मार्कण्डेय उवाच 001
ततोऽविदूरे नलिनीं प्रभूतकमलोत्पलाम् 001a
सीताहरणदुःखार्तः पम्पां रामः समासदत् 001c
मारुतेन सुशीतेन सुखेनामृतगन्धिना 002a
सेव्यमानो वने तस्मिञ्जगाम मनसा प्रियाम् 002c
विललाप स राजेन्द्रस्तत्र कान्तामनुस्मरन् 003a
कामबाणाभिसन्तप्तः सौमित्रिस्तमथाब्रवीत् 003c
न त्वामेवंविधो भावः स्प्रष्टुमर्हति मानद 004a
आत्मवन्तमिव व्याधिः पुरुषं वृद्धशीलिनम् 004c
प्रवृत्तिरुपलब्धा ते वैदेह्या रावणस्य च 005a
तां त्वं पुरुषकारेण बुद्ध्या चैवोपपादय 005c
अभिगच्छाव सुग्रीवं शैलस्थं हरिपुङ्गवम् 006a
मयि शिष्ये च भृत्ये च सहाये च समाश्वस 006c
एवं बहुविधैर्वाक्यैर्लक्ष्मणेन स राघवः 007a
उक्तः प्रकृतिमापेदे कार्ये चानन्तरोऽभवत् 007c
निषेव्य वारि पम्पायास्तर्पयित्वा पितॄनपि 008a
प्रतस्थतुरुभौ वीरौ भ्रातरौ रामलक्ष्मणौ 008c
तावृश्यमूकमभ्येत्य बहुमूलफलं गिरिम् 009a
गिर्यग्रे वानरान्पञ्च वीरौ ददृशतुस्तदा 009c
सुग्रीवः प्रेषयामास सचिवं वानरं तयोः 010a
बुद्धिमन्तं हनूमन्तं हिमवन्तमिव स्थितम् 010c
तेन सम्भाष्य पूर्वं तौ सुग्रीवमभिजग्मतुः 011a
सख्यं वानरराजेन चक्रे रामस्ततो नृप 011c
तद्वासो दर्शयामासुस्तस्य कार्ये निवेदिते 012a
वानराणां तु यत्सीता ह्रियमाणाभ्यवासृजत् 012c
तत्प्रत्ययकरं लब्ध्वा सुग्रीवं प्लवगाधिपम् 013a
पृथिव्यां वानरैश्वर्ये स्वयं रामोऽभ्यषेचयत् 013c
प्रतिजज्ञे च काकुत्स्थः समरे वालिनो वधम् 014a
सुग्रीवश्चापि वैदेह्याः पुनरानयनं नृप 014c
इत्युक्त्वा समयं कृत्वा विश्वास्य च परस्परम् 015a
अभ्येत्य सर्वे किष्किन्धां तस्थुर्युद्धाभिकाङ्क्षिणः 015c
सुग्रीवः प्राप्य किष्किन्धां ननादौघनिभस्वनः 016a
नास्य तन्ममृषे वाली तं तारा प्रत्यषेधयत् 016c
यथा नदति सुग्रीवो बलवानेष वानरः 017a
मन्ये चाश्रयवान्प्राप्तो न त्वं निर्गन्तुमर्हसि 017c
हेममाली ततो वाली तारां ताराधिपाननाम् 018a
प्रोवाच वचनं वाग्मी तां वानरपतिः पतिः 018c
सर्वभूतरुतज्ञा त्वं पश्य बुद्ध्या समन्विता 019a
केनापाश्रयवान्प्राप्तो ममैष भ्रातृगन्धिकः 019c
चिन्तयित्वा मुहूर्तं तु तारा ताराधिपप्रभा 020a
पतिमित्यब्रवीत्प्राज्ञा शृणु सर्वं कपीश्वर 020c
हृतदारो महासत्त्वो रामो दशरथात्मजः 021a
तुल्यारिमित्रतां प्राप्तः सुग्रीवेण धनुर्धरः 021c
भ्राता चास्य महाबाहुः सौमित्रिरपराजितः 022a
लक्ष्मणो नाम मेधावी स्थितः कार्यार्थसिद्धये 022c
मैन्दश्च द्विविदश्चैव हनूमांश्चानिलात्मजः 023a
जाम्बवानृक्षराजश्च सुग्रीवसचिवाः स्थिताः 023c
सर्व एते महात्मानो बुद्धिमन्तो महाबलाः 024a
अलं तव विनाशाय रामवीर्यव्यपाश्रयात् 024c
तस्यास्तदाक्षिप्य वचो हितमुक्तं कपीश्वरः 025a
