मार्कण्डेय उवाच 001
अथ भार्यासहायः स फलान्यादाय वीर्यवान् 001a
कठिनं पूरयामास ततः काष्ठान्यपाटयत् 001c
तस्य पाटयतः काष्ठं स्वेदो वै समजायत 002a
व्यायामेन च तेनास्य जज्ञे शिरसि वेदना 002c
सोऽभिगम्य प्रियां भार्यामुवाच श्रमपीडितः 003a
व्यायामेन ममानेन जाता शिरसि वेदना 003c
अङ्गानि चैव सावित्रि हृदयं दूयतीव च 004a
अस्वस्थमिव चात्मानं लक्षये मितभाषिणि 004c
शूलैरिव शिरो विद्धमिदं संलक्षयाम्यहम् 005a
तत्स्वप्तुमिच्छे कल्याणि न स्थातुं शक्तिरस्ति मे 005c
समासाद्याथ सावित्री भर्तारमुपगूह्य च 006a
उत्सङ्गेऽस्य शिरः कृत्वा निषसाद महीतले 006c
ततः सा नारदवचो विमृशन्ती तपस्विनी 007a
तं मुहूर्तं क्षणं वेलां दिवसं च युयोज ह 007c
मुहूर्तादिव चापश्यत्पुरुषं पीतवाससम् 008a
बद्धमौलिं वपुष्मन्तमादित्यसमतेजसम् 008c
श्यामावदातं रक्ताक्षं पाशहस्तं भयावहम् 009a
स्थितं सत्यवतः पार्श्वे निरीक्षन्तं तमेव च 009c
तं दृष्ट्वा सहसोत्थाय भर्तुर्न्यस्य शनैः शिरः 010a
कृताञ्जलिरुवाचार्ता हृदयेन प्रवेपता 010c
दैवतं त्वाभिजानामि वपुरेतद्ध्यमानुषम् 011a
कामया ब्रूहि मे देव कस्त्वं किं च चिकीर्षसि 011c
यम उवाच 012
पतिव्रतासि सावित्रि तथैव च तपोन्विता 012a
अतस्त्वामभिभाषामि विद्धि मां त्वं शुभे यमम् 012c
अयं ते सत्यवान्भर्ता क्षीणायुः पार्थिवात्मजः 013a
नेष्याम्येनमहं बद्ध्वा विद्ध्येतन्मे चिकीर्षितम् 013c
मार्कण्डेय उवाच 014
इत्युक्त्वा पितृराजस्तां भगवान्स्वं चिकीर्षितम् 014a
यथावत्सर्वमाख्यातुं तत्प्रियार्थं प्रचक्रमे 014c
अयं हि धर्मसंयुक्तो रूपवान्गुणसागरः 015a
नार्हो मत्पुरुषैर्नेतुमतोऽस्मि स्वयमागतः 015c
ततः सत्यवतः कायात्पाशबद्धं वशं गतम् 016a
अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् 016c
ततः समुद्धृतप्राणं गतश्वासं हतप्रभम् 017a
निर्विचेष्टं शरीरं तद्बभूवाप्रियदर्शनम् 017c
यमस्तु तं तथा बद्ध्वा प्रयातो दक्षिणामुखः 018a
सावित्री चापि दुःखार्ता यममेवान्वगच्छत 018c
नियमव्रतसंसिद्धा महाभागा पतिव्रता 018e
यम उवाच 019
निवर्त गच्छ सावित्रि कुरुष्वास्यौर्ध्वदेहिकम् 019a
कृतं भर्तुस्त्वयानृण्यं यावद्गम्यं गतं त्वया 019c
सावित्र्युवाच 020
यत्र मे नीयते भर्ता स्वयं वा यत्र गच्छति 020a
मयापि तत्र गन्तव्यमेष धर्मः सनातनः 020c
तपसा गुरुवृत्त्या च भर्तुः स्नेहाद्व्रतेन च 021a
तव चैव प्रसादेन न मे प्रतिहता गतिः 021c
प्राहुः सप्तपदं मित्रं बुधास्तत्त्वार्थदर्शिनः 022a
मित्रतां च पुरस्कृत्य किञ्चिद्वक्ष्यामि तच्छृणु 022c
नानात्मवन्तस्तु वने चरन्ति धर्मं च वासं च परिश्रमं च 023a
विज्ञानतो धर्ममुदाहरन्ति तस्मात्सन्तो धर्ममाहुः प्रधानम् 023c
एकस्य धर्मेण सतां मतेन सर्वे स्म तं मार्गमनुप्रपन्नाः 024a
