जनमेजय उवाच 001
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् 001a
अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः 001c
वैशम्पायन उवाच 002
एवं कृष्णां मोक्षयित्वा विनिर्जित्य जयद्रथम् 002a
आसां चक्रे मुनिगणैर्धर्मराजो युधिष्ठिरः 002c
तेषां मध्ये महर्षीणां शृण्वतामनुशोचताम् 003a
मार्कण्डेयमिदं वाक्यमब्रवीत्पाण्डुनन्दनः 003c
मन्ये कालश्च बलवान्दैवं च विधिनिर्मितम् 004a
भवितव्यं च भूतानां यस्य नास्ति व्यतिक्रमः 004c
कथं हि पत्नीमस्माकं धर्मज्ञां धर्मचारिणीम् 005a
संस्पृशेदीदृशो भावः शुचिं स्तैन्यमिवानृतम् 005c
न हि पापं कृतं किञ्चित्कर्म वा निन्दितं क्वचित् 006a
द्रौपद्या ब्राह्मणेष्वेव धर्मः सुचरितो महान् 006c
तां जहार बलाद्राजा मूढबुद्धिर्जयद्रथः 007a
तस्याः संहरणात्प्राप्तः शिरसः केशवापनम् 007c
पराजयं च सङ्ग्रामे ससहायः समाप्तवान् 007e
प्रत्याहृता तथास्माभिर्हत्वा तत्सैन्धवं बलम् 008a
तद्दारहरणं प्राप्तमस्माभिरवितर्कितम् 008c
दुःखश्चायं वने वासो मृगयायां च जीविका 009a
हिंसा च मृगजातीनां वनौकोभिर्वनौकसाम् 009c
ज्ञातिभिर्विप्रवासश्च मिथ्या व्यवसितैरयम् 009e
अस्ति नूनं मया कश्चिदल्पभाग्यतरो नरः 010a
भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत् 010c