वैशम्पायन उवाच 001
सरोषरागोपहतेन वल्गुना सरागनेत्रेण नतोन्नतभ्रुवा 001a
मुखेन विस्फूर्य सुवीरराष्ट्रपं ततोऽब्रवीत्तं द्रुपदात्मजा पुनः 001c
यशस्विनस्तीक्ष्णविषान्महारथानधिक्षिपन्मूढ न लज्जसे कथम् 002a
महेन्द्रकल्पान्निरतान्स्वकर्मसु स्थितान्समूहेष्वपि यक्षरक्षसाम् 002c
न किञ्चिदीड्यं प्रवदन्ति पापं वनेचरं वा गृहमेधिनं वा 003a
तपस्विनं सम्परिपूर्णविद्यं भषन्ति हैवं श्वनराः सुवीर 003c
अहं तु मन्ये तव नास्ति कश्चिदेतादृशे क्षत्रियसन्निवेशे 004a
यस्त्वाद्य पातालमुखे पतन्तं पाणौ गृहीत्वा प्रतिसंहरेत 004c
नागं प्रभिन्नं गिरिकूटकल्पमुपत्यकां हैमवतीं चरन्तम् 005a
दण्डीव यूथादपसेधसे त्वं यो जेतुमाशंससि धर्मराजम् 005c
बाल्यात्प्रसुप्तस्य महाबलस्य सिंहस्य पक्ष्माणि मुखाल्लुनासि 006a
पदा समाहत्य पलायमानः क्रुद्धं यदा द्रक्ष्यसि भीमसेनम् 006c
महाबलं घोरतरं प्रवृद्धं जातं हरिं पर्वतकन्दरेषु 007a
प्रसुप्तमुग्रं प्रपदेन हंसि यः क्रुद्धमासेत्स्यसि जिष्णुमुग्रम् 007c
कृष्णोरगौ तीक्ष्णविषौ द्विजिह्वौ मत्तः पदाक्रामसि पुच्छदेशे 008a
यः पाण्डवाभ्यां पुरुषोत्तमाभ्यां जघन्यजाभ्यां प्रयुयुत्ससे त्वम् 008c
यथा च वेणुः कदली नलो वा फलन्त्यभावाय न भूतयेऽऽत्मनः 009a
तथैव मां तैः परिरक्ष्यमाणामादास्यसे कर्कटकीव गर्भम् 009c
जयद्रथ उवाच 010
जानामि कृष्णे विदितं ममैतद्यथाविधास्ते नरदेवपुत्राः 010a
न त्वेवमेतेन विभीषणेन शक्या वयं त्रासयितुं त्वयाद्य 010c
वयं पुनः सप्तदशेषु कृष्णे कुलेषु सर्वेऽनवमेषु जाताः 011a
षड्भ्यो गुणेभ्योऽभ्यधिका विहीनान्मन्यामहे द्रौपदि पाण्डुपुत्रान् 011c
सा क्षिप्रमातिष्ठ गजं रथं वा न वाक्यमात्रेण वयं हि शक्याः 012a
आशंस वा त्वं कृपणं वदन्ती सौवीरराजस्य पुनः प्रसादम् 012c
द्रौपद्युवाच 013
महाबला किं त्विह दुर्बलेव सौवीरराजस्य मताहमस्मि 013a
याहं प्रमाथादिह सम्प्रतीता सौवीरराजं कृपणं वदेयम् 013c
यस्या हि कृष्णौ पदवीं चरेतां समास्थितावेकरथे सहायौ 014a
इन्द्रोऽपि तां नापहरेत्कथञ्चिन्मनुष्यमात्रः कृपणः कुतोऽन्यः 014c
यदा किरीटी परवीरघाती निघ्नन्रथस्थो द्विषतां मनांसि 015a
मदन्तरे त्वद्ध्वजिनीं प्रवेष्टा कक्षं दहन्नग्निरिवोष्णगेषु 015c
जनार्दनस्यानुगा वृष्णिवीरा महेष्वासाः केकयाश्चापि सर्वे 016a
एते हि सर्वे मम राजपुत्राः प्रहृष्टरूपाः पदवीं चरेयुः 016c
मौर्वीविसृष्टाः स्तनयित्नुघोषा गाण्डीवमुक्तास्त्वतिवेगवन्तः 017a
हस्तं समाहत्य धनञ्जयस्य भीमाः शब्दं घोरतरं नदन्ति 017c
गाण्डीवमुक्तांश्च महाशरौघान्पतङ्गसङ्घानिव शीघ्रवेगान् 018a
सशङ्खघोषः सतलत्रघोषो गाण्डीवधन्वा मुहुरुद्वमंश्च 018c
यदा शरानर्पयिता तवोरसि तदा मनस्ते किमिवाभविष्यत् 018e
गदाहस्तं भीममभिद्रवन्तं माद्रीपुत्रौ सम्पतन्तौ दिशश्च 019a
अमर्षजं क्रोधविषं वमन्तौ दृष्ट्वा चिरं तापमुपैष्यसेऽधम 019c
यथा चाहं नातिचरे कथञ्चित्पतीन्महार्हान्मनसापि जातु 020a
तेनाद्य सत्येन वशीकृतं त्वां द्रष्टास्मि पार्थैः परिकृष्यमाणम् 020c
न सम्भ्रमं गन्तुमहं हि शक्ष्ये त्वया नृशंसेन विकृष्यमाणा 021a
समागताहं हि कुरुप्रवीरैः पुनर्वनं काम्यकमागता च 021c
वैशम्पायन उवाच 022
सा ताननुप्रेक्ष्य विशालनेत्रा जिघृक्षमाणानवभर्त्सयन्ती 022a
प्रोवाच मा मा स्पृशतेति भीता धौम्यं प्रचुक्रोश पुरोहितं सा 022c
जग्राह तामुत्तरवस्त्रदेशे जयद्रथस्तं समवाक्षिपत्सा 023a
तया समाक्षिप्ततनुः स पापः पपात शाखीव निकृत्तमूलः 023c
प्रगृह्यमाणा तु महाजवेन मुहुर्विनिःश्वस्य च राजपुत्री 024a
सा कृष्यमाणा रथमारुरोह धौम्यस्य पादावभिवाद्य कृष्णा 024c
धौम्य उवाच 025
नेयं शक्या त्वया नेतुमविजित्य महारथान् 025a
धर्मं क्षत्रस्य पौराणमवेक्षस्व जयद्रथ 025c
क्षुद्रं कृत्वा फलं पापं प्राप्स्यसि त्वमसंशयम् 026a
आसाद्य पाण्डवान्वीरान्धर्मराजपुरोगमान् 026c
वैशम्पायन उवाच 027
इत्युक्त्वा ह्रियमाणां तां राजपुत्रीं यशस्विनीम् 027a
अन्वगच्छत्तदा धौम्यः पदातिगणमध्यगः 027c