वैशम्पायन उवाच 001
सन्तिष्ठत प्रहरत तूर्णं विपरिधावत 001a
इति स्म सैन्धवो राजा चोदयामास तान्नृपान् 001c
ततो घोरतरः शब्दो रणे समभवत्तदा 002a
भीमार्जुनयमान्दृष्ट्वा सैन्यानां सयुधिष्ठिरान् 002c
शिबिसिन्धुत्रिगर्तानां विषादश्चाप्यजायत 003a
तान्दृष्ट्वा पुरुषव्याघ्रान्व्याघ्रानिव बलोत्कटान् 003c
हेमचित्रसमुत्सेधां सर्वशैक्यायसीं गदाम् 004a
प्रगृह्याभ्यद्रवद्भीमः सैन्धवं कालचोदितम् 004c
तदन्तरमथावृत्य कोटिकाश्योऽभ्यहारयत् 005a
महता रथवंशेन परिवार्य वृकोदरम् 005c
शक्तितोमरनाराचैर्वीरबाहुप्रचोदितैः 006a
कीर्यमाणोऽपि बहुभिर्न स्म भीमोऽभ्यकम्पत 006c
गजं तु सगजारोहं पदातींश्च चतुर्दश 007a
जघान गदया भीमः सैन्धवध्वजिनीमुखे 007c
पार्थः पञ्चशताञ्शूरान्पार्वतीयान्महारथान् 008a
परीप्समानः सौवीरं जघान ध्वजिनीमुखे 008c
राजा स्वयं सुवीराणां प्रवराणां प्रहारिणाम् 009a
निमेषमात्रेण शतं जघान समरे तदा 009c
ददृशे नकुलस्तत्र रथात्प्रस्कन्द्य खड्गधृक् 010a
शिरांसि पादरक्षाणां बीजवत्प्रवपन्मुहुः 010c
सहदेवस्तु संयाय रथेन गजयोधिनः 011a
पातयामास नाराचैर्द्रुमेभ्य इव बर्हिणः 011c
ततस्त्रिगर्तः सधनुरवतीर्य महारथात् 012a
गदया चतुरो वाहान्राज्ञस्तस्य तदावधीत् 012c
तमभ्याशगतं राजा पदातिं कुन्तिनन्दनः 013a
अर्धचन्द्रेण बाणेन विव्याधोरसि धर्मराट् 013c
स भिन्नहृदयो वीरो वक्त्राच्छोणितमुद्वमन् 014a
पपाताभिमुखः पार्थं छिन्नमूल इव द्रुमः 014c
इन्द्रसेनद्वितीयस्तु रथात्प्रस्कन्द्य धर्मराट् 015a
हताश्वः सहदेवस्य प्रतिपेदे महारथम् 015c
नकुलं त्वभिसन्धाय क्षेमङ्करमहामुखौ 016a
उभावुभयतस्तीक्ष्णैः शरवर्षैरवर्षताम् 016c
तौ शरैरभिवर्षन्तौ जीमूताविव वार्षिकौ 017a
एकैकेन विपाठेन जघ्ने माद्रवतीसुतः 017c
त्रिगर्तराजः सुरथस्तस्याथ रथधूर्गतः 018a
रथमाक्षेपयामास गजेन गजयानवित् 018c
नकुलस्त्वपभीस्तस्माद्रथाच्चर्मासिपाणिमान् 019a
उद्भ्रान्तं स्थानमास्थाय तस्थौ गिरिरिवाचलः 019c
सुरथस्तं गजवरं वधाय नकुलस्य तु 020a
प्रेषयामास सक्रोधमभ्युच्छ्रितकरं ततः 020c
नकुलस्तस्य नागस्य समीपपरिवर्तिनः 021a
सविषाणं भुजं मूले खड्गेन निरकृन्तत 021c
स विनद्य महानादं गजः कङ्कणभूषणः 022a
पतन्नवाक्शिरा भूमौ हस्त्यारोहानपोथयत् 022c
स तत्कर्म महत्कृत्वा शूरो माद्रवतीसुतः 023a
भीमसेनरथं प्राप्य शर्म लेभे महारथः 023c
भीमस्त्वापततो राज्ञः कोटिकाश्यस्य सङ्गरे 024a
सूतस्य नुदतो वाहान्क्षुरेणापाहरच्छिरः 024c
न बुबोध हतं सूतं स राजा बाहुशालिना 025a
तस्याश्वा व्यद्रवन्सङ्ख्ये हतसूतास्ततस्ततः 025c
विमुखं हतसूतं तं भीमः प्रहरतां वरः 026a
जघान तलयुक्तेन प्रासेनाभ्येत्य पाण्डवः 026c
द्वादशानां तु सर्वेषां सौवीराणां धनञ्जयः 027a
चकर्त निषितैर्भल्लैर्धनूंषि च शिरांसि च 027c
शिबीनिक्ष्वाकुमुख्यांश्च त्रिगर्तान्सैन्धवानपि 028a
जघानातिरथः सङ्ख्ये बाणगोचरमागतान् 028c
सादिताः प्रत्यदृश्यन्त बहवः सव्यसाचिना 029a
सपताकाश्च मातङ्गाः सध्वजाश्च महारथाः 029c
प्रच्छाद्य पृथिवीं तस्थुः सर्वमायोधनं प्रति 030a
शरीराण्यशिरस्कानि विदेहानि शिरांसि च 030c
श्वगृध्रकङ्ककाकोलभासगोमायुवायसाः 031a
अतृप्यंस्तत्र वीराणां हतानां मांसशोणितैः 031c
हतेषु तेषु वीरेषु सिन्धुराजो जयद्रथः 032a
