मार्कण्डेय उवाच 001
ततः श्रुत्वा हतं सङ्ख्ये कुम्भकर्णं सहानुगम् 001a
प्रहस्तं च महेष्वासं धूम्राक्षं चातितेजसम् 001c
पुत्रमिन्द्रजितं शूरं रावणः प्रत्यभाषत 002a
जहि रामममित्रघ्न सुग्रीवं च सलक्ष्मणम् 002c
त्वया हि मम सत्पुत्र यशो दीप्तमुपार्जितम् 003a
जित्वा वज्रधरं सङ्ख्ये सहस्राक्षं शचीपतिम् 003c
अन्तर्हितः प्रकाशो वा दिव्यैर्दत्तवरैः शरैः 004a
जहि शत्रूनमित्रघ्न मम शस्त्रभृतां वर 004c
रामलक्ष्मणसुग्रीवाः शरस्पर्शं न तेऽनघ 005a
समर्थाः प्रतिसंसोढुं कुतस्तदनुयायिनः 005c
अकृता या प्रहस्तेन कुम्भकर्णेन चानघ 006a
खरस्यापचितिः सङ्ख्ये तां गच्छस्व महाभुज 006c
त्वमद्य निशितैर्बाणैर्हत्वा शत्रून्ससैनिकान् 007a
प्रतिनन्दय मां पुत्र पुरा बद्ध्वेव वासवम् 007c
इत्युक्तः स तथेत्युक्त्वा रथमास्थाय दंशितः 008a
प्रययाविन्द्रजिद्राजंस्तूर्णमायोधनं प्रति 008c
तत्र विश्राव्य विस्पष्टं नाम राक्षसपुङ्गवः 009a
आह्वयामास समरे लक्ष्मणं शुभलक्षणम् 009c
तं लक्ष्मणोऽप्यभ्यधावत्प्रगृह्य सशरं धनुः 010a
त्रासयंस्तलघोषेण सिंहः क्षुद्रमृगं यथा 010c
तयोः समभवद्युद्धं सुमहज्जयगृद्धिनोः 011a
दिव्यास्त्रविदुषोस्तीव्रमन्योन्यस्पर्धिनोस्तदा 011c
रावणिस्तु यदा नैनं विशेषयति सायकैः 012a
ततो गुरुतरं यत्नमातिष्ठद्बलिनां वरः 012c
तत एनं महावेगैरर्दयामास तोमरैः 013a
तानागतान्स चिच्छेद सौमित्रिर्निशितैः शरैः 013c
ते निकृत्ताः शरैस्तीक्ष्णैर्न्यपतन्वसुधातले 013e
तमङ्गदो वालिसुतः श्रीमानुद्यम्य पादपम् 014a
अभिद्रुत्य महावेगस्ताडयामास मूर्धनि 014c
तस्येन्द्रजिदसम्भ्रान्तः प्रासेनोरसि वीर्यवान् 015a
प्रहर्तुमैच्छत्तं चास्य प्रासं चिच्छेद लक्ष्मणः 015c
तमभ्याशगतं वीरमङ्गदं रावणात्मजः 016a
गदयाताडयत्सव्ये पार्श्वे वानरपुङ्गवम् 016c
तमचिन्त्य प्रहारं स बलवान्वालिनः सुतः 017a
ससर्जेन्द्रजितः क्रोधाच्छालस्कन्धममित्रजित् 017c
सोऽङ्गदेन रुषोत्सृष्टो वधायेन्द्रजितस्तरुः 018a
जघानेन्द्रजितः पार्थ रथं साश्वं ससारथिम् 018c
ततो हताश्वात्प्रस्कन्द्य रथात्स हतसारथिः 019a
तत्रैवान्तर्दधे राजन्मायया रावणात्मजः 019c
अन्तर्हितं विदित्वा तं बहुमायं च राक्षसम् 020a
रामस्तं देशमागम्य तत्सैन्यं पर्यरक्षत 020c
स राममुद्दिश्य शरैस्ततो दत्तवरैस्तदा 021a
विव्याध सर्वगात्रेषु लक्ष्मणं च महारथम् 021c
तमदृश्यं शरैः शूरौ माययान्तर्हितं तदा 022a
योधयामासतुरुभौ रावणिं रामलक्ष्मणौ 022c
स रुषा सर्वगात्रेषु तयोः पुरुषसिंहयोः 023a
व्यसृजत्सायकान्भूयः शतशोऽथ सहस्रशः 023c
तमदृश्यं विचिन्वन्तः सृजन्तमनिशं शरान् 024a
हरयो विविशुर्व्योम प्रगृह्य महतीः शिलाः 024c
तांश्च तौ चाप्यदृश्यः स शरैर्विव्याध राक्षसः 025a
स भृशं ताडयन्वीरो रावणिर्माययावृतः 025c
तौ शरैराचितौ वीरौ भ्रातरौ रामलक्ष्मणौ 026a
पेततुर्गगनाद्भूमिं सूर्याचन्द्रमसाविव 026c