मार्कण्डेय उवाच 001
तावुभौ पतितौ दृष्ट्वा भ्रातरावमितौजसौ 001a
बबन्ध रावणिर्भूयः शरैर्दत्तवरैस्तदा 001c
तौ वीरौ शरजालेन बद्धाविन्द्रजिता रणे 002a
रेजतुः पुरुषव्याघ्रौ शकुन्ताविव पञ्जरे 002c
तौ दृष्ट्वा पतितौ भूमौ शतशः सायकैश्चितौ 003a
सुग्रीवः कपिभिः सार्धं परिवार्य ततः स्थितः 003c
सुषेणमैन्दद्विविदैः कुमुदेनाङ्गदेन च 004a
हनूमन्नीलतारैश्च नलेन च कपीश्वरः 004c
ततस्तं देशमागम्य कृतकर्मा विभीषणः 005a
बोधयामास तौ वीरौ प्रज्ञास्त्रेण प्रबोधितौ 005c
विशल्यौ चापि सुग्रीवः क्षणेनोभौ चकार तौ 006a
विशल्यया महौषध्या दिव्यमन्त्रप्रयुक्तया 006c
तौ लब्धसञ्ज्ञौ नृवरौ विशल्यावुदतिष्ठताम् 007a
गततन्द्रीक्लमौ चास्तां क्षणेनोभौ महारथौ 007c
ततो विभीषणः पार्थ राममिक्ष्वाकुनन्दनम् 008a
उवाच विज्वरं दृष्ट्वा कृताञ्जलिरिदं वचः 008c
अयमम्भो गृहीत्वा तु राजराजस्य शासनात् 009a
गुह्यकोऽभ्यागतः श्वेतात्त्वत्सकाशमरिन्दम 009c
इदमम्भः कुबेरस्ते महाराजः प्रयच्छति 010a
अन्तर्हितानां भूतानां दर्शनार्थं परन्तप 010c
अनेन स्पृष्टनयनो भूतान्यन्तर्हितान्युत 011a
भवान्द्रक्ष्यति यस्मै च भवानेतत्प्रदास्यति 011c
तथेति रामस्तद्वारि प्रतिगृह्याथ सत्कृतम् 012a
चकार नेत्रयोः शौचं लक्ष्मणश्च महामनाः 012c
सुग्रीवजाम्बवन्तौ च हनूमानङ्गदस्तथा 013a
मैन्दद्विविदनीलाश्च प्रायः प्लवगसत्तमाः 013c
तथा समभवच्चापि यदुवाच विभीषणः 014a
क्षणेनातीन्द्रियाण्येषां चक्षूंष्यासन्युधिष्ठिर 014c
इन्द्रजित्कृतकर्मा तु पित्रे कर्म तदात्मनः 015a
निवेद्य पुनरागच्छत्त्वरयाजिशिरः प्रति 015c
तमापतन्तं सङ्क्रुद्धं पुनरेव युयुत्सया 016a
अभिदुद्राव सौमित्रिर्विभीषणमते स्थितः 016c
अकृताह्निकमेवैनं जिघांसुर्जितकाशिनम् 017a
शरैर्जघान सङ्क्रुद्धः कृतसञ्ज्ञोऽथ लक्ष्मणः 017c
तयोः समभवद्युद्धं तदान्योन्यं जिगीषतोः 018a
अतीव चित्रमाश्चर्यं शक्रप्रह्लादयोरिव 018c
अविध्यदिन्द्रजित्तीक्ष्णैः सौमित्रिं मर्मभेदिभिः 019a
सौमित्रिश्चानलस्पर्शैरविध्यद्रावणिं शरैः 019c
सौमित्रिशरसंस्पर्शाद्रावणिः क्रोधमूर्छितः 020a
असृजल्लक्ष्मणायाष्टौ शरानाशीविषोपमान् 020c
तस्यासून्पावकस्पर्शैः सौमित्रिः पत्रिभिस्त्रिभिः 021a
यथा निरहरद्वीरस्तन्मे निगदतः शृणु 021c
एकेनास्य धनुष्मन्तं बाहुं देहादपातयत् 022a
द्वितीयेन सनाराचं भुजं भूमौ न्यपातयत् 022c
तृतीयेन तु बाणेन पृथुधारेण भास्वता 023a
जहार सुनसं चारु शिरो भ्राजिष्णुकुण्डलम् 023c
विनिकृत्तभुजस्कन्धं कबन्धं भीमदर्शनम् 024a
तं हत्वा सूतमप्यस्त्रैर्जघान बलिनां वरः 024c
लङ्कां प्रवेशयामासुर्वाजिनस्तं रथं तदा 025a
ददर्श रावणस्तं च रथं पुत्रविनाकृतम् 025c
स पुत्रं निहतं दृष्ट्वा त्रासात्सम्भ्रान्तलोचनः 026a
रावणः शोकमोहार्तो वैदेहीं हन्तुमुद्यतः 026c
अशोकवनिकास्थां तां रामदर्शनलालसाम् 027a
खड्गमादाय दुष्टात्मा जवेनाभिपपात ह 027c
तं दृष्ट्वा तस्य दुर्बुद्धेरविन्ध्यः पापनिश्चयम् 028a
शमयामास सङ्क्रुद्धं श्रूयतां येन हेतुना 028c
महाराज्ये स्थितो दीप्ते न स्त्रियं हन्तुमर्हसि 029a
हतैवैषा यदा स्त्री च बन्धनस्था च ते गृहे 029c
न चैषा देहभेदेन हता स्यादिति मे मतिः 030a
जहि भर्तारमेवास्या हते तस्मिन्हता भवेत् 030c
न हि ते विक्रमे तुल्यः साक्षादपि शतक्रतुः 031a
असकृद्धि त्वया सेन्द्रास्त्रासितास्त्रिदशा युधि 031c
एवं बहुविधैर्वाक्यैरविन्ध्यो रावणं तदा 032a
क्रुद्धं संशमयामास जगृहे च स तद्वचः 032c
निर्याणे स मतिं कृत्वा निधायासिं क्षपाचरः 033a
आज्ञापयामास तदा रथो मे कल्प्यतामिति 033c