मार्कण्डेय उवाच 001
ततो निविशमानांस्तान्सैनिकान्रावणानुगाः 001a
अभिजग्मुर्गणानेके पिशाचक्षुद्ररक्षसाम् 001c
पर्वणः पूतनो जम्भः खरः क्रोधवशो हरिः 002a
प्ररुजश्चारुजश्चैव प्रघसश्चैवमादयः 002c
ततोऽभिपततां तेषामदृश्यानां दुरात्मनाम् 003a
अन्तर्धानवधं तज्ज्ञश्चकार स विभीषणः 003c
ते दृश्यमाना हरिभिर्बलिभिर्दूरपातिभिः 004a
निहताः सर्वशो राजन्महीं जग्मुर्गतासवः 004c
अमृष्यमाणः सबलो रावणो निर्ययावथ 005a
व्यूह्य चौशनसं व्यूहं हरीन्सर्वानहारयत् 005c
राघवस्त्वभिनिर्याय व्यूढानीकं दशाननम् 006a
बार्हस्पत्यं विधिं कृत्वा प्रत्यव्यूहन्निशाचरम् 006c
समेत्य युयुधे तत्र ततो रामेण रावणः 007a
युयुधे लक्ष्मणश्चैव तथैवेन्द्रजिता सह 007c
विरूपाक्षेण सुग्रीवस्तारेण च निखर्वटः 008a
तुण्डेन च नलस्तत्र पटुशः पनसेन च 008c
विषह्यं यं हि यो मेने स स तेन समेयिवान् 009a
युयुधे युद्धवेलायां स्वबाहुबलमाश्रितः 009c
स सम्प्रहारो ववृधे भीरूणां भयवर्धनः 010a
लोमसंहर्षणो घोरः पुरा देवासुरे यथा 010c
रावणो राममानर्छच्छक्तिशूलासिवृष्टिभिः 011a
निशितैरायसैस्तीक्ष्णै रावणं चापि राघवः 011c
तथैवेन्द्रजितं यत्तं लक्ष्मणो मर्मभेदिभिः 012a
इन्द्रजिच्चापि सौमित्रिं बिभेद बहुभिः शरैः 012c
विभीषणः प्रहस्तं च प्रहस्तश्च विभीषणम् 013a
खगपत्रैः शरैस्तीक्ष्णैरभ्यवर्षद्गतव्यथः 013c
तेषां बलवतामासीन्महास्त्राणां समागमः 014a
विव्यथुः सकला येन त्रयो लोकाश्चराचराः 014c