मार्कण्डेय उवाच 001
राघवस्तु ससौमित्रिः सुग्रीवेणाभिपालितः 001a
वसन्माल्यवतः पृष्ठे ददर्श विमलं नभः 001c
स दृष्ट्वा विमले व्योम्नि निर्मलं शशलक्षणम् 002a
ग्रहनक्षत्रताराभिरनुयातममित्रहा 002c
कुमुदोत्पलपद्मानां गन्धमादाय वायुना 003a
महीधरस्थः शीतेन सहसा प्रतिबोधितः 003c
प्रभाते लक्ष्मणं वीरमभ्यभाषत दुर्मनाः 004a
सीतां संस्मृत्य धर्मात्मा रुद्धां राक्षसवेश्मनि 004c
गच्छ लक्ष्मण जानीहि किष्किन्धायां कपीश्वरम् 005a
प्रमत्तं ग्राम्यधर्मेषु कृतघ्नं स्वार्थपण्डितम् 005c
योऽसौ कुलाधमो मूढो मया राज्येऽभिषेचितः 006a
सर्ववानरगोपुच्छा यमृक्षाश्च भजन्ति वै 006c
यदर्थं निहतो वाली मया रघुकुलोद्वह 007a
त्वया सह महाबाहो किष्किन्धोपवने तदा 007c
कृतघ्नं तमहं मन्ये वानरापसदं भुवि 008a
यो मामेवङ्गतो मूढो न जानीतेऽद्य लक्ष्मण 008c
असौ मन्ये न जानीते समयप्रतिपादनम् 009a
कृतोपकारं मां नूनमवमन्याल्पया धिया 009c
यदि तावदनुद्युक्तः शेते कामसुखात्मकः 010a
नेतव्यो वालिमार्गेण सर्वभूतगतिं त्वया 010c
अथापि घटतेऽस्माकमर्थे वानरपुङ्गवः 011a
तमादायैहि काकुत्स्थ त्वरावान्भव मा चिरम् 011c
इत्युक्तो लक्ष्मणो भ्रात्रा गुरुवाक्यहिते रतः 012a
प्रतस्थे रुचिरं गृह्य समार्गणगुणं धनुः 012c
किष्किन्धाद्वारमासाद्य प्रविवेशानिवारितः 012e
सक्रोध इति तं मत्वा राजा प्रत्युद्ययौ हरिः 013a
तं सदारो विनीतात्मा सुग्रीवः प्लवगाधिपः 013c
पूजया प्रतिजग्राह प्रीयमाणस्तदर्हया 013e
तमब्रवीद्रामवचः सौमित्रिरकुतोभयः 014a
स तत्सर्वमशेषेण श्रुत्वा प्रह्वः कृताञ्जलिः 014c
सभृत्यदारो राजेन्द्र सुग्रीवो वानराधिपः 015a
इदमाह वचः प्रीतो लक्ष्मणं नरकुञ्जरम् 015c
नास्मि लक्ष्मण दुर्मेधा न कृतघ्नो न निर्घृणः 016a
श्रूयतां यः प्रयत्नो मे सीतापर्येषणे कृतः 016c
दिशः प्रस्थापिताः सर्वे विनीता हरयो मया 017a
सर्वेषां च कृतः कालो मासेनागमनं पुनः 017c
यैरियं सवना साद्रिः सपुरा सागराम्बरा 018a
विचेतव्या मही वीर सग्रामनगराकरा 018c
स मासः पञ्चरात्रेण पूर्णो भवितुमर्हति 019a
ततः श्रोष्यसि रामेण सहितः सुमहत्प्रियम् 019c
इत्युक्तो लक्ष्मणस्तेन वानरेन्द्रेण धीमता 020a
त्यक्त्वा रोषमदीनात्मा सुग्रीवं प्रत्यपूजयत् 020c
स रामं सहसुग्रीवो माल्यवत्पृष्ठमास्थितम् 021a
अभिगम्योदयं तस्य कार्यस्य प्रत्यवेदयत् 021c
इत्येवं वानरेन्द्रास्ते समाजग्मुः सहस्रशः 022a
दिशस्तिस्रो विचित्याथ न तु ये दक्षिणां गताः 022c
आचख्युस्ते तु रामाय महीं सागरमेखलाम् 023a
