मार्कण्डेय उवाच 001
ततः काले बहुतिथे व्यतिक्रान्ते कदाचन 001a
प्राप्तः स कालो मर्तव्यं यत्र सत्यवता नृप 001c
गणयन्त्याश्च सावित्र्या दिवसे दिवसे गते 002a
तद्वाक्यं नारदेनोक्तं वर्तते हृदि नित्यशः 002c
चतुर्थेऽहनि मर्तव्यमिति सञ्चिन्त्य भामिनी 003a
व्रतं त्रिरात्रमुद्दिश्य दिवारात्रं स्थिताभवत् 003c
तं श्रुत्वा नियमं दुःखं वध्वा दुःखान्वितो नृपः 004a
उत्थाय वाक्यं सावित्रीमब्रवीत्परिसान्त्वयन् 004c
अतितीव्रोऽयमारम्भस्त्वयारब्धो नृपात्मजे 005a
तिसृणां वसतीनां हि स्थानं परमदुष्करम् 005c
सावित्र्युवाच 006
न कार्यस्तात सन्तापः पारयिष्याम्यहं व्रतम् 006a
व्यवसायकृतं हीदं व्यवसायश्च कारणम् 006c
द्युमत्सेन उवाच 007
व्रतं भिन्धीति वक्तुं त्वां नास्मि शक्तः कथञ्चन 007a
पारयस्वेति वचनं युक्तमस्मद्विधो वदेत् 007c
मार्कण्डेय उवाच 008
एवमुक्त्वा द्युमत्सेनो विरराम महामनाः 008a
तिष्ठन्ती चापि सावित्री काष्ठभूतेव लक्ष्यते 008c
श्वोभूते भर्तृमरणे सावित्र्या भरतर्षभ 009a
दुःखान्वितायास्तिष्ठन्त्याः सा रात्रिर्व्यत्यवर्तत 009c
अद्य तद्दिवसं चेति हुत्वा दीप्तं हुताशनम् 010a
युगमात्रोदिते सूर्ये कृत्वा पौर्वाह्णिकीः क्रियाः 010c
ततः सर्वान्द्विजान्वृद्धाञ्श्वश्रूं श्वशुरमेव च 011a
अभिवाद्यानुपूर्व्येण प्राञ्जलिर्नियता स्थिता 011c
अवैधव्याशिषस्ते तु सावित्र्यर्थं हिताः शुभाः 012a
ऊचुस्तपस्विनः सर्वे तपोवननिवासिनः 012c
एवमस्त्विति सावित्री ध्यानयोगपरायणा 013a
मनसा ता गिरः सर्वाः प्रत्यगृह्णात्तपस्विनाम् 013c
तं कालं च मुहूर्तं च प्रतीक्षन्ती नृपात्मजा 014a
यथोक्तं नारदवचश्चिन्तयन्ती सुदुःखिता 014c
ततस्तु श्वश्रूश्वशुरावूचतुस्तां नृपात्मजाम् 015a
एकान्तस्थामिदं वाक्यं प्रीत्या भरतसत्तम 015c
श्वशुरावूचतुः 016
व्रतो यथोपदिष्टोऽयं यथावत्पारितस्त्वया 016a
आहारकालः सम्प्राप्तः क्रियतां यदनन्तरम् 016c
सावित्र्युवाच 017
अस्तं गते मयादित्ये भोक्तव्यं कृतकामया 017a
एष मे हृदि सङ्कल्पः समयश्च कृतो मया 017c
मार्कण्डेय उवाच 018
एवं सम्भाषमाणायाः सावित्र्या भोजनं प्रति 018a
स्कन्धे परशुमादाय सत्यवान्प्रस्थितो वनम् 018c
सावित्री त्वाह भर्तारं नैकस्त्वं गन्तुमर्हसि 019a
सह त्वयागमिष्यामि न हि त्वां हातुमुत्सहे 019c
सत्यवानुवाच 020
वनं न गतपूर्वं ते दुःखः पन्थाश्च भामिनि 020a
व्रतोपवासक्षामा च कथं पद्भ्यां गमिष्यसि 020c
सावित्र्युवाच 021
उपवासान्न मे ग्लानिर्नास्ति चापि परिश्रमः 021a
गमने च कृतोत्साहां प्रतिषेद्धुं न मार्हसि 021c
सत्यवानुवाच 022
यदि ते गमनोत्साहः करिष्यामि तव प्रियम् 022a
मम त्वामन्त्रय गुरून्न मां दोषः स्पृशेदयम् 022c
मार्कण्डेय उवाच 023
साभिगम्याब्रवीच्छ्वश्रूं श्वशुरं च महाव्रता 023a
अयं गच्छति मे भर्ता फलाहारो महावनम् 023c
इच्छेयमभ्यनुज्ञातुमार्यया श्वशुरेण च 024a
अनेन सह निर्गन्तुं न हि मे विरहः क्षमः 024c
गुर्वग्निहोत्रार्थकृते प्रस्थितश्च सुतस्तव 025a
न निवार्यो निवार्यः स्यादन्यथा प्रस्थितो वनम् 025c
संवत्सरः किञ्चिदूनो न निष्क्रान्ताहमाश्रमात् 026a
वनं कुसुमितं द्रष्टुं परं कौतूहलं हि मे 026c
द्युमत्सेन उवाच 027
यतः प्रभृति सावित्री पित्रा दत्ता स्नुषा मम 027a
नानयाभ्यर्थनायुक्तमुक्तपूर्वं स्मराम्यहम् 027c
तदेषा लभतां कामं यथाभिलषितं वधूः 028a
अप्रमादश्च कर्तव्यः पुत्रि सत्यवतः पथि 028c
मार्कण्डेय उवाच 029
उभाभ्यामभ्यनुज्ञाता सा जगाम यशस्विनी 029a
सह भर्त्रा हसन्तीव हृदयेन विदूयता 029c
सा वनानि विचित्राणि रमणीयानि सर्वशः 030a
मयूररवघुष्टानि ददर्श विपुलेक्षणा 030c
नदीः पुण्यवहाश्चैव पुष्पितांश्च नगोत्तमान् 031a
सत्यवानाह पश्येति सावित्रीं मधुराक्षरम् 031c
निरीक्षमाणा भर्तारं सर्वावस्थमनिन्दिता 032a
मृतमेव हि तं मेने काले मुनिवचः स्मरन् 032c
अनुवर्तती तु भर्तारं जगाम मृदुगामिनी 033a
द्विधेव हृदयं कृत्वा तं च कालमवेक्षती 033c