वैशम्पायन उवाच 001
अथाब्रवीद्द्रौपदी राजपुत्री पृष्टा शिबीनां प्रवरेण तेन 001a
अवेक्ष्य मन्दं प्रविमुच्य शाखां सङ्गृह्णती कौशिकमुत्तरीयम् 001c
बुद्ध्याभिजानामि नरेन्द्रपुत्र न मादृशी त्वामभिभाष्टुमर्हा 002a
न त्वेह वक्तास्ति तवेह वाक्यमन्यो नरो वाप्यथ वापि नारी 002c
एका ह्यहं सम्प्रति तेन वाचं ददानि वै भद्र निबोध चेदम् 003a
अहं ह्यरण्ये कथमेकमेका त्वामालपेयं निरता स्वधर्मे 003c
जानामि च त्वां सुरथस्य पुत्रं यं कोटिकाश्येति विदुर्मनुष्याः 004a
तस्मादहं शैब्य तथैव तुभ्यमाख्यामि बन्धून्प्रति तन्निबोध 004c
अपत्यमस्मि द्रुपदस्य राज्ञः कृष्णेति मां शैब्य विदुर्मनुष्याः 005a
साहं वृणे पञ्च जनान्पतित्वे ये खाण्डवप्रस्थगताः श्रुतास्ते 005c
युधिष्ठिरो भीमसेनार्जुनौ च माद्र्याश्च पुत्रौ पुरुषप्रवीरौ 006a
ते मां निवेश्येह दिशश्चतस्रो विभज्य पार्था मृगयां प्रयाताः 006c
प्राचीं राजा दक्षिणां भीमसेनो जयः प्रतीचीं यमजावुदीचीम् 007a
मन्ये तु तेषां रथसत्तमानां कालोऽभितः प्राप्त इहोपयातुम् 007c
सम्मानिता यास्यथ तैर्यथेष्टं विमुच्य वाहानवगाहयध्वम् 008a
प्रियातिथिर्धर्मसुतो महात्मा प्रीतो भविष्यत्यभिवीक्ष्य युष्मान् 008c
एतावदुक्त्वा द्रुपदात्मजा सा शैब्यात्मजं चन्द्रमुखी प्रतीता 009a
विवेश तां पर्णकुटीं प्रशस्तां सञ्चिन्त्य तेषामतिथिस्वधर्मम् 009c