मा वै द्वितीयं मा तृतीयं च वाञ्छे तस्मात्सन्तो धर्ममाहुः प्रधानम् 024c
यम उवाच 025
निवर्त तुष्टोऽस्मि तवानया गिरा स्वराक्षरव्यञ्जनहेतुयुक्तया 025a
वरं वृणीष्वेह विनास्य जीवितं ददानि ते सर्वमनिन्दिते वरम् 025c
सावित्र्युवाच 026
च्युतः स्वराज्याद्वनवासमाश्रितो विनष्टचक्षुः श्वशुरो ममाश्रमे 026a
स लब्धचक्षुर्बलवान्भवेन्नृपस्तव प्रसादाज्ज्वलनार्कसन्निभः 026c
यम उवाच 027
ददानि ते सर्वमनिन्दिते वरं यथा त्वयोक्तं भविता च तत्तथा 027a
तवाध्वना ग्लानिमिवोपलक्षये निवर्त गच्छस्व न ते श्रमो भवेत् 027c
सावित्र्युवाच 028
कुतः श्रमो भर्तृसमीपतो हि मे यतो हि भर्ता मम सा गतिर्ध्रुवा 028a
यतः पतिं नेष्यसि तत्र मे गतिः सुरेश भूयश्च वचो निबोध मे 028c
सतां सकृत्सङ्गतमीप्सितं परं ततः परं मित्रमिति प्रचक्षते 029a
न चाफलं सत्पुरुषेण सङ्गतं ततः सतां सन्निवसेत्समागमे 029c
यम उवाच 030
मनोनुकूलं बुधबुद्धिवर्धनं त्वयाहमुक्तो वचनं हिताश्रयम् 030a
विना पुनः सत्यवतोऽस्य जीवितं वरं द्वितीयं वरयस्व भामिनि 030c
सावित्र्युवाच 031
हृतं पुरा मे श्वशुरस्य धीमतः स्वमेव राज्यं स लभेत पार्थिवः 031a
जह्यात्स्वधर्मं न च मे गुरुर्यथा द्वितीयमेतं वरयामि ते वरम् 031c
यम उवाच 032
स्वमेव राज्यं प्रतिपत्स्यतेऽचिरान्न च स्वधर्मात्परिहास्यते नृपः 032a
कृतेन कामेन मया नृपात्मजे निवर्त गच्छस्व न ते श्रमो भवेत् 032c
सावित्र्युवाच 033
प्रजास्त्वयेमा नियमेन संयता नियम्य चैता नयसे न कामया 033a
अतो यमत्वं तव देव विश्रुतं निबोध चेमां गिरमीरितां मया 033c
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा 034a
अनुग्रहश्च दानं च सतां धर्मः सनातनः 034c
एवम्प्रायश्च लोकोऽयं मनुष्याः शक्तिपेशलाः 035a
सन्तस्त्वेवाप्यमित्रेषु दयां प्राप्तेषु कुर्वते 035c
यम उवाच 036
पिपासितस्येव यथा भवेत्पयस्तथा त्वया वाक्यमिदं समीरितम् 036a
विना पुनः सत्यवतोऽस्य जीवितं वरं वृणीष्वेह शुभे यदिच्छसि 036c
सावित्र्युवाच 037
ममानपत्यः पृथिवीपतिः पिता भवेत्पितुः पुत्रशतं ममौरसम् 037a
कुलस्य सन्तानकरं च यद्भवेत्तृतीयमेतं वरयामि ते वरम् 037c
यम उवाच 038
कुलस्य सन्तानकरं सुवर्चसं शतं सुतानां पितुरस्तु ते शुभे 038a
कृतेन कामेन नराधिपात्मजे निवर्त दूरं हि पथस्त्वमागता 038c
सावित्र्युवाच 039
न दूरमेतन्मम भर्तृसन्निधौ मनो हि मे दूरतरं प्रधावति 039a
तथा व्रजन्नेव गिरं समुद्यतां मयोच्यमानां शृणु भूय एव च 039c
विवस्वतस्त्वं तनयः प्रतापवांस्ततो हि वैवस्वत उच्यसे बुधैः 040a
शमेन धर्मेण च रञ्जिताः प्रजास्ततस्तवेहेश्वर धर्मराजता 040c
आत्मन्यपि न विश्वासस्तावान्भवति सत्सु यः 041a
तस्मात्सत्सु विशेषेण सर्वः प्रणयमिच्छति 041c
सौहृदात्सर्वभूतानां विश्वासो नाम जायते 042a
