मार्कण्डेय उवाच 001
स हत्वा रावणं क्षुद्रं राक्षसेन्द्रं सुरद्विषम् 001a
बभूव हृष्टः ससुहृद्रामः सौमित्रिणा सह 001c
ततो हते दशग्रीवे देवाः सर्षिपुरोगमाः 002a
आशीर्भिर्जययुक्ताभिरानर्चुस्तं महाभुजम् 002c
रामं कमलपत्राक्षं तुष्टुवुः सर्वदेवताः 003a
गन्धर्वाः पुष्पवर्षैश्च वाग्भिश्च त्रिदशालयाः 003c
पूजयित्वा यथा रामं प्रतिजग्मुर्यथागतम् 004a
तन्महोत्सवसङ्काशमासीदाकाशमच्युत 004c
ततो हत्वा दशग्रीवं लङ्कां रामो महायशाः 005a
विभीषणाय प्रददौ प्रभुः परपुरञ्जयः 005c
ततः सीतां पुरस्कृत्य विभीषणपुरस्कृताम् 006a
अविन्ध्यो नाम सुप्रज्ञो वृद्धामात्यो विनिर्ययौ 006c
उवाच च महात्मानं काकुत्स्थं दैन्यमास्थितम् 007a
प्रतीच्छ देवीं सद्वृत्तां महात्मञ्जानकीमिति 007c
एतच्छ्रुत्वा वचस्तस्मादवतीर्य रथोत्तमात् 008a
बाष्पेणापिहितां सीतां ददर्शेक्ष्वाकुनन्दनः 008c
तां दृष्ट्वा चारुसर्वाङ्गीं यानस्थां शोककर्शिताम् 009a
मलोपचितसर्वाङ्गीं जटिलां कृष्णवाससम् 009c
उवाच रामो वैदेहीं परामर्शविशङ्कितः 010a
गच्छ वैदेहि मुक्ता त्वं यत्कार्यं तन्मया कृतम् 010c
मामासाद्य पतिं भद्रे न त्वं राक्षसवेश्मनि 011a
जरां व्रजेथा इति मे निहतोऽसौ निशाचरः 011c
कथं ह्यस्मद्विधो जातु जानन्धर्मविनिश्चयम् 012a
परहस्तगतां नारीं मुहूर्तमपि धारयेत् 012c
सुवृत्तामसुवृत्तां वाप्यहं त्वामद्य मैथिलि 013a
नोत्सहे परिभोगाय श्वावलीढं हविर्यथा 013c
ततः सा सहसा बाला तच्छ्रुत्वा दारुणं वचः 014a
पपात देवी व्यथिता निकृत्ता कदली यथा 014c
यो ह्यस्या हर्षसम्भूतो मुखरागस्तदाभवत् 015a
क्षणेन स पुनर्भ्रष्टो निःश्वासादिव दर्पणे 015c
ततस्ते हरयः सर्वे तच्छ्रुत्वा रामभाषितम् 016a
गतासुकल्पा निश्चेष्टा बभूवुः सहलक्ष्मणाः 016c
ततो देवो विशुद्धात्मा विमानेन चतुर्मुखः 017a
पितामहो जगत्स्रष्टा दर्शयामास राघवम् 017c
शक्रश्चाग्निश्च वायुश्च यमो वरुण एव च 018a
यक्षाधिपश्च भगवांस्तथा सप्तर्षयोऽमलाः 018c
राजा दशरथश्चैव दिव्यभास्वरमूर्तिमान् 019a
विमानेन महार्हेण हंसयुक्तेन भास्वता 019c
ततोऽन्तरिक्षं तत्सर्वं देवगन्धर्वसङ्कुलम् 020a
शुशुभे तारकाचित्रं शरदीव नभस्तलम् 020c
तत उत्थाय वैदेहि तेषां मध्ये यशस्विनी 021a
उवाच वाक्यं कल्याणी रामं पृथुलवक्षसम् 021c
राजपुत्र न ते कोपं करोमि विदिता हि मे 022a
गतिः स्त्रीणां नराणां च शृणु चेदं वचो मम 022c
अन्तश्चरति भूतानां मातरिश्वा सदागतिः 023a
स मे विमुञ्चतु प्राणान्यदि पापं चराम्यहम् 023c
