वैशम्पायन उवाच 001
तस्मिन्बहुमृगेऽरण्ये रममाणा महारथाः 001a
काम्यके भरतश्रेष्ठा विजह्रुस्ते यथामराः 001c
प्रेक्षमाणा बहुविधान्वनोद्देशान्समन्ततः 002a
यथर्तुकालरम्याश्च वनराजीः सुपुष्पिताः 002c
पाण्डवा मृगयाशीलाश्चरन्तस्तन्महावनम् 003a
विजह्रुरिन्द्रप्रतिमाः कञ्चित्कालमरिन्दमाः 003c
ततस्ते यौगपद्येन ययुः सर्वे चतुर्दिशम् 004a
मृगयां पुरुषव्याघ्रा ब्राह्मणार्थे परन्तपाः 004c
द्रौपदीमाश्रमे न्यस्य तृणबिन्दोरनुज्ञया 005a
महर्षेर्दीप्ततपसो धौम्यस्य च पुरोधसः 005c
ततस्तु राजा सिन्धूनां वार्द्धक्षत्रिर्महायशाः 006a
विवाहकामः शाल्वेयान्प्रयातः सोऽभवत्तदा 006c
महता परिबर्हेण राजयोग्येन संवृतः 007a
राजभिर्बहुभिः सार्धमुपायात्काम्यकं च सः 007c
तत्रापश्यत्प्रियां भार्यां पाण्डवानां यशस्विनीम् 008a
तिष्ठन्तीमाश्रमद्वारि द्रौपदीं निर्जने वने 008c
विभ्राजमानां वपुषा बिभ्रतीं रूपमुत्तमम् 009a
भ्राजयन्तीं वनोद्देशं नीलाभ्रमिव विद्युतम् 009c
अप्सरा देवकन्या वा माया वा देवनिर्मिता 010a
इति कृत्वाञ्जलिं सर्वे ददृशुस्तामनिन्दिताम् 010c
ततः स राजा सिन्धूनां वार्द्धक्षत्रिर्जयद्रथः 011a
विस्मितस्तामनिन्द्याङ्गीं दृष्ट्वासीद्धृष्टमानसः 011c
स कोटिकाश्यं राजानमब्रवीत्काममोहितः 012a
कस्य त्वेषानवद्याङ्गी यदि वापि न मानुषी 012c
विवाहार्थो न मे कश्चिदिमां दृष्ट्वातिसुन्दरीम् 013a
एतामेवाहमादाय गमिष्यामि स्वमालयम् 013c
गच्छ जानीहि सौम्यैनां कस्य का च कुतोऽपि वा 014a
किमर्थमागता सुभ्रूरिदं कण्टकितं वनम् 014c
अपि नाम वरारोहा मामेषा लोकसुन्दरी 015a
भजेदद्यायतापाङ्गी सुदती तनुमध्यमा 015c
अप्यहं कृतकामः स्यामिमां प्राप्य वरस्त्रियम् 016a
गच्छ जानीहि को न्वस्या नाथ इत्येव कोटिक 016c
स कोटिकाश्यस्तच्छ्रुत्वा रथात्प्रस्कन्द्य कुण्डली 017a
उपेत्य पप्रच्छ तदा क्रोष्टा व्याघ्रवधूमिव 017c