देवदूत उवाच 001
महर्षेऽकार्यबुद्धिस्त्वं यः स्वर्गसुखमुत्तमम् 001a
सम्प्राप्तं बहु मन्तव्यं विमृशस्यबुधो यथा 001c
उपरिष्टादसौ लोको योऽयं स्वरिति सञ्ज्ञितः 002a
ऊर्ध्वगः सत्पथः शश्वद्देवयानचरो मुने 002c
नातप्ततपसः पुंसो नामहायज्ञयाजिनः 003a
नानृता नास्तिकाश्चैव तत्र गच्छन्ति मुद्गल 003c
धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्सराः 004a
दानधर्मरताः पुंसः शूराश्चाहतलक्षणाः 004c
तत्र गच्छन्ति कर्माग्र्यं कृत्वा शमदमात्मकम् 005a
लोकान्पुण्यकृतां ब्रह्मन्सद्भिरासेवितान्नृभिः 005c
देवाः साध्यास्तथा विश्वे मरुतश्च महर्षिभिः 006a
यामा धामाश्च मौद्गल्य गन्धर्वाप्सरसस्तथा 006c
एषां देवनिकायानां पृथक्पृथगनेकशः 007a
भास्वन्तः कामसम्पन्ना लोकास्तेजोमयाः शुभाः 007c
त्रयस्त्रिंशत्सहस्राणि योजनानां हिरण्मयः 008a
मेरुः पर्वतराड्यत्र देवोद्यानानि मुद्गल 008c
नन्दनादीनि पुण्यानि विहाराः पुण्यकर्मणाम् 009a
न क्षुत्पिपासे न ग्लानिर्न शीतोष्णभयं तथा 009c
बीभत्समशुभं वापि रोगा वा तत्र केचन 010a
मनोज्ञाः सर्वतो गन्धाः सुखस्पर्शाश्च सर्वशः 010c
शब्दाः श्रुतिमनोग्राह्याः सर्वतस्तत्र वै मुने 011a
न शोको न जरा तत्र नायासपरिदेवने 011c
ईदृशः स मुने लोकः स्वकर्मफलहेतुकः 012a
सुकृतैस्तत्र पुरुषाः सम्भवन्त्यात्मकर्मभिः 012c
तैजसानि शरीराणि भवन्त्यत्रोपपद्यताम् 013a
कर्मजान्येव मौद्गल्य न मातृपितृजान्युत 013c
न च स्वेदो न दौर्गन्ध्यं पुरीषं मूत्रमेव च 014a
तेषां न च रजो वस्त्रं बाधते तत्र वै मुने 014c
न म्लायन्ति स्रजस्तेषां दिव्यगन्धा मनोरमाः 015a
पर्युह्यन्ते विमानैश्च ब्रह्मन्नेवंविधाश्च ते 015c
ईर्ष्याशोकक्लमापेता मोहमात्सर्यवर्जिताः 016a
सुखं स्वर्गजितस्तत्र वर्तयन्ति महामुने 016c
तेषां तथाविधानां तु लोकानां मुनिपुङ्गव 017a
उपर्युपरि शक्रस्य लोका दिव्यगुणान्विताः 017c
पुरस्ताद्ब्रह्मणस्तत्र लोकास्तेजोमयाः शुभाः 018a
यत्र यान्त्यृषयो ब्रह्मन्पूताः स्वैः कर्मभिः शुभैः 018c
ऋभवो नाम तत्रान्ये देवानामपि देवताः 019a
तेषां लोकाः परतरे तान्यजन्तीह देवताः 019c
स्वयम्प्रभास्ते भास्वन्तो लोकाः कामदुघाः परे 020a
न तेषां स्त्रीकृतस्तापो न लोकैश्वर्यमत्सरः 020c
न वर्तयन्त्याहुतिभिस्ते नाप्यमृतभोजनाः 021a
तथा दिव्यशरीरास्ते न च विग्रहमूर्तयः 021c
न सुखे सुखकामाश्च देवदेवाः सनातनाः 022a
न कल्पपरिवर्तेषु परिवर्तन्ति ते तथा 022c
जरा मृत्युः कुतस्तेषां हर्षः प्रीतिः सुखं न च 023a
न दुःखं न सुखं चापि रागद्वेषौ कुतो मुने 023c
देवानामपि मौद्गल्य काङ्क्षिता सा गतिः परा 024a
