मार्कण्डेय उवाच 001
अथ मद्राधिपो राजा नारदेन समागतः 001a
उपविष्टः सभामध्ये कथायोगेन भारत 001c
ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमांस्तथा 002a
आजगाम पितुर्वेश्म सावित्री सह मन्त्रिभिः 002c
नारदेन सहासीनं दृष्ट्वा सा पितरं शुभा 003a
उभयोरेव शिरसा चक्रे पादाभिवन्दनम् 003c
नारद उवाच 004
क्व गताभूत्सुतेयं ते कुतश्चैवागता नृप 004a
किमर्थं युवतीं भर्त्रे न चैनां सम्प्रयच्छसि 004c
अश्वपतिरुवाच 005
कार्येण खल्वनेनैव प्रेषिताद्यैव चागता 005a
तदस्याः शृणु देवर्षे भर्तारं योऽनया वृतः 005c
मार्कण्डेय उवाच 006
सा ब्रूहि विस्तरेणेति पित्रा सञ्चोदिता शुभा 006a
दैवतस्येव वचनं प्रतिगृह्येदमब्रवीत् 006c
आसीच्छाल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः 007a
द्युमत्सेन इति ख्यातः पश्चादन्धो बभूव ह 007c
विनष्टचक्षुषस्तस्य बालपुत्रस्य धीमतः 008a
सामीप्येन हृतं राज्यं छिद्रेऽस्मिन्पूर्ववैरिणा 008c
स बालवत्सया सार्धं भार्यया प्रस्थितो वनम् 009a
महारण्यगतश्चापि तपस्तेपे महाव्रतः 009c
तस्य पुत्रः पुरे जातः संवृद्धश्च तपोवने 010a
सत्यवाननुरूपो मे भर्तेति मनसा वृतः 010c
नारद उवाच 011
अहो बत महत्पापं सावित्र्या नृपते कृतम् 011a
अजानन्त्या यदनया गुणवान्सत्यवान्वृतः 011c
सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते 012a
ततोऽस्य ब्राह्मणाश्चक्रुर्नामैतत्सत्यवानिति 012c
बालस्याश्वाः प्रियाश्चास्य करोत्यश्वांश्च मृन्मयान् 013a
चित्रेऽपि च लिखत्यश्वांश्चित्राश्व इति चोच्यते 013c
राजोवाच 014
अपीदानीं स तेजस्वी बुद्धिमान्वा नृपात्मजः 014a
क्षमावानपि वा शूरः सत्यवान्पितृनन्दनः 014c
नारद उवाच 015
विवस्वानिव तेजस्वी बृहस्पतिसमो मतौ 015a
महेन्द्र इव शूरश्च वसुधेव क्षमान्वितः 015c
अश्वपतिरुवाच 016
अपि राजात्मजो दाता ब्रह्मण्यो वापि सत्यवान् 016a
रूपवानप्युदारो वाप्यथ वा प्रियदर्शनः 016c
नारद उवाच 017
साङ्कृते रन्तिदेवस्य स शक्त्या दानतः समः 017a
ब्रह्मण्यः सत्यवादी च शिबिरौशीनरो यथा 017c
ययातिरिव चोदारः सोमवत्प्रियदर्शनः 018a
रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो बली 018c
स दान्तः स मृदुः शूरः स सत्यः स जितेन्द्रियः 019a
स मैत्रः सोऽनसूयश्च स ह्रीमान्धृतिमांश्च सः 019c
नित्यशश्चार्जवं तस्मिन्स्थितिस्तस्यैव च ध्रुवा 020a
सङ्क्षेपतस्तपोवृद्धैः शीलवृद्धैश्च कथ्यते 020c
अश्वपतिरुवाच 021
गुणैरुपेतं सर्वैस्तं भगवन्प्रब्रवीषि मे 021a
दोषानप्यस्य मे ब्रूहि यदि सन्तीह केचन 021c
नारद उवाच 022
एको दोषोऽस्य नान्योऽस्ति सोऽद्य प्रभृति सत्यवान् 022a
संवत्सरेण क्षीणायुर्देहन्यासं करिष्यति 022c
राजोवाच 023
एहि सावित्रि गच्छ त्वमन्यं वरय शोभने 023a
तस्य दोषो महानेको गुणानाक्रम्य तिष्ठति 023c
यथा मे भगवानाह नारदो देवसत्कृतः 024a
संवत्सरेण सोऽल्पायुर्देहन्यासं करिष्यति 024c
सावित्र्युवाच 025
सकृदंशो निपतति सकृत्कन्या प्रदीयते 025a
सकृदाह ददानीति त्रीण्येतानि सकृत्सकृत् 025c
दीर्घायुरथ वाल्पायुः सगुणो निर्गुणोऽपि वा 026a
सकृद्वृतो मया भर्ता न द्वितीयं वृणोम्यहम् 026c
मनसा निश्चयं कृत्वा ततो वाचाभिधीयते 027a
क्रियते कर्मणा पश्चात्प्रमाणं मे मनस्ततः 027c
नारद उवाच 028
स्थिरा बुद्धिर्नरश्रेष्ठ सावित्र्या दुहितुस्तव 028a
नैषा चालयितुं शक्या धर्मादस्मात्कथञ्चन 028c
नान्यस्मिन्पुरुषे सन्ति ये सत्यवति वै गुणाः 029a
प्रदानमेव तस्मान्मे रोचते दुहितुस्तव 029c
राजोवाच 030
अविचार्यमेतदुक्तं हि तथ्यं भगवता वचः 030a
करिष्याम्येतदेवं च गुरुर्हि भगवान्मम 030c
नारद उवाच 031
अविघ्नमस्तु सावित्र्याः प्रदाने दुहितुस्तव 031a
साधयिष्यामहे तावत्सर्वेषां भद्रमस्तु वः 031c
मार्कण्डेय उवाच 032
एवमुक्त्वा खमुत्पत्य नारदस्त्रिदिवं गतः 032a
राजापि दुहितुः सर्वं वैवाहिकमकारयत् 032c