मार्कण्डेय उवाच 001
सखा दशरथस्यासीज्जटायुररुणात्मजः 001a
गृध्रराजो महावीर्यः सम्पातिर्यस्य सोदरः 001c
स ददर्श तदा सीतां रावणाङ्कगतां स्नुषाम् 002a
क्रोधादभ्यद्रवत्पक्षी रावणं राक्षसेश्वरम् 002c
अथैनमब्रवीद्गृध्रो मुञ्च मुञ्चेति मैथिलीम् 003a
ध्रियमाणे मयि कथं हरिष्यसि निशाचर 003c
न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे वधूम् 003e
उक्त्वैवं राक्षसेन्द्रं तं चकर्त नखरैर्भृशम् 004a
पक्षतुण्डप्रहारैश्च बहुशो जर्जरीकृतः 004c
चक्षार रुधिरं भूरि गिरिः प्रस्रवणैरिव 004e
स वध्यमानो गृध्रेण रामप्रियहितैषिणा 005a
खड्गमादाय चिच्छेद भुजौ तस्य पतत्रिणः 005c
निहत्य गृध्रराजं स छिन्नाभ्रशिखरोपमम् 006a
ऊर्ध्वमाचक्रमे सीतां गृहीत्वाङ्केन राक्षसः 006c
यत्र यत्र तु वैदेही पश्यत्याश्रममण्डलम् 007a
सरो वा सरितं वापि तत्र मुञ्चति भूषणम् 007c
सा ददर्श गिरिप्रस्थे पञ्च वानरपुङ्गवान् 008a
तत्र वासो महद्दिव्यमुत्ससर्ज मनस्विनी 008c
तत्तेषां वानरेन्द्राणां पपात पवनोद्धुतम् 009a
मध्ये सुपीतं पञ्चानां विद्युन्मेघान्तरे यथा 009c
एवं हृतायां वैदेह्यां रामो हत्वा महामृगम् 010a
निवृत्तो ददृशे धीमान्भ्रातरं लक्ष्मणं तदा 010c
कथमुत्सृज्य वैदेहीं वने राक्षससेविते 011a
इत्येवं भ्रातरं दृष्ट्वा प्राप्तोऽसीति व्यगर्हयत् 011c
मृगरूपधरेणाथ रक्षसा सोऽपकर्षणम् 012a
भ्रातुरागमनं चैव चिन्तयन्पर्यतप्यत 012c
गर्हयन्नेव रामस्तु त्वरितस्तं समासदत् 013a
अपि जीवति वैदेही नेति पश्यामि लक्ष्मण 013c
तस्य तत्सर्वमाचख्यौ सीताया लक्ष्मणो वचः 014a
यदुक्तवत्यसदृशं वैदेही पश्चिमं वचः 014c
दह्यमानेन तु हृदा रामोऽभ्यपतदाश्रमम् 015a
स ददर्श तदा गृध्रं निहतं पर्वतोपमम् 015c
राक्षसं शङ्कमानस्तु विकृष्य बलवद्धनुः 016a
अभ्यधावत काकुत्स्थस्ततस्तं सहलक्ष्मणः 016c
स तावुवाच तेजस्वी सहितौ रामलक्ष्मणौ 017a
गृध्रराजोऽस्मि भद्रं वां सखा दशरथस्य ह 017c
तस्य तद्वचनं श्रुत्वा सङ्गृह्य धनुषी शुभे 018a
कोऽयं पितरमस्माकं नाम्नाहेत्यूचतुश्च तौ 018c
ततो ददृशतुस्तौ तं छिन्नपक्षद्वयं तथा 019a
तयोः शशंस गृध्रस्तु सीतार्थे रावणाद्वधम् 019c
अपृच्छद्राघवो गृध्रं रावणः कां दिशं गतः 020a
तस्य गृध्रः शिरःकम्पैराचचक्षे ममार च 020c
दक्षिणामिति काकुत्स्थो विदित्वास्य तदिङ्गितम् 021a
संस्कारं लम्भयामास सखायं पूजयन्पितुः 021c
ततो दृष्ट्वाश्रमपदं व्यपविद्धबृसीघटम् 022a