दुष्प्रापा परमा सिद्धिरगम्या कामगोचरैः 024c
त्रयस्त्रिंशदिमे लोकाः शेषा लोका मनीषिभिः 025a
गम्यन्ते नियमैः श्रेष्ठैर्दानैर्वा विधिपूर्वकैः 025c
सेयं दानकृता व्युष्टिरत्र प्राप्ता सुखावहा 026a
तां भुङ्क्ष्व सुकृतैर्लब्धां तपसा द्योतितप्रभः 026c
एतत्स्वर्गसुखं विप्र लोका नानाविधास्तथा 027a
गुणाः स्वर्गस्य प्रोक्तास्ते दोषानपि निबोध मे 027c
कृतस्य कर्मणस्तत्र भुज्यते यत्फलं दिवि 028a
न चान्यत्क्रियते कर्म मूलच्छेदेन भुज्यते 028c
सोऽत्र दोषो मम मतस्तस्यान्ते पतनं च यत् 029a
सुखव्याप्तमनस्कानां पतनं यच्च मुद्गल 029c
असन्तोषः परीतापो दृष्ट्वा दीप्ततराः श्रियः 030a
यद्भवत्यवरे स्थाने स्थितानां तच्च दुष्करम् 030c
सञ्ज्ञामोहश्च पततां रजसा च प्रधर्षणम् 031a
प्रम्लानेषु च माल्येषु ततः पिपतिषोर्भयम् 031c
आ ब्रह्मभवनादेते दोषा मौद्गल्य दारुणाः 032a
नाकलोके सुकृतिनां गुणास्त्वयुतशो नृणाम् 032c
अयं त्वन्यो गुणः श्रेष्ठश्च्युतानां स्वर्गतो मुने 033a
शुभानुशययोगेन मनुष्येषूपजायते 033c
तत्रापि सुमहाभागः सुखभागभिजायते 034a
न चेत्सम्बुध्यते तत्र गच्छत्यधमतां ततः 034c
इह यत्क्रियते कर्म तत्परत्रोपभुज्यते 035a
कर्मभूमिरियं ब्रह्मन्फलभूमिरसौ मता 035c
एतत्ते सर्वमाख्यातं यन्मां पृच्छसि मुद्गल 036a
तवानुकम्पया साधो साधु गच्छाम माचिरम् 036c
व्यास उवाच 037
एतच्छ्रुत्वा तु मौद्गल्यो वाक्यं विममृशे धिया 037a
विमृश्य च मुनिश्रेष्ठो देवदूतमुवाच ह 037c
देवदूत नमस्तेऽस्तु गच्छ तात यथासुखम् 038a
महादोषेण मे कार्यं न स्वर्गेण सुखेन वा 038c
पतनं तन्महद्दुःखं परितापः सुदारुणः 039a
स्वर्गभाजश्च्यवन्तीह तस्मात्स्वर्गं न कामये 039c
यत्र गत्वा न शोचन्ति न व्यथन्ति चलन्ति वा 040a
तदहं स्थानमत्यन्तं मार्गयिष्यामि केवलम् 040c
इत्युक्त्वा स मुनिर्वाक्यं देवदूतं विसृज्य तम् 041a
शिलोञ्छवृत्तिमुत्सृज्य शममातिष्ठदुत्तमम् 041c
तुल्यनिन्दास्तुतिर्भूत्वा समलोष्टाश्मकाञ्चनः 042a
ज्ञानयोगेन शुद्धेन ध्याननित्यो बभूव ह 042c
ध्यानयोगाद्बलं लब्ध्वा प्राप्य चर्द्धिमनुत्तमाम् 043a
जगाम शाश्वतीं सिद्धिं परां निर्वाणलक्षणाम् 043c
तस्मात्त्वमपि कौन्तेय न शोकं कर्तुमर्हसि 044a
राज्यात्स्फीतात्परिभ्रष्टस्तपसा तदवाप्स्यसि 044c
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् 045a
पर्यायेणोपवर्तन्ते नरं नेमिमरा इव 045c
पितृपैतामहं राज्यं प्राप्स्यस्यमितविक्रम 046a
वर्षात्त्रयोदशादूर्ध्वं व्येतु ते मानसो ज्वरः 046c
वैशम्पायन उवाच 047
एवमुक्त्वा स भगवान्व्यासः पाण्डवनन्दनम् 047a
जगाम तपसे धीमान्पुनरेवाश्रमं प्रति 047c