मार्कण्डेय उवाच 001
ततः क्रुद्धो दशग्रीवः प्रिये पुत्रे निपातिते 001a
निर्ययौ रथमास्थाय हेमरत्नविभूषितम् 001c
संवृतो राक्षसैर्घोरैर्विविधायुधपाणिभिः 002a
अभिदुद्राव रामं स पोथयन्हरियूथपान् 002c
तमाद्रवन्तं सङ्क्रुद्धं मैन्दनीलनलाङ्गदाः 003a
हनूमाञ्जाम्बवांश्चैव ससैन्याः पर्यवारयन् 003c
ते दशग्रीवसैन्यं तदृक्षवानरयूथपाः 004a
द्रुमैर्विध्वंसयां चक्रुर्दशग्रीवस्य पश्यतः 004c
ततः स्वसैन्यमालोक्य वध्यमानमरातिभिः 005a
मायावी व्यदधान्मायां रावणो राक्षसेश्वरः 005c
तस्य देहाद्विनिष्क्रान्ताः शतशोऽथ सहस्रशः 006a
राक्षसाः प्रत्यदृश्यन्त शरशक्त्यृष्टिपाणयः 006c
तान्रामो जघ्निवान्सर्वान्दिव्येनास्त्रेण राक्षसान् 007a
अथ भूयोऽपि मायां स व्यदधाद्राक्षसाधिपः 007c
कृत्वा रामस्य रूपाणि लक्ष्मणस्य च भारत 008a
अभिदुद्राव रामं च लक्ष्मणं च दशाननः 008c
ततस्ते राममर्छन्तो लक्ष्मणं च क्षपाचराः 009a
अभिपेतुस्तदा राजन्प्रगृहीतोच्चकार्मुकाः 009c
तां दृष्ट्वा राक्षसेन्द्रस्य मायामिक्ष्वाकुनन्दनः 010a
उवाच रामं सौमित्रिरसम्भ्रान्तो बृहद्वचः 010c
जहीमान्राक्षसान्पापानात्मनः प्रतिरूपकान् 011a
जघान रामस्तांश्चान्यानात्मनः प्रतिरूपकान् 011c
ततो हर्यश्वयुक्तेन रथेनादित्यवर्चसा 012a
उपतस्थे रणे रामं मातलिः शक्रसारथिः 012c
मातलिरुवाच 013
अयं हर्यश्वयुग्जैत्रो मघोनः स्यन्दनोत्तमः 013a
अनेन शक्रः काकुत्स्थ समरे दैत्यदानवान् 013c
शतशः पुरुषव्याघ्र रथोदारेण जघ्निवान् 013e
तदनेन नरव्याघ्र मया यत्तेन संयुगे 014a
स्यन्दनेन जहि क्षिप्रं रावणं मा चिरं कृथाः 014c
इत्युक्तो राघवस्तथ्यं वचोऽशङ्कत मातलेः 015a
मायेयं राक्षसस्येति तमुवाच विभीषणः 015c
नेयं माया नरव्याघ्र रावणस्य दुरात्मनः 016a
तदातिष्ठ रथं शीघ्रमिममैन्द्रं महाद्युते 016c
ततः प्रहृष्टः काकुत्स्थस्तथेत्युक्त्वा विभीषणम् 017a
रथेनाभिपपाताशु दशग्रीवं रुषान्वितः 017c
हाहाकृतानि भूतानि रावणे समभिद्रुते 018a
सिंहनादाः सपटहा दिवि दिव्याश्च नानदन् 018c
स रामाय महाघोरं विससर्ज निशाचरः 019a
शूलमिन्द्राशनिप्रख्यं ब्रह्मदण्डमिवोद्यतम् 019c
तच्छूलमन्तरा रामश्चिच्छेद निशितैः शरैः 020a
तद्दृष्ट्वा दुष्करं कर्म रावणं भयमाविशत् 020c
ततः क्रुद्धः ससर्जाशु दशग्रीवः शिताञ्शरान् 021a
सहस्रायुतशो रामे शस्त्राणि विविधानि च 021c
ततो भुशुण्डीः शूलांश्च मुसलानि परश्वधान् 022a
शक्तीश्च विविधाकाराः शतघ्नीश्च शितक्षुराः 022c
तां मायां विकृतां दृष्ट्वा दशग्रीवस्य रक्षसः 023a
भयात्प्रदुद्रुवुः सर्वे वानराः सर्वतोदिशम् 023c
ततः सुपत्रं सुमुखं हेमपुङ्खं शरोत्तमम् 024a
तूणादादाय काकुत्स्थो ब्रह्मास्त्रेण युयोज ह 024c
तं बाणवर्यं रामेण ब्रह्मास्त्रेणाभिमन्त्रितम् 025a
जहृषुर्देवगन्धर्वा दृष्ट्वा शक्रपुरोगमाः 025c
अल्पावशेषमायुश्च ततोऽमन्यन्त रक्षसः 026a
ब्रह्मास्त्रोदीरणाच्छत्रोर्देवगन्धर्वकिन्नराः 026c
ततः ससर्ज तं रामः शरमप्रतिमौजसम् 027a
रावणान्तकरं घोरं ब्रह्मदण्डमिवोद्यतम् 027c
स तेन राक्षसश्रेष्ठः सरथः साश्वसारथिः 028a
प्रजज्वाल महाज्वालेनाग्निनाभिपरिष्कृतः 028c
ततः प्रहृष्टास्त्रिदशाः सगन्धर्वाः सचारणाः 029a
निहतं रावणं दृष्ट्वा रामेणाक्लिष्टकर्मणा 029c
तत्यजुस्तं महाभागं पञ्च भूतानि रावणम् 030a
भ्रंशितः सर्वलोकेषु स हि ब्रह्मास्त्रतेजसा 030c
शरीरधातवो ह्यस्य मांसं रुधिरमेव च 031a
नेशुर्ब्रह्मास्त्रनिर्दग्धा न च भस्माप्यदृश्यत 031c