयं चैव नृपात्मज 029a
नाकस्मादिति जानीमस्तत्सर्वं वक्तुमर्हसि 029c
सत्यवानुवाच 030
पित्राहमभ्यनुज्ञातः सावित्रीसहितो गतः 030a
अथ मेऽभूच्छिरोदुःखं वने काष्ठानि भिन्दतः 030c
सुप्तश्चाहं वेदनया चिरमित्युपलक्षये 031a
तावत्कालं च न मया सुप्तपूर्वं कदाचन 031c
सर्वेषामेव भवतां सन्तापो मा भवेदिति 032a
अतो विरात्रागमनं नान्यदस्तीह कारणम् 032c
गौतम उवाच 033
अकस्माच्चक्षुषः प्राप्तिर्द्युमत्सेनस्य ते पितुः 033a
नास्य त्वं कारणं वेत्थ सावित्री वक्तुमर्हति 033c
श्रोतुमिच्छामि सावित्रि त्वं हि वेत्थ परावरम् 034a
त्वां हि जानामि सावित्रि सावित्रीमिव तेजसा 034c
त्वमत्र हेतुं जानीषे तस्मात्सत्यं निरुच्यताम् 035a
रहस्यं यदि ते नास्ति किञ्चिदत्र वदस्व नः 035c
सावित्र्युवाच 036
एवमेतद्यथा वेत्थ सङ्कल्पो नान्यथा हि वः 036a
न च किञ्चिद्रहस्यं मे श्रूयतां तथ्यमत्र यत् 036c
मृत्युर्मे भर्तुराख्यातो नारदेन महात्मना 037a
स चाद्य दिवसः प्राप्तस्ततो नैनं जहाम्यहम् 037c
सुप्तं चैनं यमः साक्षादुपागच्छत्सकिङ्करः 038a
स एनमनयद्बद्ध्वा दिशं पितृनिषेविताम् 038c
अस्तौषं तमहं देवं सत्येन वचसा विभुम् 039a
पञ्च वै तेन मे दत्ता वराः शृणुत तान्मम 039c
चक्षुषी च स्वराज्यं च द्वौ वरौ श्वशुरस्य मे 040a
लब्धं पितुः पुत्रशतं पुत्राणामात्मनः शतम् 040c
चतुर्वर्षशतायुर्मे भर्ता लब्धश्च सत्यवान् 041a
भर्तुर्हि जीवितार्थं तु मया चीर्णं स्थिरं व्रतम् 041c
एतत्सत्यं मयाख्यातं कारणं विस्तरेण वः 042a
यथा वृत्तं सुखोदर्कमिदं दुःखं महन्मम 042c
ऋषय ऊचुः 043
निमज्जमानं व्यसनैरभिद्रुतं कुलं नरेन्द्रस्य तमोमये ह्रदे 043a
त्वया सुशीले धृतधर्मपुण्यया समुद्धृतं साध्वि पुनः कुलीनया 043c
मार्कण्डेय उवाच 044
तथा प्रशस्य ह्यभिपूज्य चैव ते वरस्त्रियं तामृषयः समागताः 044a
नरेन्द्रमामन्त्र्य सपुत्रमञ्जसा शिवेन जग्मुर्मुदिताः स्वमालयम् 044c