युधिष्ठिर उवाच 001
उक्तं भगवता जन्म रामादीनां पृथक्पृथक् 001a
प्रस्थानकारणं ब्रह्मञ्श्रोतुमिच्छामि कथ्यताम् 001c
कथं दाशरथी वीरौ भ्रातरौ रामलक्ष्मणौ 002a
प्रस्थापितौ वनं ब्रह्म मैथिली च यशस्विनी 002c
मार्कण्डेय उवाच 003
जातपुत्रो दशरथः प्रीतिमानभवन्नृपः 003a
क्रियारतिर्धर्मपरः सततं वृद्धसेविता 003c
क्रमेण चास्य ते पुत्रा व्यवर्धन्त महौजसः 004a
वेदेषु सरहस्येषु धनुर्वेदे च पारगाः 004c
चरितब्रह्मचर्यास्ते कृतदाराश्च पार्थिव 005a
यदा तदा दशरथः प्रीतिमानभवत्सुखी 005c
ज्येष्ठो रामोऽभवत्तेषां रमयामास हि प्रजाः 006a
मनोहरतया धीमान्पितुर्हृदयतोषणः 006c
ततः स राजा मतिमान्मत्वात्मानं वयोऽधिकम् 007a
मन्त्रयामास सचिवैर्धर्मज्ञैश्च पुरोहितैः 007c
अभिषेकाय रामस्य यौवराज्येन भारत 008a
प्राप्तकालं च ते सर्वे मेनिरे मन्त्रिसत्तमाः 008c
लोहिताक्षं महाबाहुं मत्तमातङ्गगामिनम् 009a
दीर्घबाहुं महोरस्कं नीलकुञ्चितमूर्धजम् 009c
दीप्यमानं श्रिया वीरं शक्रादनवमं बले 010a
पारगं सर्वधर्माणां बृहस्पतिसमं मतौ 010c
सर्वानुरक्तप्रकृतिं सर्वविद्याविशारदम् 011a
जितेन्द्रियममित्राणामपि दृष्टिमनोहरम् 011c
नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम् 012a
धृतिमन्तमनाधृष्यं जेतारमपराजितम् 012c
पुत्रं राजा दशरथः कौसल्यानन्दवर्धनम् 013a
सन्दृश्य परमां प्रीतिमगच्छत्कुरुनन्दन 013c
चिन्तयंश्च महातेजा गुणान्रामस्य वीर्यवान् 014a
अभ्यभाषत भद्रं ते प्रीयमाणः पुरोहितम् 014c
अद्य पुष्यो निशि ब्रह्मन्पुण्यं योगमुपैष्यति 015a
सम्भाराः सम्भ्रियन्तां मे रामश्चोपनिमन्त्र्यताम् 015c
इति तद्राजवचनं प्रतिश्रुत्याथ मन्थरा 016a
कैकेयीमभिगम्येदं काले वचनमब्रवीत् 016c
अद्य कैकेयि दौर्भाग्यं राज्ञा ते ख्यापितं महत् 017a
आशीविषस्त्वां सङ्क्रुद्धश्चण्डो दशति दुर्भगे 017c
सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते 018a
कुतो हि तव सौभाग्यं यस्याः पुत्रो न राज्यभाक् 018c
सा तद्वचनमाज्ञाय सर्वाभरणभूषिता 019a
वेदीविलग्नमध्येव बिभ्रती रूपमुत्तमम् 019c
विविक्ते पतिमासाद्य हसन्तीव शुचिस्मिता 020a
प्रणयं व्यञ्जयन्तीव मधुरं वाक्यमब्रवीत् 020c
सत्यप्रतिज्ञ यन्मे त्वं काममेकं निसृष्टवान् 021a
उपाकुरुष्व तद्राजंस्तस्मान्मुच्यस्व सङ्कटात् 021c
राजोवाच 022
वरं ददानि ते हन्त तद्गृहाण यदिच्छसि 022a
अवध्यो वध्यतां कोऽद्य वध्यः कोऽद्य विमुच्यताम् 022c
धनं ददानि कस्याद्य ह्रियतां कस्य वा पुनः 023a
ब्राह्मणस्वादिहान्यत्र यत्किञ्चिद्वित्तमस्ति मे 023c
मार्कण्डेय उवाच 024
सा तद्वचनमाज्ञाय परिगृह्य नराधिपम् 024a
आत्मनो बलमाज्ञाय तत एनमुवाच ह 024c
आभिषेचनिकं यत्ते रामार्थमुपकल्पितम् 025a
भरतस्तदवाप्नोतु वनं गच्छतु राघवः 025c
स तद्राजा वचः श्रुत्वा विप्रियं दारुणोदयम् 026a
दुःखार्तो भरतश्रेष्ठ न किञ्चिद्व्याजहार ह 026c
ततस्तथोक्तं पितरं रामो विज्ञाय वीर्यवान् 027a
वनं प्रतस्थे धर्मात्मा राजा सत्यो भवत्विति 027c