विध्वस्तकलशं शून्यं गोमायुबलसेवितम् 022c
दुःखशोकसमाविष्टौ वैदेहीहरणार्दितौ 023a
जग्मतुर्दण्डकारण्यं दक्षिणेन परन्तपौ 023c
वने महति तस्मिंस्तु रामः सौमित्रिणा सह 024a
ददर्श मृगयूथानि द्रवमाणानि सर्वशः 024c
शब्दं च घोरं सत्त्वानां दावाग्नेरिव वर्धतः 024e
अपश्येतां मुहूर्ताच्च कबन्धं घोरदर्शनम् 025a
मेघपर्वतसङ्काशं शालस्कन्धं महाभुजम् 025c
उरोगतविशालाक्षं महोदरमहामुखम् 025e
यदृच्छयाथ तद्रक्षः करे जग्राह लक्ष्मणम् 026a
विषादमगमत्सद्यः सौमित्रिरथ भारत 026c
स राममभिसम्प्रेक्ष्य कृष्यते येन तन्मुखम् 027a
विषण्णश्चाब्रवीद्रामं पश्यावस्थामिमां मम 027c
हरणं चैव वैदेह्या मम चायमुपप्लवः 028a
राज्यभ्रंशश्च भवतस्तातस्य मरणं तथा 028c
नाहं त्वां सह वैदेह्या समेतं कोसलागतम् 029a
द्रक्ष्यामि पृथिवीराज्ये पितृपैतामहे स्थितम् 029c
द्रक्ष्यन्त्यार्यस्य धन्या ये कुशलाजशमीलवैः 030a
अभिषिक्तस्य वदनं सोमं साभ्रलवं यथा 030c
एवं बहुविधं धीमान्विललाप स लक्ष्मणः 031a
तमुवाचाथ काकुत्स्थः सम्भ्रमेष्वप्यसम्भ्रमः 031c
मा विषीद नरव्याघ्र नैष कश्चिन्मयि स्थिते 032a
छिन्ध्यस्य दक्षिणं बाहुं छिन्नः सव्यो मया भुजः 032c
इत्येवं वदता तस्य भुजो रामेण पातितः 033a
खड्गेन भृशतीक्ष्णेन निकृत्तस्तिलकाण्डवत् 033c
ततोऽस्य दक्षिणं बाहुं खड्गेनाजघ्निवान्बली 034a
सौमित्रिरपि सम्प्रेक्ष्य भ्रातरं राघवं स्थितम् 034c
पुनरभ्याहनत्पार्श्वे तद्रक्षो लक्ष्मणो भृशम् 035a
गतासुरपतद्भूमौ कबन्धः सुमहांस्ततः 035c
तस्य देहाद्विनिःसृत्य पुरुषो दिव्यदर्शनः 036a
ददृशे दिवमास्थाय दिवि सूर्य इव ज्वलन् 036c
पप्रच्छ रामस्तं वाग्मी कस्त्वं प्रब्रूहि पृच्छतः 037a
कामया किमिदं चित्रमाश्चर्यं प्रतिभाति मे 037c
तस्याचचक्षे गन्धर्वो विश्वावसुरहं नृप 038a
प्राप्तो ब्रह्मानुशापेन योनिं राक्षससेविताम् 038c
रावणेन हृता सीता राज्ञा लङ्कानिवासिना 039a
सुग्रीवमभिगच्छस्व स ते साह्यं करिष्यति 039c
एषा पम्पा शिवजला हंसकारण्डवायुता 040a
ऋश्यमूकस्य शैलस्य सन्निकर्षे तटाकिनी 040c
संवसत्यत्र सुग्रीवश्चतुर्भिः सचिवैः सह 041a
भ्राता वानरराजस्य वालिनो हेममालिनः 041c
एतावच्छक्यमस्माभिर्वक्तुं द्रष्टासि जानकीम् 042a
ध्रुवं वानरराजस्य विदितो रावणालयः 042c
इत्युक्त्वान्तर्हितो दिव्यः पुरुषः स महाप्रभः 043a
विस्मयं जग्मतुश्चोभौ तौ वीरौ रामलक्ष्मणौ 043c