अग्निरापस्तथाकाशं पृथिवी वायुरेव च 024a
विमुञ्चन्तु मम प्राणान्यदि पापं चराम्यहम् 024c
ततोऽन्तरिक्षे वागासीत्सर्वा विश्रावयन्दिशः 025a
पुण्या संहर्षणी तेषां वानराणां महात्मनाम् 025c
वायुरुवाच 026
भो भो राघव सत्यं वै वायुरस्मि सदागतिः 026a
अपापा मैथिली राजन्सङ्गच्छ सह भार्यया 026c
अग्निरुवाच 027
अहमन्तःशरीरस्थो भूतानां रघुनन्दन 027a
सुसूक्ष्ममपि काकुत्स्थ मैथिली नापराध्यति 027c
वरुण उवाच 028
रसा वै मत्प्रसूता हि भूतदेहेषु राघव 028a
अहं वै त्वां प्रब्रवीमि मैथिली प्रतिगृह्यताम् 028c
ब्रह्मोवाच 029
पुत्र नैतदिहाश्चर्यं त्वयि राजर्षिधर्मिणि 029a
साधो सद्वृत्तमार्गस्थे शृणु चेदं वचो मम 029c
शत्रुरेष त्वया वीर देवगन्धर्वभोगिनाम् 030a
यक्षाणां दानवानां च महर्षीणां च पातितः 030c
अवध्यः सर्वभूतानां मत्प्रसादात्पुराभवत् 031a
कस्माच्चित्कारणात्पापः कञ्चित्कालमुपेक्षितः 031c
वधार्थमात्मनस्तेन हृता सीता दुरात्मना 032a
नलकूबरशापेन रक्षा चास्याः कृता मया 032c
यदि ह्यकामामासेवेत्स्त्रियमन्यामपि ध्रुवम् 033a
शतधास्य फलेद्देह इत्युक्तः सोऽभवत्पुरा 033c
नात्र शङ्का त्वया कार्या प्रतीच्छेमां महाद्युते 034a
कृतं त्वया महत्कार्यं देवानाममरप्रभ 034c
दशरथ उवाच 035
प्रीतोऽस्मि वत्स भद्रं ते पिता दशरथोऽस्मि ते 035a
अनुजानामि राज्यं च प्रशाधि पुरुषोत्तम 035c
राम उवाच 036
अभिवादये त्वां राजेन्द्र यदि त्वं जनको मम 036a
गमिष्यामि पुरीं रम्यामयोध्यां शासनात्तव 036c
मार्कण्डेय उवाच 037
तमुवाच पिता भूयः प्रहृष्टो मनुजाधिप 037a
गच्छायोध्यां प्रशाधि त्वं राम रक्तान्तलोचन 037c
ततो देवान्नमस्कृत्य सुहृद्भिरभिनन्दितः 038a
महेन्द्र इव पौलोम्या भार्यया स समेयिवान् 038c
ततो वरं ददौ तस्मै अविन्ध्याय परन्तपः 039a
त्रिजटां चार्थमानाभ्यां योजयामास राक्षसीम् 039c
तमुवाच ततो ब्रह्मा देवैः शक्रमुखैर्वृतः 040a
कौसल्यामातरिष्टांस्ते वरानद्य ददानि कान् 040c
वव्रे रामः स्थितिं धर्मे शत्रुभिश्चापराजयम् 041a
राक्षसैर्निहतानां च वानराणां समुद्भवम् 041c
ततस्ते ब्रह्मणा प्रोक्ते तथेति वचने तदा 042a
समुत्तस्थुर्महाराज वानरा लब्धचेतसः 042c
सीता चापि महाभागा वरं हनुमते ददौ 043a
रामकीर्त्या समं पुत्र जीवितं ते भविष्यति 043c
दिव्यास्त्वामुपभोगाश्च मत्प्रसादकृताः सदा 044a
उपस्थास्यन्ति हनुमन्निति स्म हरिलोचन 044c
ततस्ते प्रेक्षमाणानां तेषामक्लिष्टकर्मणाम् 045a
अन्तर्धानं ययुर्देवाः सर्वे शक्रपुरोगमाः 045c
