मार्कण्डेय उवाच 001
मारीचस्त्वथ सम्भ्रान्तो दृष्ट्वा रावणमागतम् 001a
पूजयामास सत्कारैः फलमूलादिभिस्तथा 001c
विश्रान्तं चैनमासीनमन्वासीनः स राक्षसः 002a
उवाच प्रश्रितं वाक्यं वाक्यज्ञो वाक्यकोविदम् 002c
न ते प्रकृतिमान्वर्णः कच्चित्क्षेमं पुरे तव 003a
कच्चित्प्रकृतयः सर्वा भजन्ते त्वां यथा पुरा 003c
किमिहागमने चापि कार्यं ते राक्षसेश्वर 004a
कृतमित्येव तद्विद्धि यद्यपि स्यात्सुदुष्करम् 004c
शशंस रावणस्तस्मै तत्सर्वं रामचेष्टितम् 005a
मारीचस्त्वब्रवीच्छ्रुत्वा समासेनैव रावणम् 005c
अलं ते राममासाद्य वीर्यज्ञो ह्यस्मि तस्य वै 006a
बाणवेगं हि कस्तस्य शक्तः सोढुं महात्मनः 006c
प्रव्रज्यायां हि मे हेतुः स एव पुरुषर्षभः 007a
विनाशमुखमेतत्ते केनाख्यातं दुरात्मना 007c
तमुवाचाथ सक्रोधो रावणः परिभर्त्सयन् 008a
अकुर्वतोऽस्मद्वचनं स्यान्मृत्युरपि ते ध्रुवम् 008c
मारीचश्चिन्तयामास विशिष्टान्मरणं वरम् 009a
अवश्यं मरणे प्राप्ते करिष्याम्यस्य यन्मतम् 009c
ततस्तं प्रत्युवाचाथ मारीचो राक्षसेश्वरम् 010a
किं ते साह्यं मया कार्यं करिष्याम्यवशोऽपि तत् 010c
तमब्रवीद्दशग्रीवो गच्छ सीतां प्रलोभय 011a
रत्नशृङ्गो मृगो भूत्वा रत्नचित्रतनूरुहः 011c
ध्रुवं सीता समालक्ष्य त्वां रामं चोदयिष्यति 012a
अपक्रान्ते च काकुत्स्थे सीता वश्या भविष्यति 012c
तामादायापनेष्यामि ततः स न भविष्यति 013a
भार्यावियोगाद्दुर्बुद्धिरेतत्साह्यं कुरुष्व मे 013c
इत्येवमुक्तो मारीचः कृत्वोदकमथात्मनः 014a
रावणं पुरतो यान्तमन्वगच्छत्सुदुःखितः 014c
ततस्तस्याश्रमं गत्वा रामस्याक्लिष्टकर्मणः 015a
चक्रतुस्तत्तथा सर्वमुभौ यत्पूर्वमन्त्रितम् 015c
रावणस्तु यतिर्भूत्वा मुण्डः कुण्डी त्रिदण्डधृक् 016a
मृगश्च भूत्वा मारीचस्तं देशमुपजग्मतुः 016c
दर्शयामास वैदेहीं मारीचो मृगरूपधृक् 017a
चोदयामास तस्यार्थे सा रामं विधिचोदिता 017c
रामस्तस्याः प्रियं कुर्वन्धनुरादाय सत्वरः 018a
रक्षार्थे लक्ष्मणं न्यस्य प्रययौ मृगलिप्सया 018c
स धन्वी बद्धतूणीरः खड्गगोधाङ्गुलित्रवान् 019a
अन्वधावन्मृगं रामो रुद्रस्तारामृगं यथा 019c
सोऽन्तर्हितः पुनस्तस्य दर्शनं राक्षसो व्रजन् 020a
चकर्ष महदध्वानं रामस्तं बुबुधे ततः 020c
निशाचरं विदित्वा तं राघवः प्रतिभानवान् 021a