तस्मात्सत्सु विशेषेण विश्वासं कुरुते जनः 042c
यम उवाच 043
उदाहृतं ते वचनं यदङ्गने शुभे न तादृक्त्वदृते मया श्रुतम् 043a
अनेन तुष्टोऽस्मि विनास्य जीवितं वरं चतुर्थं वरयस्व गच्छ च 043c
सावित्र्युवाच 044
ममात्मजं सत्यवतस्तथौरसं भवेदुभाभ्यामिह यत्कुलोद्वहम् 044a
शतं सुतानां बलवीर्यशालिनामिदं चतुर्थं वरयामि ते वरम् 044c
यम उवाच 045
शतं सुतानां बलवीर्यशालिनां भविष्यति प्रीतिकरं तवाबले 045a
परिश्रमस्ते न भवेन्नृपात्मजे निवर्त दूरं हि पथस्त्वमागता 045c
सावित्र्युवाच 046
सतां सदा शाश्वती धर्मवृत्तिः सन्तो न सीदन्ति न च व्यथन्ति 046a
सतां सद्भिर्नाफलः सङ्गमोऽस्ति सद्भ्यो भयं नानुवर्तन्ति सन्तः 046c
सन्तो हि सत्येन नयन्ति सूर्यं सन्तो भूमिं तपसा धारयन्ति 047a
सन्तो गतिर्भूतभव्यस्य राजन्सतां मध्ये नावसीदन्ति सन्तः 047c
आर्यजुष्टमिदं वृत्तमिति विज्ञाय शाश्वतम् 048a
सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियाम् 048c
न च प्रसादः सत्पुरुषेषु मोघो न चाप्यर्थो नश्यति नापि मानः 049a
यस्मादेतन्नियतं सत्सु नित्यं तस्मात्सन्तो रक्षितारो भवन्ति 049c
यम उवाच 050
यथा यथा भाषसि धर्मसंहितं मनोनुकूलं सुपदं महार्थवत् 050a
तथा तथा मे त्वयि भक्तिरुत्तमा वरं वृणीष्वाप्रतिमं यतव्रते 050c
सावित्र्युवाच 051
न तेऽपवर्गः सुकृताद्विनाकृतस्तथा यथान्येषु वरेषु मानद 051a
वरं वृणे जीवतु सत्यवानयं यथा मृता ह्येवमहं विना पतिम् 051c
न कामये भर्तृविनाकृता सुखं न कामये भर्तृविनाकृता दिवम् 052a
न कामये भर्तृविनाकृता श्रियं न भर्तृहीना व्यवसामि जीवितुम् 052c
वरातिसर्गः शतपुत्रता मम त्वयैव दत्तो ह्रियते च मे पतिः 053a
वरं वृणे जीवतु सत्यवानयं तवैव सत्यं वचनं भविष्यति 053c
मार्कण्डेय उवाच 054
तथेत्युक्त्वा तु तान्पाशान्मुक्त्वा वैवस्वतो यमः 054a
धर्मराजः प्रहृष्टात्मा सावित्रीमिदमब्रवीत् 054c
एष भद्रे मया मुक्तो भर्ता ते कुलनन्दिनि 055a
अरोगस्तव नेयश्च सिद्धार्थश्च भविष्यति 055c
चतुर्वर्षशतं चायुस्त्वया सार्धमवाप्स्यति 056a
इष्ट्वा यज्ञैश्च धर्मेण ख्यातिं लोके गमिष्यति 056c
त्वयि पुत्रशतं चैव सत्यवाञ्जनयिष्यति 057a
ते चापि सर्वे राजानः क्षत्रियाः पुत्रपौत्रिणः 057c
ख्यातास्त्वन्नामधेयाश्च भविष्यन्तीह शाश्वताः 057e
पितुश्च ते पुत्रशतं भविता तव मातरि 058a
मालव्यां मालवा नाम शाश्वताः पुत्रपौत्रिणः 058c
भ्रातरस्ते भविष्यन्ति क्षत्रियास्त्रिदशोपमाः 058e
एवं तस्यै वरं दत्त्वा धर्मराजः प्रतापवान् 059a
निवर्तयित्वा सावित्रीं स्वमेव भवनं ययौ 059c
सावित्र्यपि यमे याते भर्तारं प्रतिलभ्य च 060a
जगाम तत्र यत्रास्या भर्तुः शावं कलेवरम् 060c
सा भूमौ प्रेक्ष्य भर्तारमुपसृत्योपगूह्य च 061a
उत्सङ्गे शिर आरोप्य भूमावुपविवेश ह 061c
