मार्कण्डेय उवाच 001
ततो ब्रह्मर्षयः सिद्धा देवराजर्षयस्तथा 001a
हव्यवाहं पुरस्कृत्य ब्रह्माणं शरणं गताः 001c
अग्निरुवाच 002
यः स विश्रवसः पुत्रो दशग्रीवो महाबलः 002a
अवध्यो वरदानेन कृतो भगवता पुरा 002c
स बाधते प्रजाः सर्वा विप्रकारैर्महाबलः 003a
ततो नस्त्रातु भगवन्नान्यस्त्राता हि विद्यते 003c
ब्रह्मोवाच 004
न स देवासुरैः शक्यो युद्धे जेतुं विभावसो 004a
विहितं तत्र यत्कार्यमभितस्तस्य निग्रहे 004c
तदर्थमवतीर्णोऽसौ मन्नियोगाच्चतुर्भुजः 005a
विष्णुः प्रहरतां श्रेष्ठः स कर्मैतत्करिष्यति 005c
मार्कण्डेय उवाच 006
पितामहस्ततस्तेषां सन्निधौ वाक्यमब्रवीत् 006a
सर्वैर्देवगणैः सार्धं सम्भवध्वं महीतले 006c
विष्णोः सहायानृक्षीषु वानरीषु च सर्वशः 007a
जनयध्वं सुतान्वीरान्कामरूपबलान्वितान् 007c
ततो भागानुभागेन देवगन्धर्वदानवाः 008a
अवतर्तुं महीं सर्वे रञ्जयामासुरञ्जसा 008c
तेषां समक्षं गन्धर्वीं दुन्दुभीं नाम नामतः 009a
शशास वरदो देवो देवकार्यार्थसिद्धये 009c
पितामहवचः श्रुत्वा गन्धर्वी दुन्दुभी ततः 010a
मन्थरा मानुषे लोके कुब्जा समभवत्तदा 010c
शक्रप्रभृतयश्चैव सर्वे ते सुरसत्तमाः 011a
वानरर्क्षवरस्त्रीषु जनयामासुरात्मजान् 011c
तेऽन्ववर्तन्पितॄन्सर्वे यशसा च बलेन च 011e
भेत्तारो गिरिशृङ्गाणां शालतालशिलायुधाः 012a
वज्रसंहननाः सर्वे सर्वे चौघबलास्तथा 012c
कामवीर्यधराश्चैव सर्वे युद्धविशारदाः 013a
नागायुतसमप्राणा वायुवेगसमा जवे 013c
यत्रेच्छकनिवासाश्च केचिदत्र वनौकसः 013e
एवं विधाय तत्सर्वं भगवाल्ँलोकभावनः 014a
मन्थरां बोधयामास यद्यत्कार्यं यथा यथा 014c
सा तद्वचनमाज्ञाय तथा चक्रे मनोजवा 015a
इतश्चेतश्च गच्छन्ती वैरसन्धुक्षणे रता 015c