मार्कण्डेय उवाच 001
ततस्तत्रैव रामस्य समासीनस्य तैः सह 001a
समाजग्मुः कपिश्रेष्ठाः सुग्रीववचनात्तदा 001c
वृतः कोटिसहस्रेण वानराणां तरस्विनाम् 002a
श्वशुरो वालिनः श्रीमान्सुषेणो राममभ्ययात् 002c
कोटीशतवृतौ चापि गजो गवय एव च 003a
वानरेन्द्रौ महावीर्यौ पृथक्पृथगदृश्यताम् 003c
षष्टिकोटिसहस्राणि प्रकर्षन्प्रत्यदृश्यत 004a
गोलाङ्गूलो महाराज गवाक्षो भीमदर्शनः 004c
गन्धमादनवासी तु प्रथितो गन्धमादनः 005a
कोटीसहस्रमुग्राणां हरीणां समकर्षत 005c
पनसो नाम मेधावी वानरः सुमहाबलः 006a
कोटीर्दश द्वादश च त्रिंशत्पञ्च प्रकर्षति 006c
श्रीमान्दधिमुखो नाम हरिवृद्धोऽपि वीर्यवान् 007a
प्रचकर्ष महत्सैन्यं हरीणां भीमतेजसाम् 007c
कृष्णानां मुखपुण्ड्राणामृक्षाणां भीमकर्मणाम् 008a
कोटीशतसहस्रेण जाम्बवान्प्रत्यदृश्यत 008c
एते चान्ये च बहवो हरियूथपयूथपाः 009a
असङ्ख्येया महाराज समीयू रामकारणात् 009c
शिरीषकुसुमाभानां सिंहानामिव नर्दताम् 010a
श्रूयते तुमुलः शब्दस्तत्र तत्र प्रधावताम् 010c
गिरिकूटनिभाः केचित्केचिन्महिषसन्निभाः 011a
शरदभ्रप्रतीकाशाः पिष्टहिङ्गुलकाननाः 011c
उत्पतन्तः पतन्तश्च प्लवमानाश्च वानराः 012a
उद्धुन्वन्तोऽपरे रेणून्समाजग्मुः समन्ततः 012c
स वानरमहालोकः पूर्णसागरसन्निभः 013a
निवेशमकरोत्तत्र सुग्रीवानुमते तदा 013c
ततस्तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः 014a
तिथौ प्रशस्ते नक्षत्रे मुहूर्ते चाभिपूजिते 014c
तेन व्यूढेन सैन्येन लोकानुद्वर्तयन्निव 015a
प्रययौ राघवः श्रीमान्सुग्रीवसहितस्तदा 015c
मुखमासीत्तु सैन्यस्य हनूमान्मारुतात्मजः 016a
जघनं पालयामास सौमित्रिरकुतोभयः 016c
बद्धगोधाङ्गुलित्राणौ राघवौ तत्र रेजतुः 017a
वृतौ हरिमहामात्रैश्चन्द्रसूर्यौ ग्रहैरिव 017c
प्रबभौ हरिसैन्यं तच्छालतालशिलायुधम् 018a
सुमहच्छालिभवनं यथा सूर्योदयं प्रति 018c
नलनीलाङ्गदक्राथमैन्दद्विविदपालिता 019a
ययौ सुमहती सेना राघवस्यार्थसिद्धये 019c
विधिवत्सुप्रशस्तेषु बहुमूलफलेषु च 020a
प्रभूतमधुमांसेषु वारिमत्सु शिवेषु च 020c
निवसन्ती निराबाधा तथैव गिरिसानुषु 021a
उपायाद्धरिसेना सा क्षारोदमथ सागरम् 021c
द्वितीयसागरनिभं तद्बलं बहुलध्वजम् 022a
वेलावनं समासाद्य निवासमकरोत्तदा 022c
ततो दाशरथिः श्रीमान्सुग्रीवं प्रत्यभाषत 023a
मध्ये वानरमुख्यानां प्राप्तकालमिदं वचः 023c
उपायः को नु भवतां मतः सागरलङ्घने 024a
इयं च महती सेना सागरश्चापि दुस्तरः 024c
तत्रान्ये व्याहरन्ति स्म वानराः पटुमानिनः 025a
समर्था लङ्घने सिन्धोर्न तु कृत्स्नस्य वानराः 025c
केचिन्नौभिर्व्यवस्यन्ति केचीच्च विविधैः प्लवैः 026a
नेति रामश्च तान्सर्वान्सान्त्वयन्प्रत्यभाषत 026c
शतयोजनविस्तारं न शक्ताः सर्ववानराः 027a
क्रान्तुं तोयनिधिं वीरा नैषा वो नैष्ठिकी मतिः 027c
नावो न सन्ति सेनाया बह्व्यस्तारयितुं तथा 028a
वणिजामुपघातं च कथमस्मद्विधश्चरेत् 028c
विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेषु वै परः 029a
प्लवोडुपप्रतारश्च नैवात्र मम रोचते 029c
अहं त्विमं जलनिधिं समारप्स्याम्युपायतः 030a
प्रतिशेष्याम्युपवसन्दर्शयिष्यति मां ततः 030c
न चेद्दर्शयिता मार्गं धक्ष्याम्येनमहं ततः 031a
महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः 031c
इत्युक्त्वा सहसौमित्रिरुपस्पृश्याथ राघवः 032a
प्रतिशिश्ये जलनिधिं विधिवत्कुशसंस्तरे 032c
सागरस्तु ततः स्वप्ने दर्शयामास राघवम् 033a
देवो नदनदीभर्ता श्रीमान्यादोगणैर्वृतः 033c
कौसल्यामातरित्येवमाभाष्य मधुरं वचः 034a
इदमित्याह रत्नानामाकरैः शतशो वृतः 034c
ब्रूहि किं ते करोम्यत्र साहाय्यं पुरुषर्षभ 035a
इक्ष्वाकुरस्मि ते ज्ञातिरिति रामस्तमब्रवीत् 035c
मार्गमिच्छामि सैन्यस्य दत्तं नदनदीपते 036a
येन गत्वा दशग्रीवं हन्यां पौलस्त्यपांसनम् 036c
यद्येवं याचतो मार्गं न प्रदास्यति मे भवान् 037a
शरैस्त्वां शोषयिष्यामि दिव्यास्त्रप्रतिमन्त्रितैः 037c
इत्येवं ब्रुवतः श्रुत्वा रामस्य वरुणालयः 038a
उवाच व्यथितो वाक्यमिति बद्धाञ्जलिः स्थितः 038c
नेच्छामि प्रतिघातं ते नास्मि विघ्नकरस्तव 039a
शृणु चेदं वचो राम श्रुत्वा कर्तव्यमाचर 039c
यदि दास्यामि ते मार्गं सैन्यस्य व्रजतोऽऽज्ञया 040a
अन्येऽप्याज्ञापयिष्यन्ति मामेवं धनुषो बलात् 040c
अस्ति त्वत्र नलो नाम वानरः शिल्पिसम्मतः 041a
त्वष्टुर्देवस्य तनयो बलवान्विश्वकर्मणः 041c
स यत्काष्ठं तृणं वापि शिलां वा क्षेप्स्यते मयि 042a
सर्वं तद्धारयिष्यामि स ते सेतुर्भविष्यति 042c
इत्युक्त्वान्तर्हिते तस्मिन्रामो नलमुवाच ह 043a
कुरु सेतुं समुद्रे त्वं शक्तो ह्यसि मतो मम 043c
तेनोपायेन काकुत्स्थः सेतुबन्धमकारयत् 044a
दशयोजनविस्तारमायतं शतयोजनम् 044c
नलसेतुरिति ख्यातो योऽद्यापि प्रथितो भुवि 045a
रामस्याज्ञां पुरस्कृत्य धार्यते गिरिसन्निभः 045c
तत्रस्थं स तु धर्मात्मा समागच्छद्विभीषणः 046a
भ्राता वै राक्षसेन्द्रस्य चतुर्भिः सचिवैः सह 046c
प्रतिजग्राह रामस्तं स्वागतेन महामनाः 047a
सुग्रीवस्य तु शङ्काभूत्प्रणिधिः स्यादिति स्म ह 047c
राघवस्तस्य चेष्टाभिः सम्यक्च चरितेङ्गितैः 048a
यदा तत्त्वेन तुष्टोऽभूत्तत एनमपूजयत् 048c
सर्वराक्षसराज्ये चाप्यभ्यषिञ्चद्विभीषणम् 049a
चक्रे च मन्त्रानुचरं सुहृदं लक्ष्मणस्य च 049c
विभीषणमते चैव सोऽत्यक्रामन्महार्णवम् 050a
ससैन्यः सेतुना तेन मासेनैव नराधिप 050c
ततो गत्वा समासाद्य लङ्कोद्यानान्यनेकशः 051a
भेदयामास कपिभिर्महान्ति च बहूनि च 051c
तत्रास्तां रावणामात्यौ राक्षसौ शुकसारणौ 052a
चारौ वानररूपेण तौ जग्राह विभीषणः 052c
प्रतिपन्नौ यदा रूपं राक्षसं तौ निशाचरौ 053a
दर्शयित्वा ततः सैन्यं रामः पश्चादवासृजत् 053c
निवेश्योपवने सैन्यं तच्छूरः प्राज्ञवानरम् 054a
प्रेषयामास दौत्येन रावणस्य ततोऽङ्गदम् 054c