विचितां न तु वैदेह्या दर्शनं रावणस्य वा 023c
गतास्तु दक्षिणामाशां ये वै वानरपुङ्गवाः 024a
आशावांस्तेषु काकुत्स्थः प्राणानार्तोऽप्यधारयत् 024c
द्विमासोपरमे काले व्यतीते प्लवगास्ततः 025a
सुग्रीवमभिगम्येदं त्वरिता वाक्यमब्रुवन् 025c
रक्षितं वालिना यत्तत्स्फीतं मधुवनं महत् 026a
त्वया च प्लवगश्रेष्ठ तद्भुङ्क्ते पवनात्मजः 026c
वालिपुत्रोऽङ्गदश्चैव ये चान्ये प्लवगर्षभाः 027a
विचेतुं दक्षिणामाशां राजन्प्रस्थापितास्त्वया 027c
तेषां तं प्रणयं श्रुत्वा मेने स कृतकृत्यताम् 028a
कृतार्थानां हि भृत्यानामेतद्भवति चेष्टितम् 028c
स तद्रामाय मेधावी शशंस प्लवगर्षभः 029a
रामश्चाप्यनुमानेन मेने दृष्टां तु मैथिलीम् 029c
हनूमत्प्रमुखाश्चापि विश्रान्तास्ते प्लवङ्गमाः 030a
अभिजग्मुर्हरीन्द्रं तं रामलक्ष्मणसन्निधौ 030c
गतिं च मुखवर्णं च दृष्ट्वा रामो हनूमतः 031a
अगमत्प्रत्ययं भूयो दृष्टा सीतेति भारत 031c
हनूमत्प्रमुखास्ते तु वानराः पूर्णमानसाः 032a
प्रणेमुर्विधिवद्रामं सुग्रीवं लक्ष्मणं तथा 032c
तानुवाचागतान्रामः प्रगृह्य सशरं धनुः 033a
अपि मां जीवयिष्यध्वमपि वः कृतकृत्यता 033c
अपि राज्यमयोध्यायां कारयिष्याम्यहं पुनः 034a
निहत्य समरे शत्रूनाहृत्य जनकात्मजाम् 034c
अमोक्षयित्वा वैदेहीमहत्वा च रिपून्रणे 035a
हृतदारोऽवधूतश्च नाहं जीवितुमुत्सहे 035c
इत्युक्तवचनं रामं प्रत्युवाचानिलात्मजः 036a
प्रियमाख्यामि ते राम दृष्टा सा जानकी मया 036c
विचित्य दक्षिणामाशां सपर्वतवनाकराम् 037a
श्रान्ताः काले व्यतीते स्म दृष्टवन्तो महागुहाम् 037c
प्रविशामो वयं तां तु बहुयोजनमायताम् 038a
अन्धकारां सुविपिनां गहनां कीटसेविताम् 038c
गत्वा सुमहदध्वानमादित्यस्य प्रभां ततः 039a
दृष्टवन्तः स्म तत्रैव भवनं दिव्यमन्तरा 039c
मयस्य किल दैत्यस्य तदासीद्वेश्म राघव 040a
तत्र प्रभावती नाम तपोऽतप्यत तापसी 040c
तया दत्तानि भोज्यानि पानानि विविधानि च 041a
भुक्त्वा लब्धबलाः सन्तस्तयोक्तेन पथा ततः 041c
निर्याय तस्मादुद्देशात्पश्यामो लवणाम्भसः 042a
समीपे सह्यमलयौ दर्दुरं च महागिरिम् 042c
ततो मलयमारुह्य पश्यन्तो वरुणालयम् 043a
विषण्णा व्यथिताः खिन्ना निराशा जीविते भृशम् 043c
अनेकशतविस्तीर्णं योजनानां महोदधिम् 044a
तिमिनक्रझषावासं चिन्तयन्तः सुदुःखिताः 044c
तत्रानशनसङ्कल्पं कृत्वासीना वयं तदा 045a
ततः कथान्ते गृध्रस्य जटायोरभवत्कथा 045c
ततः पर्वतशृङ्गाभं घोररूपं भयावहम् 046a
पक्षिणं दृष्टवन्तः स्म वैनतेयमिवापरम् 046c
सोऽस्मानतर्कयद्भोक्तुमथाभ्येत्य वचोऽब्रवीत् 047a