पर्यशङ्कत तामीर्षुः सुग्रीवगतमानसाम् 025c
तारां परुषमुक्त्वा स निर्जगाम गुहामुखात् 026a
स्थितं माल्यवतोऽभ्याशे सुग्रीवं सोऽभ्यभाषत 026c
असकृत्त्वं मया मूढ निर्जितो जीवितप्रियः 027a
मुक्तो ज्ञातिरिति ज्ञात्वा का त्वरा मरणे पुनः 027c
इत्युक्तः प्राह सुग्रीवो भ्रातरं हेतुमद्वचः 028a
प्राप्तकालममित्रघ्नो रामं सम्बोधयन्निव 028c
हृतदारस्य मे राजन्हृतराज्यस्य च त्वया 029a
किं नु जीवितसामर्थ्यमिति विद्धि समागतम् 029c
एवमुक्त्वा बहुविधं ततस्तौ सन्निपेततुः 030a
समरे वालिसुग्रीवौ शालतालशिलायुधौ 030c
उभौ जघ्नतुरन्योन्यमुभौ भूमौ निपेततुः 031a
उभौ ववल्गतुश्चित्रं मुष्टिभिश्च निजघ्नतुः 031c
उभौ रुधिरसंसिक्तौ नखदन्तपरिक्षतौ 032a
शुशुभाते तदा वीरौ पुष्पिताविव किंशुकौ 032c
न विशेषस्तयोर्युद्धे तदा कश्चन दृश्यते 033a
सुग्रीवस्य तदा मालां हनूमान्कण्ठ आसजत् 033c
स मालया तदा वीरः शुशुभे कण्ठसक्तया 034a
श्रीमानिव महाशैलो मलयो मेघमालया 034c
कृतचिह्नं तु सुग्रीवं रामो दृष्ट्वा महाधनुः 035a
विचकर्ष धनुःश्रेष्ठं वालिमुद्दिश्य लक्ष्यवत् 035c
विस्फारस्तस्य धनुषो यन्त्रस्येव तदा बभौ 036a
वितत्रास तदा वाली शरेणाभिहतो हृदि 036c
स भिन्नमर्माभिहतो वक्त्राच्छोणितमुद्वमन् 037a
ददर्शावस्थितं राममारात्सौमित्रिणा सह 037c
गर्हयित्वा स काकुत्स्थं पपात भुवि मूर्छितः 038a
तारा ददर्श तं भूमौ तारापतिमिव च्युतम् 038c
हते वालिनि सुग्रीवः किष्किन्धां प्रत्यपद्यत 039a
तां च तारापतिमुखीं तारां निपतितेश्वराम् 039c
रामस्तु चतुरो मासान्पृष्ठे माल्यवतः शुभे 040a
निवासमकरोद्धीमान्सुग्रीवेणाभ्युपस्थितः 040c
रावणोऽपि पुरीं गत्वा लङ्कां कामबलात्कृतः 041a
सीतां निवेशयामास भवने नन्दनोपमे 041c
अशोकवनिकाभ्याशे तापसाश्रमसन्निभे 041e
भर्तृस्मरणतन्वङ्गी तापसीवेषधारिणी 042a
उपवासतपःशीला तत्र सा पृथुलेक्षणा 042c
उवास दुःखवसतीः फलमूलकृताशना 042e
दिदेश राक्षसीस्तत्र रक्षणे राक्षसाधिपः 043a
प्रासासिशूलपरशुमुद्गरालातधारिणीः 043c
द्व्यक्षीं त्र्यक्षीं ललाटाक्षीं दीर्घजिह्वामजिह्विकाम् 044a
त्रिस्तनीमेकपादां च त्रिजटामेकलोचनाम् 044c
एताश्चान्याश्च दीप्ताक्ष्यः करभोत्कटमूर्धजाः 045a
परिवार्यासते सीतां दिवारात्रमतन्द्रिताः 045c
तास्तु तामायतापाङ्गीं पिशाच्यो दारुणस्वनाः 046a
तर्जयन्ति सदा रौद्राः परुषव्यञ्जनाक्षराः 046c
खादाम पाटयामैनां तिलशः प्रविभज्य ताम् 047a
येयं भर्तारमस्माकमवमन्येह जीवति 047c
इत्येवं परिभर्त्सन्तीस्त्रास्यमाना पुनः पुनः 048a
भर्तृशोकसमाविष्टा निःश्वस्येदमुवाच ताः 048c
आर्याः खादत मां शीघ्रं न मे लोभोऽस्ति जीविते 049a
