कोटिकाश्य उवाच 001
का त्वं कदम्बस्य विनम्य शाखामेकाश्रमे तिष्ठसि शोभमाना 001a
देदीप्यमानाग्निशिखेव नक्तं दोधूयमाना पवनेन सुभ्रूः 001c
अतीव रूपेण समन्विता त्वं न चाप्यरण्येषु बिभेषि किं नु 002a
देवी नु यक्षी यदि दानवी वा वराप्सरा दैत्यवराङ्गना वा 002c
वपुष्मती वोरगराजकन्या वनेचरी वा क्षणदाचरस्त्री 003a
यद्येव राज्ञो वरुणस्य पत्नी यमस्य सोमस्य धनेश्वरस्य 003c
धातुर्विधातुः सवितुर्विभोर्वा शक्रस्य वा त्वं सदनात्प्रपन्ना 004a
न ह्येव नः पृच्छसि ये वयं स्म न चापि जानीम तवेह नाथम् 004c
वयं हि मानं तव वर्धयन्तः पृच्छाम भद्रे प्रभवं प्रभुं च 005a
आचक्ष्व बन्धूंश्च पतिं कुलं च तत्त्वेन यच्चेह करोषि कार्यम् 005c
अहं तु राज्ञः सुरथस्य पुत्रो यं कोटिकाश्येति विदुर्मनुष्याः 006a
असौ तु यस्तिष्ठति काञ्चनाङ्गे रथे हुतोऽग्निश्चयने यथैव 006c
त्रिगर्तराजः कमलायताक्षि क्षेमङ्करो नाम स एष वीरः 006e
अस्मात्परस्त्वेष महाधनुष्मान्पुत्रः कुणिन्दाधिपतेर्वरिष्ठः 007a
निरीक्षते त्वां विपुलायतांसः सुविस्मितः पर्वतवासनित्यः 007c
असौ तु यः पुष्करिणीसमीपे श्यामो युवा तिष्ठति दर्शनीयः 008a
इक्ष्वाकुराज्ञः सुबलस्य पुत्रः स एष हन्ता द्विषतां सुगात्रि 008c
यस्यानुयात्रं ध्वजिनः प्रयान्ति सौवीरका द्वादश राजपुत्राः 009a
शोणाश्वयुक्तेषु रथेषु सर्वे मखेषु दीप्ता इव हव्यवाहाः 009c
अङ्गारकः कुञ्जरगुप्तकश्च शत्रुञ्जयः सञ्जयसुप्रवृद्धौ 010a
प्रभङ्करोऽथ भ्रमरो रविश्च शूरः प्रतापः कुहरश्च नाम 010c
यं षट्सहस्रा रथिनोऽनुयान्ति नागा हयाश्चैव पदातिनश्च 011a
जयद्रथो नाम यदि श्रुतस्ते सौवीरराजः सुभगे स एषः 011c
तस्यापरे भ्रातरोऽदीनसत्त्वा बलाहकानीकविदारणाध्याः 012a
सौवीरवीराः प्रवरा युवानो राजानमेते बलिनोऽनुयान्ति 012c
एतैः सहायैरुपयाति राजा मरुद्गणैरिन्द्र इवाभिगुप्तः 013a
अजानतां ख्यापय नः सुकेशि कस्यासि भार्या दुहिता च कस्य 013c