सञ्ज्ञां च सत्यवाल्ँलब्ध्वा सावित्रीमभ्यभाषत 062a
प्रोष्यागत इव प्रेम्णा पुनः पुनरुदीक्ष्य वै 062c
सत्यवानुवाच 063
सुचिरं बत सुप्तोऽस्मि किमर्थं नावबोधितः 063a
क्व चासौ पुरुषः श्यामो योऽसौ मां सञ्चकर्ष ह 063c
सावित्र्युवाच 064
सुचिरं बत सुप्तोऽसि ममाङ्के पुरुषर्षभ 064a
गतः स भगवान्देवः प्रजासंयमनो यमः 064c
विश्रान्तोऽसि महाभाग विनिद्रश्च नृपात्मज 065a
यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम् 065c
मार्कण्डेय उवाच 066
उपलभ्य ततः सञ्ज्ञां सुखसुप्त इवोत्थितः 066a
दिशः सर्वा वनान्तांश्च निरीक्ष्योवाच सत्यवान् 066c
फलाहारोऽस्मि निष्क्रान्तस्त्वया सह सुमध्यमे 067a
ततः पाटयतः काष्ठं शिरसो मे रुजाभवत् 067c
शिरोभितापसन्तप्तः स्थातुं चिरमशक्नुवन् 068a
तवोत्सङ्गे प्रसुप्तोऽहमिति सर्वं स्मरे शुभे 068c
त्वयोपगूढस्य च मे निद्रयापहृतं मनः 069a
ततोऽपश्यं तमो घोरं पुरुषं च महौजसम् 069c
तद्यदि त्वं विजानासि किं तद्ब्रूहि सुमध्यमे 070a
स्वप्नो मे यदि वा दृष्टो यदि वा सत्यमेव तत् 070c
तमुवाचाथ सावित्री रजनी व्यवगाहते 071a
श्वस्ते सर्वं यथावृत्तमाख्यास्यामि नृपात्मज 071c
उत्तिष्ठोत्तिष्ठ भद्रं ते पितरौ पश्य सुव्रत 072a
विगाढा रजनी चेयं निवृत्तश्च दिवाकरः 072c
नक्तञ्चराश्चरन्त्येते हृष्टाः क्रूराभिभाषिणः 073a
श्रूयन्ते पर्णशब्दाश्च मृगाणां चरतां वने 073c
एताः शिवा घोरनादा दिशं दक्षिणपश्चिमाम् 074a
आस्थाय विरुवन्त्युग्राः कम्पयन्त्यो मनो मम 074c
सत्यवानुवाच 075
वनं प्रतिभयाकारं घनेन तमसा वृतम् 075a
न विज्ञास्यसि पन्थानं गन्तुं चैव न शक्ष्यसि 075c
सावित्र्युवाच 076
अस्मिन्नद्य वने दग्धे शुष्कवृक्षः स्थितो ज्वलन् 076a
वायुना धम्यमानोऽग्निर्दृश्यतेऽत्र क्वचित्क्वचित् 076c
ततोऽग्निमानयित्वेह ज्वालयिष्यामि सर्वतः 077a
काष्ठानीमानि सन्तीह जहि सन्तापमात्मनः 077c
यदि नोत्सहसे गन्तुं सरुजं त्वाभिलक्षये 078a
न च ज्ञास्यसि पन्थानं तमसा संवृते वने 078c
श्वः प्रभाते वने दृश्ये यास्यावोऽनुमते तव 079a
वसावेह क्षपामेतां रुचितं यदि तेऽनघ 079c
सत्यवानुवाच 080
शिरोरुजा निवृत्ता मे स्वस्थान्यङ्गानि लक्षये 080a
मातापितृभ्यामिच्छामि सङ्गमं त्वत्प्रसादजम् 080c
न कदाचिद्विकाले हि गतपूर्वो मयाश्रमः 081a
अनागतायां सन्ध्यायां माता मे प्ररुणद्धि माम् 081c
दिवापि मयि निष्क्रान्ते सन्तप्येते गुरू मम 082a
विचिनोति च मां तातः सहैवाश्रमवासिभिः 082c
मात्रा पित्रा च सुभृशं दुःखिताभ्यामहं पुरा 083a
उपालब्धः सुबहुशश्चिरेणागच्छसीति ह 083c
का त्ववस्था तयोरद्य मदर्थमिति चिन्तये 084a
तयोरदृश्ये मयि च महद्दुःखं भविष्यति 084c
पुरा मामूचतुश्चैव रात्रावस्रायमाणकौ 085a
भृशं सुदुःखितौ वृद्धौ बहुशः प्रीतिसंयुतौ 085c
