मार्कण्डेय उवाच 001
प्रभूतान्नोदके तस्मिन्बहुमूलफले वने 001a
सेनां निवेश्य काकुत्स्थो विधिवत्पर्यरक्षत 001c
रावणश्च विधिं चक्रे लङ्कायां शास्त्रनिर्मितम् 002a
प्रकृत्यैव दुराधर्षा दृढप्राकारतोरणा 002c
अगाधतोयाः परिखा मीननक्रसमाकुलाः 003a
बभूवुः सप्त दुर्धर्षाः खादिरैः शङ्कुभिश्चिताः 003c
कर्णाट्टयन्त्रदुर्धर्षा बभूवुः सहुडोपलाः 004a
साशीविषघटायोधाः ससर्जरसपांसवः 004c
मुसलालातनाराचतोमरासिपरश्वधैः 005a
अन्विताश्च शतघ्नीभिः समधूच्छिष्टमुद्गराः 005c
पुरद्वारेषु सर्वेषु गुल्माः स्थावरजङ्गमाः 006a
बभूवुः पत्तिबहुलाः प्रभूतगजवाजिनः 006c
अङ्गदस्त्वथ लङ्काया द्वारदेशमुपागतः 007a
विदितो राक्षसेन्द्रस्य प्रविवेश गतव्यथः 007c
मध्ये राक्षसकोटीनां बह्वीनां सुमहाबलः 008a
शुशुभे मेघमालाभिरादित्य इव संवृतः 008c
स समासाद्य पौलस्त्यममात्यैरभिसंवृतम् 009a
रामसन्देशमामन्त्र्य वाग्मी वक्तुं प्रचक्रमे 009c
आह त्वां राघवो राजन्कोसलेन्द्रो महायशाः 010a
प्राप्तकालमिदं वाक्यं तदादत्स्व कुरुष्व च 010c
अकृतात्मानमासाद्य राजानमनये रतम् 011a
विनश्यन्त्यनयाविष्टा देशाश्च नगराणि च 011c
त्वयैकेनापराद्धं मे सीतामाहरता बलात् 012a
वधायानपराद्धानामन्येषां तद्भविष्यति 012c
ये त्वया बलदर्पाभ्यामाविष्टेन वनेचराः 013a
ऋषयो हिंसिताः पूर्वं देवाश्चाप्यवमानिताः 013c
राजर्षयश्च निहता रुदन्त्यश्चाहृताः स्त्रियः 014a
तदिदं समनुप्राप्तं फलं तस्यानयस्य ते 014c
हन्तास्मि त्वां सहामात्यं युध्यस्व पुरुषो भव 015a
पश्य मे धनुषो वीर्यं मानुषस्य निशाचर 015c
मुच्यतां जानकी सीता न मे मोक्ष्यसि कर्हिचित् 016a
अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः 016c
इति तस्य ब्रुवाणस्य दूतस्य परुषं वचः 017a
श्रुत्वा न ममृषे राजा रावणः क्रोधमूर्छितः 017c
इङ्गितज्ञास्ततो भर्तुश्चत्वारो रजनीचराः 018a
चतुर्ष्वङ्गेषु जगृहुः शार्दूलमिव पक्षिणः 018c
तांस्तथाङ्गेषु संसक्तानङ्गदो रजनीचरान् 019a
आदायैव खमुत्पत्य प्रासादतलमाविशत् 019c
वेगेनोत्पततस्तस्य पेतुस्ते रजनीचराः 020a
भुवि सम्भिन्नहृदयाः प्रहारपरिपीडिताः 020c
स मुक्तो हर्म्यशिखरात्तस्मात्पुनरवापतत् 021a
लङ्घयित्वा पुरीं लङ्कां स्वबलस्य समीपतः 021c
कोसलेन्द्रमथाभ्येत्य सर्वमावेद्य चाङ्गदः 022a
विशश्राम स तेजस्वी राघवेणाभिनन्दितः 022c
ततः सर्वाभिसारेण हरीणां वातरंहसाम् 023a
भेदयामास लङ्कायाः प्राकारं रघुनन्दनः 023c
विभीषणर्क्षाधिपती पुरस्कृत्याथ लक्ष्मणः 024a
दक्षिणं नगरद्वारमवामृद्नाद्दुरासदम् 024c
करभारुणगात्राणां हरीणां युद्धशालिनाम् 025a
कोटीशतसहस्रेण लङ्कामभ्यपतत्तदा 025c
उत्पतद्भिः पतद्भिश्च निपतद्भिश्च वानरैः 026a
नादृश्यत तदा सूर्यो रजसा नाशितप्रभः 026c
शालिप्रसूनसदृशैः शिरीषकुसुमप्रभैः 027a
तरुणादित्यसदृशैः शरगौरैश्च वानरैः 027c
प्राकारं ददृशुस्ते तु समन्तात्कपिलीकृतम् 028a
राक्षसा विस्मिता राजन्सस्त्रीवृद्धाः समन्ततः 028c
बिभिदुस्ते मणिस्तम्भान्कर्णाट्टशिखराणि च 029a
भग्नोन्मथितवेगानि यन्त्राणि च विचिक्षिपुः 029c
परिगृह्य शतघ्नीश्च सचक्राः सहुडोपलाः 030a
चिक्षिपुर्भुजवेगेन लङ्कामध्ये महाबलाः 030c
प्राकारस्थाश्च ये केचिन्निशाचरगणास्तदा 031a
प्रदुद्रुवुस्ते शतशः कपिभिः समभिद्रुताः 031c
ततस्तु राजवचनाद्राक्षसाः कामरूपिणः 032a
निर्ययुर्विकृताकाराः सहस्रशतसङ्घशः 032c
शस्त्रवर्षाणि वर्षन्तो द्रावयन्तो वनौकसः 033a
प्राकारं शोधयन्तस्ते परं विक्रममास्थिताः 033c
स माषराशिसदृशैर्बभूव क्षणदाचरैः 034a
कृतो निर्वानरो भूयः प्राकारो भीमदर्शनैः 034c
पेतुः शूलविभिन्नाङ्गा बहवो वानरर्षभाः 035a
स्तम्भतोरणभग्नाश्च पेतुस्तत्र निशाचराः 035c
केशाकेश्यभवद्युद्धं रक्षसां वानरैः सह 036a
नखैर्दन्तैश्च वीराणां खादतां वै परस्परम् 036c
निष्टनन्तो ह्युभयतस्तत्र वानरराक्षसाः 037a
हता निपतिता भूमौ न मुञ्चन्ति परस्परम् 037c
रामस्तु शरजालानि ववर्ष जलदो यथा 038a
तानि लङ्कां समासाद्य जघ्नुस्तान्रजनीचरान् 038c
सौमित्रिरपि नाराचैर्दृढधन्वा जितक्लमः 039a
आदिश्यादिश्य दुर्गस्थान्पातयामास राक्षसान् 039c
ततः प्रत्यवहारोऽभूत्सैन्यानां राघवाज्ञया 040a
कृते विमर्दे लङ्कायां लब्धलक्षो जयोत्तरः 040c