अमोघं शरमादाय जघान मृगरूपिणम् 021c
स रामबाणाभिहतः कृत्वा रामस्वरं तदा 022a
हा सीते लक्ष्मणेत्येवं चुक्रोशार्तस्वरेण ह 022c
शुश्राव तस्य वैदेही ततस्तां करुणां गिरम् 023a
सा प्राद्रवद्यतः शब्दस्तामुवाचाथ लक्ष्मणः 023c
अलं ते शङ्कया भीरु को रामं विषहिष्यति 024a
मुहूर्ताद्द्रक्ष्यसे राममागतं तं शुचिस्मिते 024c
इत्युक्त्वा सा प्ररुदती पर्यशङ्कत देवरम् 025a
हता वै स्त्रीस्वभावेन शुद्धचारित्रभूषणम् 025c
सा तं परुषमारब्धा वक्तुं साध्वी पतिव्रता 026a
नैष कालो भवेन्मूढ यं त्वं प्रार्थयसे हृदा 026c
अप्यहं शस्त्रमादाय हन्यामात्मानमात्मना 027a
पतेयं गिरिशृङ्गाद्वा विशेयं वा हुताशनम् 027c
रामं भर्तारमुत्सृज्य न त्वहं त्वां कथञ्चन 028a
निहीनमुपतिष्ठेयं शार्दूली क्रोष्टुकं यथा 028c
एतादृशं वचः श्रुत्वा लक्ष्मणः प्रियराघवः 029a
पिधाय कर्णौ सद्वृत्तः प्रस्थितो येन राघवः 029c
स रामस्य पदं गृह्य प्रससार धनुर्धरः 029e
एतस्मिन्नन्तरे रक्षो रावणः प्रत्यदृश्यत 030a
अभव्यो भव्यरूपेण भस्मच्छन्न इवानलः 030c
यतिवेषप्रतिच्छन्नो जिहीर्षुस्तामनिन्दिताम् 030e
सा तमालक्ष्य सम्प्राप्तं धर्मज्ञा जनकात्मजा 031a
निमन्त्रयामास तदा फलमूलाशनादिभिः 031c
अवमन्य स तत्सर्वं स्वरूपं प्रतिपद्य च 032a
सान्त्वयामास वैदेहीमिति राक्षसपुङ्गवः 032c
सीते राक्षसराजोऽहं रावणो नाम विश्रुतः 033a
मम लङ्का पुरी नाम्ना रम्या पारे महोदधेः 033c
तत्र त्वं वरनारीषु शोभिष्यसि मया सह 034a
भार्या मे भव सुश्रोणि तापसं त्यज राघवम् 034c
एवमादीनि वाक्यानि श्रुत्वा सीताथ जानकी 035a
पिधाय कर्णौ सुश्रोणी मैवमित्यब्रवीद्वचः 035c
प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकलीभवेत् 036a
शैत्यमग्निरियान्नाहं त्यजेयं रघुनन्दनम् 036c
कथं हि भिन्नकरटं पद्मिनं वनगोचरम् 037a
उपस्थाय महानागं करेणुः सूकरं स्पृशेत् 037c
कथं हि पीत्वा माध्वीकं पीत्वा च मधुमाधवीम् 038a
लोभं सौवीरके कुर्यान्नारी काचिदिति स्मरे 038c
इति सा तं समाभाष्य प्रविवेशाश्रमं पुनः 039a
तामनुद्रुत्य सुश्रोणीं रावणः प्रत्यषेधयत् 039c
भर्त्सयित्वा तु रूक्षेण स्वरेण गतचेतनाम् 040a
मूर्धजेषु निजग्राह खमुपाचक्रमे ततः 040c
तां ददर्श तदा गृध्रो जटायुर्गिरिगोचरः 041a
रुदतीं राम रामेति ह्रियमाणां तपस्विनीम् 041c