त्वया हीनौ न जीवाव मुहूर्तमपि पुत्रक 086a
यावद्धरिष्यसे पुत्र तावन्नौ जीवितं ध्रुवम् 086c
वृद्धयोरन्धयोर्यष्टिस्त्वयि वंशः प्रतिष्ठितः 087a
त्वयि पिण्डश्च कीर्तिश्च सन्तानं चावयोरिति 087c
माता वृद्धा पिता वृद्धस्तयोर्यष्टिरहं किल 088a
तौ रात्रौ मामपश्यन्तौ कामवस्थां गमिष्यतः 088c
निद्रायाश्चाभ्यसूयामि यस्या हेतोः पिता मम 089a
माता च संशयं प्राप्ता मत्कृतेऽनपकारिणी 089c
अहं च संशयं प्राप्तः कृच्छ्रामापदमास्थितः 090a
मातापितृभ्यां हि विना नाहं जीवितुमुत्सहे 090c
व्यक्तमाकुलया बुद्ध्या प्रज्ञाचक्षुः पिता मम 091a
एकैकमस्यां वेलायां पृच्छत्याश्रमवासिनम् 091c
नात्मानमनुशोचामि यथाहं पितरं शुभे 092a
भर्तारं चाप्यनुगतां मातरं परिदुर्बलाम् 092c
मत्कृतेन हि तावद्य सन्तापं परमेष्यतः 093a
जीवन्तावनुजीवामि भर्तव्यौ तौ मयेति ह 093c
तयोः प्रियं मे कर्तव्यमिति जीवामि चाप्यहम् 093e
मार्कण्डेय उवाच 094
एवमुक्त्वा स धर्मात्मा गुरुवर्ती गुरुप्रियः 094a
उच्छ्रित्य बाहू दुःखार्तः सस्वरं प्ररुरोद ह 094c
ततोऽब्रवीत्तथा दृष्ट्वा भर्तारं शोककर्शितम् 095a
प्रमृज्याश्रूणि नेत्राभ्यां सावित्री धर्मचारिणी 095c
यदि मेऽस्ति तपस्तप्तं यदि दत्तं हुतं यदि 096a
श्वश्रूश्वशुरभर्तॄणां मम पुण्यास्तु शर्वरी 096c
न स्मराम्युक्तपूर्वां वै स्वैरेष्वप्यनृतां गिरम् 097a
तेन सत्येन तावद्य ध्रियेतां श्वशुरौ मम 097c
सत्यवानुवाच 098
कामये दर्शनं पित्रोर्याहि सावित्रि माचिरम् 098a
पुरा मातुः पितुर्वापि यदि पश्यामि विप्रियम् 098c
न जीविष्ये वरारोहे सत्येनात्मानमालभे 098e
यदि धर्मे च ते बुद्धिर्मां चेज्जीवन्तमिच्छसि 099a
मम प्रियं वा कर्तव्यं गच्छस्वाश्रममन्तिकात् 099c
मार्कण्डेय उवाच 100
सावित्री तत उत्थाय केशान्संयम्य भामिनी 100a
पतिमुत्थापयामास बाहुभ्यां परिगृह्य वै 100c
उत्थाय सत्यवांश्चापि प्रमृज्याङ्गानि पाणिना 101a
दिशः सर्वाः समालोक्य कठिने दृष्टिमादधे 101c
तमुवाचाथ सावित्री श्वः फलानीह नेष्यसि 102a
योगक्षेमार्थमेतत्ते नेष्यामि परशुं त्वहम् 102c
कृत्वा कठिनभारं सा वृक्षशाखावलम्बिनम् 103a
गृहीत्वा परशुं भर्तुः सकाशं पुनरागमत् 103c
वामे स्कन्धे तु वामोरूर्भर्तुर्बाहुं निवेश्य सा 104a
दक्षिणेन परिष्वज्य जगाम मृदुगामिनी 104c
सत्यवानुवाच 105
अभ्यासगमनाद्भीरु पन्थानो विदिता मम 105a
वृक्षान्तरालोकितया ज्योत्स्नया चापि लक्षये 105c
आगतौ स्वः पथा येन फलान्यवचितानि च 106a
यथागतं शुभे गच्छ पन्थानं मा विचारय 106c
पलाशषण्डे चैतस्मिन्पन्था व्यावर्तते द्विधा 107a
तस्योत्तरेण यः पन्थास्तेन गच्छ त्वरस्व च 107c
स्वस्थोऽस्मि बलवानस्मि दिदृक्षुः पितरावुभौ 107e
मार्कण्डेय उवाच 108
ब्रुवन्नेवं त्वरायुक्तः स प्रायादाश्रमं प्रति 108a