तमन्वगच्छल्लक्ष्मीवान्धनुष्माल्ँलक्ष्मणस्तदा 028a
सीता च भार्या भद्रं ते वैदेही जनकात्मजा 028c
ततो वनं गते रामे राजा दशरथस्तदा 029a
समयुज्यत देहस्य कालपर्यायधर्मणा 029c
रामं तु गतमाज्ञाय राजानं च तथागतम् 030a
आनाय्य भरतं देवी कैकेयी वाक्यमब्रवीत् 030c
गतो दशरथः स्वर्गं वनस्थौ रामलक्ष्मणौ 031a
गृहाण राज्यं विपुलं क्षेमं निहतकण्टकम् 031c
तामुवाच स धर्मात्मा नृशंसं बत ते कृतम् 032a
पतिं हत्वा कुलं चेदमुत्साद्य धनलुब्धया 032c
अयशः पातयित्वा मे मूर्ध्नि त्वं कुलपांसने 033a
सकामा भव मे मातरित्युक्त्वा प्ररुरोद ह 033c
स चारित्रं विशोध्याथ सर्वप्रकृतिसन्निधौ 034a
अन्वयाद्भ्रातरं रामं विनिवर्तनलालसः 034c
कौसल्यां च सुमित्रां च कैकेयीं च सुदुःखितः 035a
अग्रे प्रस्थाप्य यानैः स शत्रुघ्नसहितो ययौ 035c
वसिष्ठवामदेवाभ्यां विप्रैश्चान्यैः सहस्रशः 036a
पौरजानपदैः सार्धं रामानयनकाङ्क्षया 036c
ददर्श चित्रकूटस्थं स रामं सहलक्ष्मणम् 037a
तापसानामलङ्कारं धारयन्तं धनुर्धरम् 037c
विसर्जितः स रामेण पितुर्वचनकारिणा 038a
नन्दिग्रामेऽकरोद्राज्यं पुरस्कृत्यास्य पादुके 038c
रामस्तु पुनराशङ्क्य पौरजानपदागमम् 039a
प्रविवेश महारण्यं शरभङ्गाश्रमं प्रति 039c
सत्कृत्य शरभङ्गं स दण्डकारण्यमाश्रितः 040a
नदीं गोदावरीं रम्यामाश्रित्य न्यवसत्तदा 040c
वसतस्तस्य रामस्य ततः शूर्पणखाकृतम् 041a
खरेणासीन्महद्वैरं जनस्थाननिवासिना 041c
रक्षार्थं तापसानां च राघवो धर्मवत्सलः 042a
चतुर्दश सहस्राणि जघान भुवि रक्षसाम् 042c
दूषणं च खरं चैव निहत्य सुमहाबलौ 043a
चक्रे क्षेमं पुनर्धीमान्धर्मारण्यं स राघवः 043c
हतेषु तेषु रक्षःसु ततः शूर्पणखा पुनः 044a
ययौ निकृत्तनासोष्ठी लङ्कां भ्रातुर्निवेशनम् 044c
ततो रावणमभ्येत्य राक्षसी दुःखमूर्छिता 045a
पपात पादयोर्भ्रातुः संशुष्करुधिरानना 045c
तां तथा विकृतां दृष्ट्वा रावणः क्रोधमूर्छितः 046a
उत्पपातासनात्क्रुद्धो दन्तैर्दन्तानुपस्पृशन् 046c
स्वानमात्यान्विसृज्याथ विविक्ते तामुवाच सः 047a
केनास्येवं कृता भद्रे मामचिन्त्यावमन्य च 047c
कः शूलं तीक्ष्णमासाद्य सर्वगात्रैर्निषेवते 048a
कः शिरस्यग्निमादाय विश्वस्तः स्वपते सुखम् 048c
आशीविषं घोरतरं पादेन स्पृशतीह कः 049a
सिंहं केसरिणं कश्च दंष्ट्रासु स्पृश्य तिष्ठति 049c
इत्येवं ब्रुवतस्तस्य स्रोतोभ्यस्तेजसोऽर्चिषः 050a
निश्चेरुर्दह्यतो रात्रौ वृक्षस्येव स्वरन्ध्रतः 050c
तस्य तत्सर्वमाचख्यौ भगिनी रामविक्रमम् 051a
खरदूषणसंयुक्तं राक्षसानां पराभवम् 051c
स निश्चित्य ततः कृत्यं स्वसारमुपसान्त्व्य च 052a
ऊर्ध्वमाचक्रमे राजा विधाय नगरे विधिम् 052c
त्रिकूटं समतिक्रम्य कालपर्वतमेव च 053a
ददर्श मकरावासं गम्भीरोदं महोदधिम् 053c
तमतीत्याथ गोकर्णमभ्यगच्छद्दशाननः 054a
दयितं स्थानमव्यग्रं शूलपाणेर्महात्मनः 054c
तत्राभ्यगच्छन्मारीचं पूर्वामात्यं दशाननः 055a
पुरा रामभयादेव तापस्यं समुपाश्रितम् 055c