भोः क एष मम भ्रातुर्जटायोः कुरुते कथाम् 047c
सम्पातिर्नाम तस्याहं ज्येष्ठो भ्राता खगाधिपः 048a
अन्योन्यस्पर्धयारूढावावामादित्यसंसदम् 048c
ततो दग्धाविमौ पक्षौ न दग्धौ तु जटायुषः 049a
तदा मे चिरदृष्टः स भ्राता गृध्रपतिः प्रियः 049c
निर्दग्धपक्षः पतितो ह्यहमस्मिन्महागिरौ 049e
तस्यैवं वदतोऽस्माभिर्हतो भ्राता निवेदितः 050a
व्यसनं भवतश्चेदं सङ्क्षेपाद्वै निवेदितम् 050c
स सम्पातिस्तदा राजञ्श्रुत्वा सुमहदप्रियम् 051a
विषण्णचेताः पप्रच्छ पुनरस्मानरिन्दम 051c
कः स रामः कथं सीता जटायुश्च कथं हतः 052a
इच्छामि सर्वमेवैतच्छ्रोतुं प्लवगसत्तमाः 052c
तस्याहं सर्वमेवैतं भवतो व्यसनागमम् 053a
प्रायोपवेशने चैव हेतुं विस्तरतोऽब्रुवम् 053c
सोऽस्मानुत्थापयामास वाक्येनानेन पक्षिराट् 054a
रावणो विदितो मह्यं लङ्का चास्य महापुरी 054c
दृष्टा पारे समुद्रस्य त्रिकूटगिरिकन्दरे 055a
भवित्री तत्र वैदेही न मेऽस्त्यत्र विचारणा 055c
इति तस्य वचः श्रुत्वा वयमुत्थाय सत्वराः 056a
सागरप्लवने मन्त्रं मन्त्रयामः परन्तप 056c
नाध्यवस्यद्यदा कश्चित्सागरस्य विलङ्घने 057a
ततः पितरमाविश्य पुप्लुवेऽहं महार्णवम् 057c
शतयोजनविस्तीर्णं निहत्य जलराक्षसीम् 057e
तत्र सीता मया दृष्टा रावणान्तःपुरे सती 058a
उपवासतपःशीला भर्तृदर्शनलालसा 058c
जटिला मलदिग्धाङ्गी कृशा दीना तपस्विनी 058e
निमित्तैस्तामहं सीतामुपलभ्य पृथग्विधैः 059a
उपसृत्याब्रुवं चार्यामभिगम्य रहोगताम् 059c
सीते रामस्य दूतोऽहं वानरो मारुतात्मजः 060a
त्वद्दर्शनमभिप्रेप्सुरिह प्राप्तो विहायसा 060c
राजपुत्रौ कुशलिनौ भ्रातरौ रामलक्ष्मणौ 061a
सर्वशाखामृगेन्द्रेण सुग्रीवेणाभिपालितौ 061c
कुशलं त्वाब्रवीद्रामः सीते सौमित्रिणा सह 062a
सखिभावाच्च सुग्रीवः कुशलं त्वानुपृच्छति 062c
क्षिप्रमेष्यति ते भर्ता सर्वशाखामृगैः सह 063a
प्रत्ययं कुरु मे देवि वानरोऽस्मि न राक्षसः 063c
मुहूर्तमिव च ध्यात्वा सीता मां प्रत्युवाच ह 064a
अवैमि त्वां हनूमन्तमविन्ध्यवचनादहम् 064c
अविन्ध्यो हि महाबाहो राक्षसो वृद्धसम्मतः 065a
कथितस्तेन सुग्रीवस्त्वद्विधैः सचिवैर्वृतः 065c
गम्यतामिति चोक्त्वा मां सीता प्रादादिमं मणिम् 066a
धारिता येन वैदेही कालमेतमनिन्दिता 066c
प्रत्ययार्थं कथां चेमां कथयामास जानकी 067a
क्षिप्तामिषीकां काकस्य चित्रकूटे महागिरौ 067c
भवता पुरुषव्याघ्र प्रत्यभिज्ञानकारणात् 067e
श्रावयित्वा तदात्मानं ततो दग्ध्वा च तां पुरीम् 068a
सम्प्राप्त इति तं रामः प्रियवादिनमर्चयत् 068c