विना तं पुण्डरीकाक्षं नीलकुञ्चितमूर्धजम् 049c
अप्येवाहं निराहारा जीवितप्रियवर्जिता 050a
शोषयिष्यामि गात्राणि व्याली तालगता यथा 050c
न त्वन्यमभिगच्छेयं पुमांसं राघवादृते 051a
इति जानीत सत्यं मे क्रियतां यदनन्तरम् 051c
तस्यास्तद्वचनं श्रुत्वा राक्षस्यस्ताः खरस्वनाः 052a
आख्यातुं राक्षसेन्द्राय जग्मुस्तत्सर्वमादितः 052c
गतासु तासु सर्वासु त्रिजटा नाम राक्षसी 053a
सान्त्वयामास वैदेहीं धर्मज्ञा प्रियवादिनी 053c
सीते वक्ष्यामि ते किञ्चिद्विश्वासं कुरु मे सखि 054a
भयं ते व्येतु वामोरु शृणु चेदं वचो मम 054c
अविन्ध्यो नाम मेधावी वृद्धो राक्षसपुङ्गवः 055a
स रामस्य हितान्वेषी त्वदर्थे हि स मावदत् 055c
सीता मद्वचनाद्वाच्या समाश्वास्य प्रसाद्य च 056a
भर्ता ते कुशली रामो लक्ष्मणानुगतो बली 056c
सख्यं वानरराजेन शक्रप्रतिमतेजसा 057a
कृतवान्राघवः श्रीमांस्त्वदर्थे च समुद्यतः 057c
मा च तेऽस्तु भयं भीरु रावणाल्लोकगर्हितात् 058a
नलकूबरशापेन रक्षिता ह्यस्यनिन्दिते 058c
शप्तो ह्येष पुरा पापो वधूं रम्भां परामृशन् 059a
न शक्तो विवशां नारीमुपैतुमजितेन्द्रियः 059c
क्षिप्रमेष्यति ते भर्ता सुग्रीवेणाभिरक्षितः 060a
सौमित्रिसहितो धीमांस्त्वां चेतो मोक्षयिष्यति 060c
स्वप्ना हि सुमहाघोरा दृष्टा मेऽनिष्टदर्शनाः 061a
विनाशायास्य दुर्बुद्धेः पौलस्त्यकुलघातिनः 061c
दारुणो ह्येष दुष्टात्मा क्षुद्रकर्मा निशाचरः 062a
स्वभावाच्छीलदोषेण सर्वेषां भयवर्धनः 062c
स्पर्धते सर्वदेवैर्यः कालोपहतचेतनः 063a
मया विनाशलिङ्गानि स्वप्ने दृष्टानि तस्य वै 063c
तैलाभिषिक्तो विकचो मज्जन्पङ्के दशाननः 064a
असकृत्खरयुक्ते तु रथे नृत्यन्निव स्थितः 064c
कुम्भकर्णादयश्चेमे नग्नाः पतितमूर्धजाः 065a
कृष्यन्ते दक्षिणामाशां रक्तमाल्यानुलेपनाः 065c
श्वेतातपत्रः सोष्णीषः शुक्लमाल्यविभूषणः 066a
श्वेतपर्वतमारूढ एक एव विभीषणः 066c
सचिवाश्चास्य चत्वारः शुक्लमाल्यानुलेपनाः 067a
श्वेतपर्वतमारूढा मोक्ष्यन्तेऽस्मान्महाभयात् 067c
रामस्यास्त्रेण पृथिवी परिक्षिप्ता ससागरा 068a
यशसा पृथिवीं कृत्स्नां पूरयिष्यति ते पतिः 068c
अस्थिसञ्चयमारूढो भुञ्जानो मधुपायसम् 069a
लक्ष्मणश्च मया दृष्टो निरीक्षन्सर्वतोदिशः 069c
रुदती रुधिरार्द्राङ्गी व्याघ्रेण परिरक्षिता 070a
असकृत्त्वं मया दृष्टा गच्छन्ती दिशमुत्तराम् 070c
हर्षमेष्यसि वैदेहि क्षिप्रं भर्तृसमन्विता 071a
राघवेण सह भ्रात्रा सीते त्वमचिरादिव 071c
इति सा मृगशावाक्षी तच्छ्रुत्वा त्रिजटावचः 072a
बभूवाशावती बाला पुनर्भर्तृसमागमे 072c
यावदभ्यागता रौद्राः पिशाच्यस्ताः सुदारुणाः 073a
ददृशुस्तां त्रिजटया सहासीनां यथा पुरा 073c