दृष्ट्वा तु रामं जानक्या समेतं शक्रसारथिः 046a
उवाच परमप्रीतः सुहृन्मध्य इदं वचः 046c
देवगन्धर्वयक्षाणां मानुषासुरभोगिनाम् 047a
अपनीतं त्वया दुःखमिदं सत्यपराक्रम 047c
सदेवासुरगन्धर्वा यक्षराक्षसपन्नगाः 048a
कथयिष्यन्ति लोकास्त्वां यावद्भूमिर्धरिष्यति 048c
इत्येवमुक्त्वानुज्ञाप्य रामं शस्त्रभृतां वरम् 049a
सम्पूज्यापाक्रमत्तेन रथेनादित्यवर्चसा 049c
ततः सीतां पुरस्कृत्य रामः सौमित्रिणा सह 050a
सुग्रीवप्रमुखैश्चैव सहितः सर्ववानरैः 050c
विधाय रक्षां लङ्कायां विभीषणपुरस्कृतः 051a
सन्ततार पुनस्तेन सेतुना मकरालयम् 051c
पुष्पकेण विमानेन खेचरेण विराजता 052a
कामगेन यथा मुख्यैरमात्यैः संवृतो वशी 052c
ततस्तीरे समुद्रस्य यत्र शिश्ये स पार्थिवः 053a
तत्रैवोवास धर्मात्मा सहितः सर्ववानरैः 053c
अथैनान्राघवः काले समानीयाभिपूज्य च 054a
विसर्जयामास तदा रत्नैः सन्तोष्य सर्वशः 054c
गतेषु वानरेन्द्रेषु गोपुच्छर्क्षेषु तेषु च 055a
सुग्रीवसहितो रामः किष्किन्धां पुनरागमत् 055c
विभीषणेनानुगतः सुग्रीवसहितस्तदा 056a
पुष्पकेण विमानेन वैदेह्या दर्शयन्वनम् 056c
किष्किन्धां तु समासाद्य रामः प्रहरतां वरः 057a
अङ्गदं कृतकर्माणं यौवराज्येऽभ्यषेचयत् 057c
ततस्तैरेव सहितो रामः सौमित्रिणा सह 058a
यथागतेन मार्गेण प्रययौ स्वपुरं प्रति 058c
अयोध्यां स समासाद्य पुरीं राष्ट्रपतिस्ततः 059a
भरताय हनूमन्तं दूतं प्रस्थापयत्तदा 059c
लक्षयित्वेङ्गितं सर्वं प्रियं तस्मै निवेद्य च 060a
वायुपुत्रे पुनः प्राप्ते नन्दिग्राममुपागमत् 060c
स तत्र मलदिग्धाङ्गं भरतं चीरवाससम् 061a
अग्रतः पादुके कृत्वा ददर्शासीनमासने 061c
समेत्य भरतेनाथ शत्रुघ्नेन च वीर्यवान् 062a
राघवः सहसौमित्रिर्मुमुदे भरतर्षभ 062c
तथा भरतशत्रुघ्नौ समेतौ गुरुणा तदा 063a
वैदेह्या दर्शनेनोभौ प्रहर्षं समवापतुः 063c
तस्मै तद्भरतो राज्यमागतायाभिसत्कृतम् 064a
न्यासं निर्यातयामास युक्तः परमया मुदा 064c
ततस्तं वैष्णवे शूरं नक्षत्रेऽभिमतेऽहनि 065a
वसिष्ठो वामदेवश्च सहितावभ्यषिञ्चताम् 065c
सोऽभिषिक्तः कपिश्रेष्ठं सुग्रीवं ससुहृज्जनम् 066a
विभीषणं च पौलस्त्यमन्वजानाद्गृहान्प्रति 066c
अभ्यर्च्य विविधै रत्नैः प्रीतियुक्तौ मुदा युतौ 067a
समाधायेतिकर्तव्यं दुःखेन विससर्ज ह 067c
पुष्पकं च विमानं तत्पूजयित्वा स राघवः 068a
प्रादाद्वैश्रवणायैव प्रीत्या स रघुनन्दनः 068c
ततो देवर्षिसहितः सरितं गोमतीमनु 069a
दशाश्वमेधानाजह्रे जारूथ्यान्स निरर्गलान् 069c