मार्कण्डेय उवाच 001
ततो विनिर्याय पुरात्कुम्भकर्णः सहानुगः 001a
अपश्यत्कपिसैन्यं तज्जितकाश्यग्रतः स्थितम् 001c
तमभ्येत्याशु हरयः परिवार्य समन्ततः 002a
अभ्यघ्नंश्च महाकायैर्बहुभिर्जगतीरुहैः 002c
करजैरतुदंश्चान्ये विहाय भयमुत्तमम् 002e
बहुधा युध्यमानास्ते युद्धमार्गैः प्लवङ्गमाः 003a
नानाप्रहरणैर्भीमं राक्षसेन्द्रमताडयन् 003c
स ताड्यमानः प्रहसन्भक्षयामास वानरान् 004a
पनसं च गवाक्षं च वज्रबाहुं च वानरम् 004c
तद्दृष्ट्वा व्यथनं कर्म कुम्भकर्णस्य रक्षसः 005a
उदक्रोशन्परित्रस्तास्तारप्रभृतयस्तदा 005c
तं तारमुच्चैः क्रोशन्तमन्यांश्च हरियूथपान् 006a
अभिदुद्राव सुग्रीवः कुम्भकर्णमपेतभीः 006c
ततोऽभिपत्य वेगेन कुम्भकर्णं महामनाः 007a
शालेन जघ्निवान्मूर्ध्नि बलेन कपिकुञ्जरः 007c
स महात्मा महावेगः कुम्भकर्णस्य मूर्धनि 008a
बिभेद शालं सुग्रीवो न चैवाव्यथयत्कपिः 008c
ततो विनद्य प्रहसञ्शालस्पर्शविबोधितः 009a
दोर्भ्यामादाय सुग्रीवं कुम्भकर्णोऽहरद्बलात् 009c
ह्रियमाणं तु सुग्रीवं कुम्भकर्णेन रक्षसा 010a
अवेक्ष्याभ्यद्रवद्वीरः सौमित्रिर्मित्रनन्दनः 010c
सोऽभिपत्य महावेगं रुक्मपुङ्खं महाशरम् 011a
प्राहिणोत्कुम्भकर्णाय लक्ष्मणः परवीरहा 011c
स तस्य देहावरणं भित्त्वा देहं च सायकः 012a
जगाम दारयन्भूमिं रुधिरेण समुक्षितः 012c
तथा स भिन्नहृदयः समुत्सृज्य कपीश्वरम् 013a
कुम्भकर्णो महेष्वासः प्रगृहीतशिलायुधः 013c
अभिदुद्राव सौमित्रिमुद्यम्य महतीं शिलाम् 013e
तस्याभिद्रवतस्तूर्णं क्षुराभ्यामुच्छ्रितौ करौ 014a
चिच्छेद निशिताग्राभ्यां स बभूव चतुर्भुजः 014c
तानप्यस्य भुजान्सर्वान्प्रगृहीतशिलायुधान् 015a
क्षुरैश्चिच्छेद लघ्वस्त्रं सौमित्रिः प्रतिदर्शयन् 015c
स बभूवातिकायश्च बहुपादशिरोभुजः 016a
तं ब्रह्मास्त्रेण सौमित्रिर्ददाहाद्रिचयोपमम् 016c
स पपात महावीर्यो दिव्यास्त्राभिहतो रणे 017a
महाशनिविनिर्दग्धः पादपोऽङ्कुरवानिव 017c
तं दृष्ट्वा वृत्रसङ्काशं कुम्भकर्णं तरस्विनम् 018a
गतासुं पतितं भूमौ राक्षसाः प्राद्रवन्भयात् 018c
तथा तान्द्रवतो योधान्दृष्ट्वा तौ दूषणानुजौ 019a
अवस्थाप्याथ सौमित्रिं सङ्क्रुद्धावभ्यधावताम् 019c
तावाद्रवन्तौ सङ्क्रुद्धौ वज्रवेगप्रमाथिनौ 020a
प्रतिजग्राह सौमित्रिर्विनद्योभौ पतत्रिभिः 020c
ततः सुतुमुलं युद्धमभवल्लोमहर्षणम् 021a
दूषणानुजयोः पार्थ लक्ष्मणस्य च धीमतः 021c
महता शरवर्षेण राक्षसौ सोऽभ्यवर्षत 022a
तौ चापि वीरौ सङ्क्रुद्धावुभौ तौ समवर्षताम् 022c
मुहूर्तमेवमभवद्वज्रवेगप्रमाथिनोः 023a
सौमित्रेश्च महाबाहोः सम्प्रहारः सुदारुणः 023c
अथाद्रिशृङ्गमादाय हनूमान्मारुतात्मजः 024a
अभिद्रुत्याददे प्राणान्वज्रवेगस्य रक्षसः 024c
नीलश्च महता ग्राव्णा दूषणावरजं हरिः 025a
प्रमाथिनमभिद्रुत्य प्रममाथ महाबलः 025c
ततः प्रावर्तत पुनः सङ्ग्रामः कटुकोदयः 026a
रामरावणसैन्यानामन्योन्यमभिधावताम् 026c
शतशो नैरृतान्वन्या जघ्नुर्वन्यांश्च नैरृताः 027a
नैरृतास्तत्र वध्यन्ते प्रायशो न तु वानराः 027c