वैशम्पायन उवाच 001
ततो घोरतरः शब्दो वने समभवत्तदा 001a
भीमसेनार्जुनौ दृष्ट्वा क्षत्रियाणाममर्षिणाम् 001c
तेषां ध्वजाग्राण्यभिवीक्ष्य राजा स्वयं दुरात्मा कुरुपुङ्गवानाम् 002a
जयद्रथो याज्ञसेनीमुवाच रथे स्थितां भानुमतीं हतौजाः 002c
आयान्तीमे पञ्च रथा महान्तो मन्ये च कृष्णे पतयस्तवैते 003a
सा जानती ख्यापय नः सुकेशि परं परं पाण्डवानां रथस्थम् 003c
द्रौपद्युवाच 004
किं ते ज्ञातैर्मूढ महाधनुर्धरैरनायुष्यं कर्म कृत्वातिघोरम् 004a
एते वीराः पतयो मे समेता न वः शेषः कश्चिदिहास्ति युद्धे 004c
आख्यातव्यं त्वेव सर्वं मुमूर्षोर्मया तुभ्यं पृष्टया धर्म एषः 005a
न मे व्यथा विद्यते त्वद्भयं वा सम्पश्यन्त्याः सानुजं धर्मराजम् 005c
यस्य ध्वजाग्रे नदतो मृदङ्गौ नन्दोपनन्दौ मधुरौ युक्तरूपौ 006a
एतं स्वधर्मार्थविनिश्चयज्ञं सदा जनाः कृत्यवन्तोऽनुयान्ति 006c
य एष जाम्बूनदशुद्धगौरः प्रचण्डघोणस्तनुरायताक्षः 007a
एतं कुरुश्रेष्ठतमं वदन्ति युधिष्ठिरं धर्मसुतं पतिं मे 007c
अप्येष शत्रोः शरणागतस्य दद्यात्प्राणान्धर्मचारी नृवीरः 008a
परैह्येनं मूढ जवेन भूतये त्वमात्मनः प्राञ्जलिर्न्यस्तशस्त्रः 008c
अथाप्येनं पश्यसि यं रथस्थं महाभुजं शालमिव प्रवृद्धम् 009a
सन्दष्टोष्ठं भ्रुकुटीसंहतभ्रुवं वृकोदरो नाम पतिर्ममैषः 009c
आजानेया बलिनः साधु दान्ता महाबलाः शूरमुदावहन्ति 010a
एतस्य कर्माण्यतिमानुषाणि भीमेति शब्दोऽस्य गतः पृथिव्याम् 010c
नास्यापराद्धाः शेषमिहाप्नुवन्ति नाप्यस्य वैरं विस्मरते कदाचित् 011a
वैरस्यान्तं संविधायोपयाति पश्चाच्छान्तिं न च गच्छत्यतीव 011c
मृदुर्वदान्यो धृतिमान्यशस्वी जितेन्द्रियो वृद्धसेवी नृवीरः 012a
भ्राता च शिष्यश्च युधिष्ठिरस्य धनञ्जयो नाम पतिर्ममैषः 012c
यो वै न कामान्न भयान्न लोभात्त्यजेद्धर्मं न नृशंसं च कुर्यात् 013a
स एष वैश्वानरतुल्यतेजाः कुन्तीसुतः शत्रुसहः प्रमाथी 013c
यः सर्वधर्मार्थविनिश्चयज्ञो भयार्तानां भयहर्ता मनीषी 014a
यस्योत्तमं रूपमाहुः पृथिव्यां यं पाण्डवाः परिरक्षन्ति सर्वे 014c
प्राणैर्गरीयांसमनुव्रतं वै स एष वीरो नकुलः पतिर्मे 015a
यः खड्गयोधी लघुचित्रहस्तो महांश्च धीमान्सहदेवोऽद्वितीयः 015c
यस्याद्य कर्म द्रक्ष्यसे मूढसत्त्व शतक्रतोर्वा दैत्यसेनासु सङ्ख्ये 016a
शूरः कृतास्त्रो मतिमान्मनीषी प्रियङ्करो धर्मसुतस्य राज्ञः 016c
य एष चन्द्रार्कसमानतेजा जघन्यजः पाण्डवानां प्रियश्च 017a
बुद्ध्या समो यस्य नरो न विद्यते वक्ता तथा सत्सु विनिश्चयज्ञः 017c
स एष शूरो नित्यममर्षणश्च धीमान्प्राज्ञः सहदेवः पतिर्मे 018a
त्यजेत्प्राणान्प्रविशेद्धव्यवाहं न त्वेवैष व्याहरेद्धर्मबाह्यम् 018c
सदा मनस्वी क्षत्रधर्मे निविष्टः कुन्त्याः प्राणैरिष्टतमो नृवीरः 018e
विशीर्यन्तीं नावमिवार्णवान्ते रत्नाभिपूर्णां मकरस्य पृष्ठे 019a
सेनां तवेमां हतसर्वयोधां विक्षोभितां द्रक्ष्यसि पाण्डुपुत्रैः 019c
इत्येते वै कथिताः पाण्डुपुत्रा यांस्त्वं मोहादवमन्य प्रवृत्तः 020a
यद्येतैस्त्वं मुच्यसेऽरिष्टदेहः पुनर्जन्म प्राप्स्यसे जीव एव 020c
वैशम्पायन उवाच 021
ततः पार्थाः पञ्च पञ्चेन्द्रकल्पास्त्यक्त्वा त्रस्तान्प्राञ्जलींस्तान्पदातीन् 021a
रथानीकं शरवर्षान्धकारं चक्रुः क्रुद्धाः सर्वतः सन्निगृह्य 021c