मार्कण्डेय उवाच 001
अथ कन्याप्रदाने स तमेवार्थं विचिन्तयन् 001a
समानिन्ये च तत्सर्वं भाण्डं वैवाहिकं नृपः 001c
ततो वृद्धान्द्विजान्सर्वानृत्विजः सपुरोहितान् 002a
समाहूय तिथौ पुण्ये प्रययौ सह कन्यया 002c
मेध्यारण्यं स गत्वा च द्युमत्सेनाश्रमं नृपः 003a
पद्भ्यामेव द्विजैः सार्धं राजर्षिं तमुपागमत् 003c
तत्रापश्यन्महाभागं शालवृक्षमुपाश्रितम् 004a
कौश्यां बृस्यां समासीनं चक्षुर्हीनं नृपं तदा 004c
स राजा तस्य राजर्षेः कृत्वा पूजां यथार्हतः 005a
वाचा सुनियतो भूत्वा चकारात्मनिवेदनम् 005c
तस्यार्घ्यमासनं चैव गां चावेद्य स धर्मवित् 006a
किमागमनमित्येवं राजा राजानमब्रवीत् 006c
तस्य सर्वमभिप्रायमितिकर्तव्यतां च ताम् 007a
सत्यवन्तं समुद्दिश्य सर्वमेव न्यवेदयत् 007c
अश्वपतिरुवाच 008
सावित्री नाम राजर्षे कन्येयं मम शोभना 008a
तां स्वधर्मेण धर्मज्ञ स्नुषार्थे त्वं गृहाण मे 008c
द्युमत्सेन उवाच 009
च्युताः स्म राज्याद्वनवासमाश्रिताश्चराम धर्मं नियतास्तपस्विनः 009a
कथं त्वनर्हा वनवासमाश्रमे सहिष्यते क्लेशमिमं सुता तव 009c
अश्वपतिरुवाच 010
सुखं च दुःखं च भवाभवात्मकं यदा विजानाति सुताहमेव च 010a
न मद्विधे युज्यति वाक्यमीदृशं विनिश्चयेनाभिगतोऽस्मि ते नृप 010c
आशां नार्हसि मे हन्तुं सौहृदाद्प्रणयेन च 011a
अभितश्चागतं प्रेम्णा प्रत्याख्यातुं न मार्हसि 011c
अनुरूपो हि संयोगे त्वं ममाहं तवापि च 012a
स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतः सुताम् 012c
द्युमत्सेन उवाच 013
पूर्वमेवाभिलषितः सम्बन्धो मे त्वया सह 013a
भ्रष्टराज्यस्त्वहमिति तत एतद्विचारितम् 013c
अभिप्रायस्त्वयं यो मे पूर्वमेवाभिकाङ्क्षितः 014a
स निर्वर्ततु मेऽद्यैव काङ्क्षितो ह्यसि मेऽतिथिः 014c
मार्कण्डेय उवाच 015
ततः सर्वान्समानीय द्विजानाश्रमवासिनः 015a
यथाविधि समुद्वाहं कारयामासतुर्नृपौ 015c
दत्त्वा त्वश्वपतिः कन्यां यथार्हं च परिच्छदम् 016a
ययौ स्वमेव भवनं युक्तः परमया मुदा 016c
सत्यवानपि भार्यां तां लब्ध्वा सर्वगुणान्विताम् 017a
मुमुदे सा च तं लब्ध्वा भर्तारं मनसेप्सितम् 017c
गते पितरि सर्वाणि सन्न्यस्याभरणानि सा 018a
जगृहे वल्कलान्येव वस्त्रं काषायमेव च 018c
परिचारैर्गुणैश्चैव प्रश्रयेण दमेन च 019a
सर्वकामक्रियाभिश्च सर्वेषां तुष्टिमावहत् 019c
श्वश्रूं शरीरसत्कारैः सर्वैराच्छादनादिभिः 020a
श्वशुरं देवकार्यैश्च वाचः संयमनेन च 020c
तथैव प्रियवादेन नैपुणेन शमेन च 021a
रहश्चैवोपचारेण भर्तारं पर्यतोषयत् 021c
एवं तत्राश्रमे तेषां तदा निवसतां सताम् 022a
कालस्तपस्यतां कश्चिदतिचक्राम भारत 022c
सावित्र्यास्तु शयानायास्तिष्ठन्त्याश्च दिवानिशम् 023a
नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते 023c