युधिष्ठिर उवाच 001
नात्मानमनुशोचामि नेमान्भ्रातॄन्महामुने 001a
हरणं चापि राज्यस्य यथेमां द्रुपदात्मजाम् 001c
द्यूते दुरात्मभिः क्लिष्टाः कृष्णया तारिता वयम् 002a
जयद्रथेन च पुनर्वनादपहृता बलात् 002c
अस्ति सीमन्तिनी काचिद्दृष्टपूर्वाथ वा श्रुता 003a
पतिव्रता महाभागा यथेयं द्रुपदात्मजा 003c
मार्कण्डेय उवाच 004
शृणु राजन्कुलस्त्रीणां महाभाग्यं युधिष्ठिर 004a
सर्वमेतद्यथा प्राप्तं सावित्र्या राजकन्यया 004c
आसीन्मद्रेषु धर्मात्मा राजा परमधार्मिकः 005a
ब्रह्मण्यश्च शरण्यश्च सत्यसन्धो जितेन्द्रियः 005c
यज्वा दानपतिर्दक्षः पौरजानपदप्रियः 006a
पार्थिवोऽश्वपतिर्नाम सर्वभूतहिते रतः 006c
क्षमावाननपत्यश्च सत्यवाग्विजितेन्द्रियः 007a
अतिक्रान्तेन वयसा सन्तापमुपजग्मिवान् 007c
अपत्योत्पादनार्थं स तीव्रं नियममास्थितः 008a
काले परिमिताहारो ब्रह्मचारी जितेन्द्रियः 008c
हुत्वा शतसहस्रं स सावित्र्या राजसत्तम 009a
षष्ठे षष्ठे तदा काले बभूव मितभोजनः 009c
एतेन नियमेनासीद्वर्षाण्यष्टादशैव तु 010a
पूर्णे त्वष्टादशे वर्षे सावित्री तुष्टिमभ्यगात् 010c
स्वरूपिणी तदा राजन्दर्शयामास तं नृपम् 010e
अग्निहोत्रात्समुत्थाय हर्षेण महतान्विता 011a
उवाच चैनं वरदा वचनं पार्थिवं तदा 011c
ब्रह्मचर्येण शुद्धेन दमेन नियमेन च 012a
सर्वात्मना च मद्भक्त्या तुष्टास्मि तव पार्थिव 012c
वरं वृणीष्वाश्वपते मद्रराज यथेप्सितम् 013a
न प्रमादश्च धर्मेषु कर्तव्यस्ते कथञ्चन 013c
अश्वपतिरुवाच 014
अपत्यार्थः समारम्भः कृतो धर्मेप्सया मया 014a
पुत्रा मे बहवो देवि भवेयुः कुलभावनाः 014c
तुष्टासि यदि मे देवि काममेतं वृणोम्यहम् 015a
सन्तानं हि परो धर्म इत्याहुर्मां द्विजातयः 015c
सावित्र्युवाच 016
पूर्वमेव मया राजन्नभिप्रायमिमं तव 016a
ज्ञात्वा पुत्रार्थमुक्तो वै तव हेतोः पितामहः 016c
प्रसादाच्चैव तस्मात्ते स्वयम्भुविहिताद्भुवि 017a
कन्या तेजस्विनी सौम्य क्षिप्रमेव भविष्यति 017c
उत्तरं च न ते किञ्चिद्व्याहर्तव्यं कथञ्चन 018a
पितामहनिसर्गेण तुष्टा ह्येतद्ब्रवीमि ते 018c
मार्कण्डेय उवाच 019
स तथेति प्रतिज्ञाय सावित्र्या वचनं नृपः 019a
प्रसादयामास पुनः क्षिप्रमेवं भवेदिति 019c
अन्तर्हितायां सावित्र्यां जगाम स्वगृहं नृपः 020a
स्वराज्ये चावसत्प्रीतः प्रजा धर्मेण पालयन् 020c
