मार्कण्डेय उवाच 001
एवमेतन्महाबाहो रामेणामिततेजसा 001a
प्राप्तं व्यसनमत्युग्रं वनवासकृतं पुरा 001c
मा शुचः पुरुषव्याघ्र क्षत्रियोऽसि परन्तप 002a
बाहुवीर्याश्रये मार्गे वर्तसे दीप्तनिर्णये 002c
न हि ते वृजिनं किञ्चिद्दृश्यते परमण्वपि 003a
अस्मिन्मार्गे विषीदेयुः सेन्द्रा अपि सुरासुराः 003c
संहत्य निहतो वृत्रो मरुद्भिर्वज्रपाणिना 004a
नमुचिश्चैव दुर्धर्षो दीर्घजिह्वा च राक्षसी 004c
सहायवति सर्वार्थाः सन्तिष्ठन्तीह सर्वशः 005a
किं नु तस्याजितं सङ्ख्ये भ्राता यस्य धनञ्जयः 005c
अयं च बलिनां श्रेष्ठो भीमो भीमपराक्रमः 006a
युवानौ च महेष्वासौ यमौ माद्रवतीसुतौ 006c
एभिः सहायैः कस्मात्त्वं विषीदसि परन्तप 006e
य इमे वज्रिणः सेनां जयेयुः समरुद्गणाम् 007a
त्वमप्येभिर्महेष्वासैः सहायैर्देवरूपिभिः 007c
विजेष्यसि रणे सर्वानमित्रान्भरतर्षभ 007e
इतश्च त्वमिमां पश्य सैन्धवेन दुरात्मना 008a
बलिना वीर्यमत्तेन हृतामेभिर्महात्मभिः 008c
आनीतां द्रौपदीं कृष्णां कृत्वा कर्म सुदुष्करम् 009a
जयद्रथं च राजानं विजितं वशमागतम् 009c
असहायेन रामेण वैदेही पुनराहृता 010a
हत्वा सङ्ख्ये दशग्रीवं राक्षसं भीमविक्रमम् 010c
यस्य शाखामृगा मित्रा ऋक्षाः कालमुखास्तथा 011a
जात्यन्तरगता राजन्नेतद्बुद्ध्यानुचिन्तय 011c
तस्मात्त्वं कुरुशार्दूल मा शुचो भरतर्षभ 012a
त्वद्विधा हि महात्मानो न शोचन्ति परन्तप 012c
वैशम्पायन उवाच 013
एवमाश्वासितो राजा मार्कण्डेयेन धीमता 013a
त्यक्त्वा दुःखमदीनात्मा पुनरेवेदमब्रवीत् 013c