मार्कण्डेय उवाच 001
पुलस्त्यस्य तु यः क्रोधादर्धदेहोऽभवन्मुनिः 001a
विश्रवा नाम सक्रोधः स वैश्रवणमैक्षत 001c
बुबुधे तं तु सक्रोधं पितरं राक्षसेश्वरः 002a
कुबेरस्तत्प्रसादार्थं यतते स्म सदा नृप 002c
स राजराजो लङ्कायां निवसन्नरवाहनः 003a
राक्षसीः प्रददौ तिस्रः पितुर्वै परिचारिकाः 003c
तास्तदा तं महात्मानं सन्तोषयितुमुद्यताः 004a
ऋषिं भरतशार्दूल नृत्तगीतविशारदाः 004c
पुष्पोत्कटा च राका च मालिनी च विशां पते 005a
अन्योन्यस्पर्धया राजञ्श्रेयस्कामाः सुमध्यमाः 005c
तासां स भगवांस्तुष्टो महात्मा प्रददौ वरान् 006a
लोकपालोपमान्पुत्रानेकैकस्या यथेप्सितान् 006c
पुष्पोत्कटायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ 007a
कुम्भकर्णदशग्रीवौ बलेनाप्रतिमौ भुवि 007c
मालिनी जनयामास पुत्रमेकं विभीषणम् 008a
राकायां मिथुनं जज्ञे खरः शूर्पणखा तथा 008c
विभीषणस्तु रूपेण सर्वेभ्योऽभ्यधिकोऽभवत् 009a
स बभूव महाभागो धर्मगोप्ता क्रियारतिः 009c
दशग्रीवस्तु सर्वेषां ज्येष्ठो राक्षसपुङ्गवः 010a
महोत्साहो महावीर्यो महासत्त्वपराक्रमः 010c
कुम्भकर्णो बलेनासीत्सर्वेभ्योऽभ्यधिकस्तदा 011a
मायावी रणशौण्डश्च रौद्रश्च रजनीचरः 011c
खरो धनुषि विक्रान्तो ब्रह्मद्विट्पिशिताशनः 012a
सिद्धविघ्नकरी चापि रौद्रा शूर्पणखा तथा 012c
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः 013a
ऊषुः पित्रा सह रता गन्धमादनपर्वते 013c
ततो वैश्रवणं तत्र ददृशुर्नरवाहनम् 014a
पित्रा सार्धं समासीनमृद्ध्या परमया युतम् 014c
जातस्पर्धास्ततस्ते तु तपसे धृतनिश्चयाः 015a
ब्रह्माणं तोषयामासुर्घोरेण तपसा तदा 015c
अतिष्ठदेकपादेन सहस्रं परिवत्सरान् 016a
वायुभक्षो दशग्रीवः पञ्चाग्निः सुसमाहितः 016c
अधःशायी कुम्भकर्णो यताहारो यतव्रतः 017a
विभीषणः शीर्णपर्णमेकमभ्यवहारयत् 017c
उपवासरतिर्धीमान्सदा जप्यपरायणः 018a
तमेव कालमातिष्ठत्तीव्रं तप उदारधीः 018c
खरः शूर्पणखा चैव तेषां वै तप्यतां तपः 019a
परिचर्यां च रक्षां च चक्रतुर्हृष्टमानसौ 019c
पूर्णे वर्षसहस्रे तु शिरश्छित्त्वा दशाननः 020a
जुहोत्यग्नौ दुराधर्षस्तेनातुष्यज्जगत्प्रभुः 020c
ततो ब्रह्मा स्वयं गत्वा तपसस्तान्न्यवारयत् 021a
प्रलोभ्य वरदानेन सर्वानेव पृथक्पृथक् 021c
ब्रह्मोवाच 022
प्रीतोऽस्मि वो निवर्तध्वं वरान्वृणुत पुत्रकाः 022a
यद्यदिष्टमृते त्वेकममरत्वं तथास्तु तत् 022c
यद्यदग्नौ हुतं सर्वं शिरस्ते महदीप्सया 023a
तथैव तानि ते देहे भविष्यन्ति यथेप्सितम् 023c
वैरूप्यं च न ते देहे कामरूपधरस्तथा 024a
भविष्यसि रणेऽरीणां विजेतासि न संशयः 024c
रावण उवाच 025
गन्धर्वदेवासुरतो यक्षराक्षसतस्तथा 025a
सर्पकिन्नरभूतेभ्यो न मे भूयात्पराभवः 025c
ब्रह्मोवाच 026
य एते कीर्तिताः सर्वे न तेभ्योऽस्ति भयं तव 026a
ऋते मनुष्याद्भद्रं ते तथा तद्विहितं मया 026c
मार्कण्डेय उवाच 027
एवमुक्तो दशग्रीवस्तुष्टः समभवत्तदा 027a
अवमेने हि दुर्बुद्धिर्मनुष्यान्पुरुषादकः 027c
कुम्भकर्णमथोवाच तथैव प्रपितामहः 028a
स वव्रे महतीं निद्रां तमसा ग्रस्तचेतनः 028c
तथा भविष्यतीत्युक्त्वा विभीषणमुवाच ह 029a
वरं वृणीष्व पुत्र त्वं प्रीतोऽस्मीति पुनः पुनः 029c
विभीषण उवाच 030
परमापद्गतस्यापि नाधर्मे मे मतिर्भवेत् 030a
अशिक्षितं च भगवन्ब्रह्मास्त्रं प्रतिभातु मे 030c
ब्रह्मोवाच 031
यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्शन 031a
नाधर्मे रमते बुद्धिरमरत्वं ददामि ते 031c
मार्कण्डेय उवाच 032
राक्षसस्तु वरं लब्ध्वा दशग्रीवो विशां पते 032a
लङ्कायाश्च्यावयामास युधि जित्वा धनेश्वरम् 032c
हित्वा स भगवाल्ँलङ्कामाविशद्गन्धमादनम् 033a
गन्धर्वयक्षानुगतो रक्षःकिम्पुरुषैः सह 033c
विमानं पुष्पकं तस्य जहाराक्रम्य रावणः 034a
शशाप तं वैश्रवणो न त्वामेतद्वहिष्यति 034c
यस्तु त्वां समरे हन्ता तमेवैतद्वहिष्यति 035a
अवमन्य गुरुं मां च क्षिप्रं त्वं न भविष्यसि 035c
विभीषणस्तु धर्मात्मा सतां धर्ममनुस्मरन् 036a
अन्वगच्छन्महाराज श्रिया परमया युतः 036c
तस्मै स भगवांस्तुष्टो भ्राता भ्रात्रे धनेश्वरः 037a
सेनापत्यं ददौ धीमान्यक्षराक्षससेनयोः 037c
राक्षसाः पुरुषादाश्च पिशाचाश्च महाबलाः 038a
सर्वे समेत्य राजानमभ्यषिञ्चद्दशाननम् 038c
दशग्रीवस्तु दैत्यानां देवानां च बलोत्कटः 039a
आक्रम्य रत्नान्यहरत्कामरूपी विहङ्गमः 039c
रावयामास लोकान्यत्तस्माद्रावण उच्यते 040a
दशग्रीवः कामबलो देवानां भयमादधत् 040c