विमुच्य कृष्णां सन्त्रस्तः पलायनपरोऽभवत् 032c
स तस्मिन्सङ्कुले सैन्ये द्रौपदीमवतार्य वै 033a
प्राणप्रेप्सुरुपाधावद्वनं येन नराधमः 033c
द्रौपदीं धर्मराजस्तु दृष्ट्वा धौम्यपुरस्कृताम् 034a
माद्रीपुत्रेण वीरेण रथमारोपयत्तदा 034c
ततस्तद्विद्रुतं सैन्यमपयाते जयद्रथे 035a
आदिश्यादिश्य नाराचैराजघान वृकोदरः 035c
सव्यसाची तु तं दृष्ट्वा पलायन्तं जयद्रथम् 036a
वारयामास निघ्नन्तं भीमं सैन्धवसैनिकान् 036c
अर्जुन उवाच 037
यस्यापचारात्प्राप्तोऽयमस्मान्क्लेशो दुरासदः 037a
तमस्मिन्समरोद्देशे न पश्यामि जयद्रथम् 037c
तमेवान्विष भद्रं ते किं ते योधैर्निपातितैः 038a
अनामिषमिदं कर्म कथं वा मन्यते भवान् 038c
वैशम्पायन उवाच 039
इत्युक्तो भीमसेनस्तु गुडाकेशेन धीमता 039a
युधिष्ठिरमभिप्रेक्ष्य वाग्मी वचनमब्रवीत् 039c
हतप्रवीरा रिपवो भूयिष्ठं विद्रुता दिशः 040a
गृहीत्वा द्रौपदीं राजन्निवर्ततु भवानितः 040c
यमाभ्यां सह राजेन्द्र धौम्येन च महात्मना 041a
प्राप्याश्रमपदं राजन्द्रौपदीं परिसान्त्वय 041c
न हि मे मोक्ष्यते जीवन्मूढः सैन्धवको नृपः 042a
पातालतलसंस्थोऽपि यदि शक्रोऽस्य सारथिः 042c
युधिष्ठिर उवाच 043
न हन्तव्यो महाबाहो दुरात्मापि स सैन्धवः 043a
दुःशलामभिसंस्मृत्य गान्धारीं च यशस्विनीम् 043c
वैशम्पायन उवाच 044
तच्छ्रुत्वा द्रौपदी भीममुवाच व्याकुलेन्द्रिया 044a
कुपिता ह्रीमती प्राज्ञा पती भीमार्जुनावुभौ 044c
कर्तव्यं चेत्प्रियं मह्यं वध्यः स पुरुषाधमः 045a
सैन्धवापसदः पापो दुर्मतिः कुलपांसनः 045c
भार्याभिहर्ता निर्वैरो यश्च राज्यहरो रिपुः 046a
याचमानोऽपि सङ्ग्रामे न स जीवितुमर्हति 046c
इत्युक्तौ तौ नरव्याघ्रौ ययतुर्यत्र सैन्धवः 047a
राजा निववृते कृष्णामादाय सपुरोहितः 047c
स प्रविश्याश्रमपदं व्यपविद्धबृसीघटम् 048a
मार्कण्डेयादिभिर्विप्रैरनुकीर्णं ददर्श ह 048c
द्रौपदीमनुशोचद्भिर्ब्राह्मणैस्तैः समागतैः 049a
समियाय महाप्राज्ञः सभार्यो भ्रातृमध्यगः 049c
ते स्म तं मुदिता दृष्ट्वा पुनरभ्यागतं नृपम् 050a
जित्वा तान्सिन्धुसौवीरान्द्रौपदीं चाहृतां पुनः 050c
स तैः परिवृतो राजा तत्रैवोपविवेश ह 051a
प्रविवेशाश्रमं कृष्णा यमाभ्यां सह भामिनी 051c
भीमार्जुनावपि श्रुत्वा क्रोशमात्रगतं रिपुम् 052a
स्वयमश्वांस्तुदन्तौ तौ जवेनैवाभ्यधावताम् 052c
इदमत्यद्भुतं चात्र चकार पुरुषोऽर्जुनः 053a
क्रोशमात्रगतानश्वान्सैन्धवस्य जघान यत् 053c
स हि दिव्यास्त्रसम्पन्नः कृच्छ्रकालेऽप्यसम्भ्रमः 054a
अकरोद्दुष्करं कर्म शरैरस्त्रानुमन्त्रितैः 054c
ततोऽभ्यधावतां वीरावुभौ भीमधनञ्जयौ 055a
हताश्वं सैन्धवं भीतमेकं व्याकुलचेतसम् 055c
सैन्धवस्तु हतान्दृष्ट्वा तथाश्वान्स्वान्सुदुःखितः 056a
दृष्ट्वा विक्रमकर्माणि कुर्वाणं च धनञ्जयम् 056c
पलायनकृतोत्साहः प्राद्रवद्येन वै वनम् 056e
सैन्धवं त्वभिसम्प्रेक्ष्य पराक्रान्तं पलायने 057a
अनुयाय महाबाहुः फल्गुनो वाक्यमब्रवीत् 057c
अनेन वीर्येण कथं स्त्रियं प्रार्थयसे बलात् 058a
राजपुत्र निवर्तस्व न ते युक्तं पलायनम् 058c
कथं चानुचरान्हित्वा शत्रुमध्ये पलायसे 058e
इत्युच्यमानः पार्थेन सैन्धवो न न्यवर्तत 059a
तिष्ठ तिष्ठेति तं भीमः सहसाभ्यद्रवद्बली 059c
मा वधीरिति पार्थस्तं दयावानभ्यभाषत 059e