वैशम्पायन उवाच 001
अथासीनेषु सर्वेषु तेषु राजसु भारत 001a
कोटिकाश्यवचः श्रुत्वा शैब्यं सौवीरकोऽब्रवीत् 001c
यदा वाचं व्याहरन्त्यामस्यां मे रमते मनः 002a
सीमन्तिनीनां मुख्यायां विनिवृत्तः कथं भवान् 002c
एतां दृष्ट्वा स्त्रियो मेऽन्या यथा शाखामृगस्त्रियः 003a
प्रतिभान्ति महाबाहो सत्यमेतद्ब्रवीमि ते 003c
दर्शनादेव हि मनस्तया मेऽपहृतं भृशम् 004a
तां समाचक्ष्व कल्याणीं यदि स्याच्छैब्य मानुषी 004c
कोटिकाश्य उवाच 005
एषा वै द्रौपदी कृष्णा राजपुत्री यशस्विनी 005a
पञ्चानां पाण्डुपुत्राणां महिषी सम्मता भृशम् 005c
सर्वेषां चैव पार्थानां प्रिया बहुमता सती 006a
तया समेत्य सौवीर सुवीरान्सुसुखी व्रज 006c
वैशम्पायन उवाच 007
एवमुक्तः प्रत्युवाच पश्यामो द्रौपदीमिति 007a
पतिः सौवीरसिन्धूनां दुष्टभावो जयद्रथः 007c
स प्रविश्याश्रमं शून्यं सिंहगोष्ठं वृको यथा 008a
आत्मना सप्तमः कृष्णामिदं वचनमब्रवीत् 008c
कुशलं ते वरारोहे भर्तारस्तेऽप्यनामयाः 009a
येषां कुशलकामासि तेऽपि कच्चिदनामयाः 009c
द्रौपद्युवाच 010
कौरव्यः कुशली राजा कुन्तीपुत्रो युधिष्ठिरः 010a
अहं च भ्रातरश्चास्य यांश्चान्यान्परिपृच्छसि 010c
पाद्यं प्रतिगृहाणेदमासनं च नृपात्मज 011a
मृगान्पञ्चाशतं चैव प्रातराशं ददानि ते 011c
ऐणेयान्पृषतान्न्यङ्कून्हरिणाञ्शरभाञ्शशान् 012a
ऋश्यान्रुरूञ्शम्बरांश्च गवयांश्च मृगान्बहून् 012c
वराहान्महिषांश्चैव याश्चान्या मृगजातयः 013a
प्रदास्यति स्वयं तुभ्यं कुन्तीपुत्रो युधिष्ठिरः 013c
जयद्रथ उवाच 014
कुशलं प्रातराशस्य सर्वा मेऽपचितिः कृता 014a
एहि मे रथमारोह सुखमाप्नुहि केवलम् 014c
गतश्रीकांश्च्युतान्राज्यात्कृपणान्गतचेतसः 015a
अरण्यवासिनः पार्थान्नानुरोद्धुं त्वमर्हसि 015c
न वै प्राज्ञा गतश्रीकं भर्तारमुपयुञ्जते 016a
युञ्जानमनुयुञ्जीत न श्रियः सङ्क्षये वसेत् 016c
श्रिया विहीना राज्याच्च विनष्टाः शाश्वतीः समाः 017a
अलं ते पाण्डुपुत्राणां भक्त्या क्लेशमुपासितुम् 017c
भार्या मे भव सुश्रोणि त्यजैनान्सुखमाप्नुहि 018a
अखिलान्सिन्धुसौवीरानवाप्नुहि मया सह 018c
वैशम्पायन उवाच 019
इत्युक्ता सिन्धुराजेन वाक्यं हृदयकम्पनम् 019a
कृष्णा तस्मादपाक्रामद्देशात्सभ्रुकुटीमुखी 019c
अवमत्यास्य तद्वाक्यमाक्षिप्य च सुमध्यमा 020a
मैवमित्यब्रवीत्कृष्णा लज्जस्वेति च सैन्धवम् 020c
सा काङ्क्षमाणा भर्तॄणामुपयानमनिन्दिता 021a
विलोभयामास परं वाक्यैर्वाक्यानि युञ्जती 021c