वैशम्पायन उवाच 001
ततो दिशः सम्प्रविहृत्य पार्था मृगान्वराहान्महिषांश्च हत्वा 001a
धनुर्धराः श्रेष्ठतमाः पृथिव्यां पृथक्चरन्तः सहिता बभूवुः 001c
ततो मृगव्यालगणानुकीर्णं महावनं तद्विहगोपघुष्टम् 002a
भ्रातॄंश्च तानभ्यवदद्युधिष्ठिरः श्रुत्वा गिरो व्याहरतां मृगाणाम् 002c
आदित्यदीप्तां दिशमभ्युपेत्य मृगद्विजाः क्रूरमिमे वदन्ति 003a
आयासमुग्रं प्रतिवेदयन्तो महाहवं शत्रुभिर्वावमानम् 003c
क्षिप्रं निवर्तध्वमलं मृगैर्नो मनो हि मे दूयति दह्यते च 004a
बुद्धिं समाच्छाद्य च मे समन्युरुद्धूयते प्राणपतिः शरीरे 004c
सरः सुपर्णेन हृतोरगं यथा राष्ट्रं यथाराजकमात्तलक्ष्मि 005a
एवंविधं मे प्रतिभाति काम्यकं शौण्डैर्यथा पीतरसश्च कुम्भः 005c
ते सैन्धवैरत्यनिलौघवेगैर्महाजवैर्वाजिभिरुह्यमानाः 006a
युक्तैर्बृहद्भिः सुरथैर्नृवीरास्तदाश्रमायाभिमुखा बभूवुः 006c
तेषां तु गोमायुरनल्पघोषो निवर्ततां वाममुपेत्य पार्श्वम् 007a
प्रव्याहरत्तं प्रविमृश्य राजा प्रोवाच भीमं च धनञ्जयं च 007c
यथा वदत्येष विहीनयोनिः शालावृको वाममुपेत्य पार्श्वम् 008a
सुव्यक्तमस्मानवमन्य पापैः कृतोऽभिमर्दः कुरुभिः प्रसह्य 008c
इत्येव ते तद्वनमाविशन्तो महत्यरण्ये मृगयां चरित्वा 009a
बालामपश्यन्त तदा रुदन्तीं धात्रेयिकां प्रेष्यवधूं प्रियायाः 009c
तामिन्द्रसेनस्त्वरितोऽभिसृत्य रथादवप्लुत्य ततोऽभ्यधावत् 010a
प्रोवाच चैनां वचनं नरेन्द्र धात्रेयिकामार्ततरस्तदानीम् 010c
किं रोदिषि त्वं पतिता धरण्यां किं ते मुखं शुष्यति दीनवर्णम् 011a
कच्चिन्न पापैः सुनृशंसकृद्भिः प्रमाथिता द्रौपदी राजपुत्री 011c
अनिन्द्यरूपा सुविशालनेत्रा शरीरतुल्या कुरुपुङ्गवानाम् 011e
यद्येव देवी पृथिवीं प्रविष्टा दिवं प्रपन्नाप्यथ वा समुद्रम् 012a
तस्या गमिष्यन्ति पदं हि पार्थास्तथा हि सन्तप्यति धर्मराजः 012c
को हीदृशानामरिमर्दनानां क्लेशक्षमाणामपराजितानाम् 013a
प्राणैः समामिष्टतमां जिहीर्षेदनुत्तमं रत्नमिव प्रमूढः 013c
न बुध्यते नाथवतीमिहाद्य बहिश्चरं हृदयं पाण्डवानाम् 013e
कस्याद्य कायं प्रतिभिद्य घोरा महीं प्रवेक्ष्यन्ति शिताः शराग्र्याः 014a
मा त्वं शुचस्तां प्रति भीरु विद्धि यथाद्य कृष्णा पुनरेष्यतीति 014c
निहत्य सर्वान्द्विषतः समग्रान्पार्थाः समेष्यन्त्यथ याज्ञसेन्या 014e
अथाब्रवीच्चारुमुखं प्रमृज्य धात्रेयिका सारथिमिन्द्रसेनम् 015a
जयद्रथेनापहृता प्रमथ्य पञ्चेन्द्रकल्पान्परिभूय कृष्णा 015c
तिष्ठन्ति वर्त्मानि नवान्यमूनि वृक्षाश्च न म्लान्ति तथैव भग्नाः 016a
आवर्तयध्वं ह्यनुयात शीघ्रं न दूरयातैव हि राजपुत्री 016c
सन्नह्यध्वं सर्व एवेन्द्रकल्पा महान्ति चारूणि च दंशनानि 017a
गृह्णीत चापानि महाधनानि शरांश्च शीघ्रं पदवीं व्रजध्वम् 017c
पुरा हि निर्भर्त्सनदण्डमोहिता प्रमूढचित्ता वदनेन शुष्यता 018a
ददाति कस्मैचिदनर्हते तनुं वराज्यपूर्णामिव भस्मनि स्रुचम् 018c
पुरा तुषाग्नाविव हूयते हविः पुरा श्मशाने स्रगिवापविध्यते 019a
पुरा च सोमोऽध्वरगोऽवलिह्यते शुना यथा विप्रजने प्रमोहिते 019c
महत्यरण्ये मृगयां चरित्वा पुरा शृगालो नलिनीं विगाहते 019e
मा वः प्रियायाः सुनसं सुलोचनं चन्द्रप्रभाच्छं वदनं प्रसन्नम् 020a
स्पृश्याच्छुभं कश्चिदकृत्यकारी श्वा वै पुरोडाशमिवोपयुङ्क्षीत् 020c
एतानि वर्त्मान्यनुयात शीघ्रं मा वः कालः क्षिप्रमिहात्यगाद्वै 020e
युधिष्ठिर उवाच 021
भद्रे तूष्णीमास्स्व नियच्छ वाचं मास्मत्सकाशे परुषाण्यवोचः 021a
राजानो वा यदि वा राजपुत्रा बलेन मत्ता वञ्चनां प्राप्नुवन्ति 021c
वैशम्पायन उवाच 022
एतावदुक्त्वा प्रययुर्हि शीघ्रं तान्येव वर्त्मान्यनुवर्तमानाः 022a
मुहुर्मुहुर्व्यालवदुच्छ्वसन्तो ज्यां विक्षिपन्तश्च महाधनुर्भ्यः 022c
ततोऽपश्यंस्तस्य सैन्यस्य रेणुमुद्धूतं वै वाजिखुरप्रणुन्नम् 023a
पदातीनां मध्यगतं च धौम्यं विक्रोशन्तं भीममभिद्रवेति 023c
ते सान्त्व्य धौम्यं परिदीनसत्त्वाः सुखं भवानेत्विति राजपुत्राः 024a
श्येना यथैवामिषसम्प्रयुक्ता जवेन तत्सैन्यमथाभ्यधावन् 024c
तेषां महेन्द्रोपमविक्रमाणां संरब्धानां धर्षणाद्याज्ञसेन्याः 025a
क्रोधः प्रजज्वाल जयद्रथं च दृष्ट्वा प्रियां तस्य रथे स्थितां च 025c
प्रचुक्रुशुश्चाप्यथ सिन्धुराजं वृकोदरश्चैव धनञ्जयश्च 026a
यमौ च राजा च महाधनुर्धरास्ततो दिशः सम्मुमुहुः परेषाम् 026c