मार्कण्डेय उवाच 001
ततस्तां भर्तृशोकार्तां दीनां मलिनवाससम् 001a
मणिशेषाभ्यलङ्कारां रुदतीं च पतिव्रताम् 001c
राक्षसीभिरुपास्यन्तीं समासीनां शिलातले 002a
रावणः कामबाणार्तो ददर्शोपससर्प च 002c
देवदानवगन्धर्वयक्षकिम्पुरुषैर्युधि 003a
अजितोऽशोकवनिकां ययौ कन्दर्पमोहितः 003c
दिव्याम्बरधरः श्रीमान्सुमृष्टमणिकुण्डलः 004a
विचित्रमाल्यमुकुटो वसन्त इव मूर्तिमान् 004c
स कल्पवृक्षसदृशो यत्नादपि विभूषितः 005a
श्मशानचैत्यद्रुमवद्भूषितोऽपि भयङ्करः 005c
स तस्यास्तनुमध्यायाः समीपे रजनीचरः 006a
ददृशे रोहिणीमेत्य शनैश्चर इव ग्रहः 006c
स तामामन्त्र्य सुश्रोणीं पुष्पकेतुशराहतः 007a
इदमित्यब्रवीद्बालां त्रस्तां रौहीमिवाबलाम् 007c
सीते पर्याप्तमेतावत्कृतो भर्तुरनुग्रहः 008a
प्रसादं कुरु तन्वङ्गि क्रियतां परिकर्म ते 008c
भजस्व मां वरारोहे महार्हाभरणाम्बरा 009a
भव मे सर्वनारीणामुत्तमा वरवर्णिनि 009c
सन्ति मे देवकन्याश्च राजर्षीणां तथाङ्गनाः 010a
सन्ति दानवकन्याश्च दैत्यानां चापि योषितः 010c
चतुर्दश पिशाचानां कोट्यो मे वचने स्थिताः 011a
द्विस्तावत्पुरुषादानां रक्षसां भीमकर्मणाम् 011c
ततो मे त्रिगुणा यक्षा ये मद्वचनकारिणः 012a
केचिदेव धनाध्यक्षं भ्रातरं मे समाश्रिताः 012c
गन्धर्वाप्सरसो भद्रे मामापानगतं सदा 013a
उपतिष्ठन्ति वामोरु यथैव भ्रातरं मम 013c
पुत्रोऽहमपि विप्रर्षेः साक्षाद्विश्रवसो मुनेः 014a
पञ्चमो लोकपालानामिति मे प्रथितं यशः 014c
दिव्यानि भक्ष्यभोज्यानि पानानि विविधानि च 015a
यथैव त्रिदशेशस्य तथैव मम भामिनि 015c
क्षीयतां दुष्कृतं कर्म वनवासकृतं तव 016a
भार्या मे भव सुश्रोणि यथा मन्दोदरी तथा 016c
इत्युक्ता तेन वैदेही परिवृत्य शुभानना 017a
तृणमन्तरतः कृत्वा तमुवाच निशाचरम् 017c
अशिवेनातिवामोरूरजस्रं नेत्रवारिणा 018a
स्तनावपतितौ बाला सहितावभिवर्षती 018c
उवाच वाक्यं तं क्षुद्रं वैदेही पतिदेवता 018e
असकृद्वदतो वाक्यमीदृशं राक्षसेश्वर 019a
विषादयुक्तमेतत्ते मया श्रुतमभाग्यया 019c
तद्भद्रसुख भद्रं ते मानसं विनिवर्त्यताम् 020a
परदारास्म्यलभ्या च सततं च पतिव्रता 020c
न चैवोपयिकी भार्या मानुषी कृपणा तव 021a
विवशां धर्षयित्वा च कां त्वं प्रीतिमवाप्स्यसि 021c
प्रजापतिसमो विप्रो ब्रह्मयोनिः पिता तव 022a
न च पालयसे धर्मं लोकपालसमः कथम् 022c
भ्रातरं राजराजानं महेश्वरसखं प्रभुम् 023a
धनेश्वरं व्यपदिशन्कथं त्विह न लज्जसे 023c
इत्युक्त्वा प्रारुदत्सीता कम्पयन्ती पयोधरौ 024a
शिरोधरां च तन्वङ्गी मुखं प्रच्छाद्य वाससा 024c
तस्या रुदत्या भामिन्या दीर्घा वेणी सुसंयता 025a
ददृशे स्वसिता स्निग्धा काली व्यालीव मूर्धनि 025c
तच्छ्रुत्वा रावणो वाक्यं सीतयोक्तं सुनिष्ठुरम् 026a
प्रत्याख्यातोऽपि दुर्मेधाः पुनरेवाब्रवीद्वचः 026c
काममङ्गानि मे सीते दुनोतु मकरध्वजः 027a
न त्वामकामां सुश्रोणीं समेष्ये चारुहासिनीम् 027c
किं नु शक्यं मया कर्तुं यत्त्वमद्यापि मानुषम् 028a
आहारभूतमस्माकं राममेवानुरुध्यसे 028c
इत्युक्त्वा तामनिन्द्याङ्गीं स राक्षसगणेश्वरः 029a
तत्रैवान्तर्हितो भूत्वा जगामाभिमतां दिशम् 029c
राक्षसीभिः परिवृता वैदेही शोककर्शिता 030a
सेव्यमाना त्रिजटया तत्रैव न्यवसत्तदा 030c