मार्कण्डेय उवाच 001
ततः प्रहस्तः सहसा समभ्येत्य विभीषणम् 001a
गदया ताडयामास विनद्य रणकर्कशः 001c
स तयाभिहतो धीमान्गदया भीमवेगया 002a
नाकम्पत महाबाहुर्हिमवानिव सुस्थिरः 002c
ततः प्रगृह्य विपुलां शतघण्टां विभीषणः 003a
अभिमन्त्र्य महाशक्तिं चिक्षेपास्य शिरः प्रति 003c
पतन्त्या स तया वेगाद्राक्षसोऽशनिनादया 004a
हृतोत्तमाङ्गो ददृशे वातरुग्ण इव द्रुमः 004c
तं दृष्ट्वा निहतं सङ्ख्ये प्रहस्तं क्षणदाचरम् 005a
अभिदुद्राव धूम्राक्षो वेगेन महता कपीन् 005c
तस्य मेघोपमं सैन्यमापतद्भीमदर्शनम् 006a
दृष्ट्वैव सहसा दीर्णा रणे वानरपुङ्गवाः 006c
ततस्तान्सहसा दीर्णान्दृष्ट्वा वानरपुङ्गवान् 007a
निर्याय कपिशार्दूलो हनूमान्पर्यवस्थितः 007c
तं दृष्ट्वावस्थितं सङ्ख्ये हरयः पवनात्मजम् 008a
वेगेन महता राजन्सन्न्यवर्तन्त सर्वशः 008c
ततः शब्दो महानासीत्तुमुलो लोमहर्षणः 009a
रामरावणसैन्यानामन्योन्यमभिधावताम् 009c
तस्मिन्प्रवृत्ते सङ्ग्रामे घोरे रुधिरकर्दमे 010a
धूम्राक्षः कपिसैन्यं तद्द्रावयामास पत्रिभिः 010c
तं राक्षसमहामात्रमापतन्तं सपत्नजित् 011a
तरसा प्रतिजग्राह हनूमान्पवनात्मजः 011c
तयोर्युद्धमभूद्घोरं हरिराक्षसवीरयोः 012a
जिगीषतोर्युधान्योन्यमिन्द्रप्रह्लादयोरिव 012c
गदाभिः परिघैश्चैव राक्षसो जघ्निवान्कपिम् 013a
कपिश्च जघ्निवान्रक्षः सस्कन्धविटपैर्द्रुमैः 013c
ततस्तमतिकायेन साश्वं सरथसारथिम् 014a
धूम्राक्षमवधीद्धीमान्हनूमान्मारुतात्मजः 014c
ततस्तं निहतं दृष्ट्वा धूम्राक्षं राक्षसोत्तमम् 015a
हरयो जातविस्रम्भा जघ्नुरभ्येत्य सैनिकान् 015c
ते वध्यमाना बलिभिर्हरिभिर्जितकाशिभिः 016a
राक्षसा भग्नसङ्कल्पा लङ्कामभ्यपतन्भयात् 016c
तेऽभिपत्य पुरं भग्ना हतशेषा निशाचराः 017a
सर्वं राज्ञे यथावृत्तं रावणाय न्यवेदयन् 017c
श्रुत्वा तु रावणस्तेभ्यः प्रहस्तं निहतं युधि 018a
धूम्राक्षं च महेष्वासं ससैन्यं वानरर्षभैः 018c
सुदीर्घमिव निःश्वस्य समुत्पत्य वरासनात् 019a
उवाच कुम्भकर्णस्य कर्मकालोऽयमागतः 019c
इत्येवमुक्त्वा विविधैर्वादित्रैः सुमहास्वनैः 020a
शयानमतिनिद्रालुं कुम्भकर्णमबोधयत् 020c
प्रबोध्य महता चैनं यत्नेनागतसाध्वसः 021a
स्वस्थमासीनमव्यग्रं विनिद्रं राक्षसाधिपः 021c
ततोऽब्रवीद्दशग्रीवः कुम्भकर्णं महाबलम् 021e
धन्योऽसि यस्य ते निद्रा कुम्भकर्णेयमीदृशी 022a
य इमं दारुणं कालं न जानीषे महाभयम् 022c
एष तीर्त्वार्णवं रामः सेतुना हरिभिः सह 023a
अवमन्येह नः सर्वान्करोति कदनं महत् 023c
मया ह्यपहृता भार्या सीता नामास्य जानकी 024a
तां मोक्षयिषुरायातो बद्ध्वा सेतुं महार्णवे 024c
तेन चैव प्रहस्तादिर्महान्नः स्वजनो हतः 025a
तस्य नान्यो निहन्तास्ति त्वदृते शत्रुकर्शन 025c
स दंशितोऽभिनिर्याय त्वमद्य बलिनां वर 026a
रामादीन्समरे सर्वाञ्जहि शत्रूनरिन्दम 026c
दूषणावरजौ चैव वज्रवेगप्रमाथिनौ 027a
तौ त्वां बलेन महता सहितावनुयास्यतः 027c
इत्युक्त्वा राक्षसपतिः कुम्भकर्णं तरस्विनम् 028a
सन्दिदेशेतिकर्तव्ये वज्रवेगप्रमाथिनौ 028c
तथेत्युक्त्वा तु तौ वीरौ रावणं दूषणानुजौ 029a
कुम्भकर्णं पुरस्कृत्य तूर्णं निर्ययतुः पुरात् 029c