वैशम्पायन उवाच 001
जयद्रथस्तु सम्प्रेक्ष्य भ्रातरावुद्यतायुधौ 001a
प्राद्रवत्तूर्णमव्यग्रो जीवितेप्सुः सुदुःखितः 001c
तं भीमसेनो धावन्तमवतीर्य रथाद्बली 002a
अभिद्रुत्य निजग्राह केशपक्षेऽत्यमर्षणः 002c
समुद्यम्य च तं रोषान्निष्पिपेष महीतले 003a
गले गृहीत्वा राजानं ताडयामास चैव ह 003c
पुनः सञ्जीवमानस्य तस्योत्पतितुमिच्छतः 004a
पदा मूर्ध्नि महाबाहुः प्राहरद्विलपिष्यतः 004c
तस्य जानुं ददौ भीमो जघ्ने चैनमरत्निना 005a
स मोहमगमद्राजा प्रहारवरपीडितः 005c
विरोषं भीमसेनं तु वारयामास फल्गुनः 006a
दुःशलायाः कृते राजा यत्तदाहेति कौरव 006c
भीमसेन उवाच 007
नायं पापसमाचारो मत्तो जीवितुमर्हति 007a
द्रौपद्यास्तदनर्हायाः परिक्लेष्टा नराधमः 007c
किं नु शक्यं मया कर्तुं यद्राजा सततं घृणी 008a
त्वं च बालिशया बुद्ध्या सदैवास्मान्प्रबाधसे 008c
एवमुक्त्वा सटास्तस्य पञ्च चक्रे वृकोदरः 009a
अर्धचन्द्रेण बाणेन किञ्चिदब्रुवतस्तदा 009c
विकल्पयित्वा राजानं ततः प्राह वृकोदरः 010a
जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु 010c
दासोऽस्मीति त्वया वाच्यं संसत्सु च सभासु च 011a
एवं ते जीवितं दद्यामेष युद्धजितो विधिः 011c
एवमस्त्विति तं राजा कृच्छ्रप्राणो जयद्रथः 012a
प्रोवाच पुरुषव्याघ्रं भीममाहवशोभिनम् 012c
तत एनं विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः 013a
रथमारोपयामास विसञ्ज्ञं पांसुगुण्ठितम् 013c
ततस्तं रथमास्थाय भीमः पार्थानुगस्तदा 014a
अभ्येत्याश्रममध्यस्थमभ्यगच्छद्युधिष्ठिरम् 014c
दर्शयामास भीमस्तु तदवस्थं जयद्रथम् 015a
तं राजा प्राहसद्दृष्ट्वा मुच्यतामिति चाब्रवीत् 015c
राजानं चाब्रवीद्भीमो द्रौपद्यै कथयेति वै 016a
दासभावं गतो ह्येष पाण्डूनां पापचेतनः 016c
तमुवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः 017a
मुञ्चैनमधमाचारं प्रमाणं यदि ते वयम् 017c
द्रौपदी चाब्रवीद्भीममभिप्रेक्ष्य युधिष्ठिरम् 018a
दासोऽयं मुच्यतां राज्ञस्त्वया पञ्चसटः कृतः 018c
स मुक्तोऽभ्येत्य राजानमभिवाद्य युधिष्ठिरम् 019a
ववन्दे विह्वलो राजा तांश्च सर्वान्मुनींस्तदा 019c
तमुवाच घृणी राजा धर्मपुत्रो युधिष्ठिरः 020a
तथा जयद्रथं दृष्ट्वा गृहीतं सव्यसाचिना 020c
अदासो गच्छ मुक्तोऽसि मैवं कार्षीः पुनः क्वचित् 021a
स्त्रीकामुक धिगस्तु त्वां क्षुद्रः क्षुद्रसहायवान् 021c
एवंविधं हि कः कुर्यात्त्वदन्यः पुरुषाधमः 021e
गतसत्त्वमिव ज्ञात्वा कर्तारमशुभस्य तम् 022a
सम्प्रेक्ष्य भरतश्रेष्ठः कृपां चक्रे नराधिपः 022c
धर्मे ते वर्धतां बुद्धिर्मा चाधर्मे मनः कृथाः 023a
साश्वः सरथपादातः स्वस्ति गच्छ जयद्रथ 023c
एवमुक्तस्तु सव्रीडं तूष्णीं किञ्चिदवाङ्मुखः 024a
जगाम राजा दुःखार्तो गङ्गाद्वाराय भारत 024c
स देवं शरणं गत्वा विरूपाक्षमुमापतिम् 025a
तपश्चचार विपुलं तस्य प्रीतो वृषध्वजः 025c
बलिं स्वयं प्रत्यगृह्णात्प्रीयमाणस्त्रिलोचनः 026a
वरं चास्मै ददौ देवः स च जग्राह तच्छृणु 026c
समस्तान्सरथान्पञ्च जयेयं युधि पाण्डवान् 027a
इति राजाब्रवीद्देवं नेति देवस्तमब्रवीत् 027c
अजय्यांश्चाप्यवध्यांश्च वारयिष्यसि तान्युधि 028a
ऋतेऽर्जुनं महाबाहुं देवैरपि दुरासदम् 028c
यमाहुरजितं देवं शङ्खचक्रगदाधरम् 029a
प्रधानः सोऽस्त्रविदुषां तेन कृष्णेन रक्ष्यते 029c
एवमुक्तस्तु नृपतिः स्वमेव भवनं ययौ 030a
पाण्डवाश्च वने तस्मिन्न्यवसन्काम्यके तदा 030c