कस्मिंश्चित्तु गते काले स राजा नियतव्रतः 021a
ज्येष्ठायां धर्मचारिण्यां महिष्यां गर्भमादधे 021c
राजपुत्र्यां तु गर्भः स मालव्यां भरतर्षभ 022a
व्यवर्धत यथा शुक्ले तारापतिरिवाम्बरे 022c
प्राप्ते काले तु सुषुवे कन्यां राजीवलोचनाम् 023a
क्रियाश्च तस्या मुदितश्चक्रे स नृपतिस्तदा 023c
सावित्र्या प्रीतया दत्ता सावित्र्या हुतया ह्यपि 024a
सावित्रीत्येव नामास्याश्चक्रुर्विप्रास्तथा पिता 024c
सा विग्रहवतीव श्रीर्व्यवर्धत नृपात्मजा 025a
कालेन चापि सा कन्या यौवनस्था बभूव ह 025c
तां सुमध्यां पृथुश्रोणीं प्रतिमां काञ्चनीमिव 026a
प्राप्तेयं देवकन्येति दृष्ट्वा सम्मेनिरे जनाः 026c
तां तु पद्मपलाशाक्षीं ज्वलन्तीमिव तेजसा 027a
न कश्चिद्वरयामास तेजसा प्रतिवारितः 027c
अथोपोष्य शिरःस्नाता दैवतान्यभिगम्य सा 028a
हुत्वाग्निं विधिवद्विप्रान्वाचयामास पर्वणि 028c
ततः सुमनसः शेषाः प्रतिगृह्य महात्मनः 029a
पितुः सकाशमगमद्देवी श्रीरिव रूपिणी 029c
साभिवाद्य पितुः पादौ शेषाः पूर्वं निवेद्य च 030a
कृताञ्जलिर्वरारोहा नृपतेः पार्श्वतः स्थिता 030c
यौवनस्थां तु तां दृष्ट्वा स्वां सुतां देवरूपिणीम् 031a
अयाच्यमानां च वरैर्नृपतिर्दुःखितोऽभवत् 031c
राजोवाच 032
पुत्रि प्रदानकालस्ते न च कश्चिद्वृणोति माम् 032a
स्वयमन्विच्छ भर्तारं गुणैः सदृशमात्मनः 032c
प्रार्थितः पुरुषो यश्च स निवेद्यस्त्वया मम 033a
विमृश्याहं प्रदास्यामि वरय त्वं यथेप्सितम् 033c
श्रुतं हि धर्मशास्त्रे मे पठ्यमानं द्विजातिभिः 034a
तथा त्वमपि कल्याणि गदतो मे वचः शृणु 034c
अप्रदाता पिता वाच्यो वाच्यश्चानुपयन्पतिः 035a
मृते भर्तरि पुत्रश्च वाच्यो मातुररक्षिता 035c
इदं मे वचनं श्रुत्वा भर्तुरन्वेषणे त्वर 036a
देवतानां यथा वाच्यो न भवेयं तथा कुरु 036c
मार्कण्डेय उवाच 037
एवमुक्त्वा दुहितरं तथा वृद्धांश्च मन्त्रिणः 037a
व्यादिदेशानुयात्रं च गम्यतामित्यचोदयत् 037c
साभिवाद्य पितुः पादौ व्रीडितेव मनस्विनी 038a
पितुर्वचनमाज्ञाय निर्जगामाविचारितम् 038c
सा हैमं रथमास्थाय स्थविरैः सचिवैर्वृता 039a
तपोवनानि रम्याणि राजर्षीणां जगाम ह 039c
मान्यानां तत्र वृद्धानां कृत्वा पादाभिवन्दनम् 040a
वनानि क्रमशस्तात सर्वाण्येवाभ्यगच्छत 040c
एवं सर्वेषु तीर्थेषु धनोत्सर्गं नृपात्मजा 041a
कुर्वती द्विजमुख्यानां तं तं देशं जगाम ह 041c