मार्कण्डेय उवाच 001
प्राप्तमप्रतिमं दुःखं रामेण भरतर्षभ 001a
रक्षसा जानकी तस्य हृता भार्या बलीयसा 001c
आश्रमाद्राक्षसेन्द्रेण रावणेन विहायसा 002a
मायामास्थाय तरसा हत्वा गृध्रं जटायुषम् 002c
प्रत्याजहार तां रामः सुग्रीवबलमाश्रितः 003a
बद्ध्वा सेतुं समुद्रस्य दग्ध्वा लङ्कां शितैः शरैः 003c
युधिष्ठिर उवाच 004
कस्मिन्रामः कुले जातः किंवीर्यः किम्पराक्रमः 004a
रावणः कस्य वा पुत्रः किं वैरं तस्य तेन ह 004c
एतन्मे भगवन्सर्वं सम्यगाख्यातुमर्हसि 005a
श्रोतुमिच्छामि चरितं रामस्याक्लिष्टकर्मणः 005c
मार्कण्डेय उवाच 006
अजो नामाभवद्राजा महानिक्ष्वाकुवंशजः 006a
तस्य पुत्रो दशरथः शश्वत्स्वाध्यायवाञ्शुचिः 006c
अभवंस्तस्य चत्वारः पुत्रा धर्मार्थकोविदाः 007a
रामलक्ष्मणशत्रुघ्ना भरतश्च महाबलः 007c
रामस्य माता कौसल्या कैकेयी भरतस्य तु 008a
सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायाः परन्तपौ 008c
विदेहराजो जनकः सीता तस्यात्मजा विभो 009a
यां चकार स्वयं त्वष्टा रामस्य महिषीं प्रियाम् 009c
एतद्रामस्य ते जन्म सीतायाश्च प्रकीर्तितम् 010a
रावणस्यापि ते जन्म व्याख्यास्यामि जनेश्वर 010c
पितामहो रावणस्य साक्षाद्देवः प्रजापतिः 011a
स्वयम्भूः सर्वलोकानां प्रभुः स्रष्टा महातपाः 011c
पुलस्त्यो नाम तस्यासीन्मानसो दयितः सुतः 012a
तस्य वैश्रवणो नाम गवि पुत्रोऽभवत्प्रभुः 012c
पितरं स समुत्सृज्य पितामहमुपस्थितः 013a
तस्य कोपात्पिता राजन्ससर्जात्मानमात्मना 013c
स जज्ञे विश्रवा नाम तस्यात्मार्धेन वै द्विजः 014a
प्रतीकाराय सक्रोधस्ततो वैश्रवणस्य वै 014c
पितामहस्तु प्रीतात्मा ददौ वैश्रवणस्य ह 015a
अमरत्वं धनेशत्वं लोकपालत्वमेव च 015c
ईशानेन तथा सख्यं पुत्रं च नलकूबरम् 016a
राजधानीनिवेशं च लङ्कां रक्षोगणान्विताम् 016c