युधिष्ठिर उवाच 001
व्रीहिद्रोणः परित्यक्तः कथं तेन महात्मना 001a
कस्मै दत्तश्च भगवन्विधिना केन चात्थ मे 001c
प्रत्यक्षधर्मा भगवान्यस्य तुष्टो हि कर्मभिः 002a
सफलं तस्य जन्माहं मन्ये सद्धर्मचारिणः 002c
व्यास उवाच 003
शिलोञ्छवृत्तिर्धर्मात्मा मुद्गलः संशितव्रतः 003a
आसीद्राजन्कुरुक्षेत्रे सत्यवागनसूयकः 003c
अतिथिव्रती क्रियावांश्च कापोतीं वृत्तिमास्थितः 004a
सत्रमिष्टीकृतं नाम समुपास्ते महातपाः 004c
सपुत्रदारो हि मुनिः पक्षाहारो बभूव सः 005a
कपोतवृत्त्या पक्षेण व्रीहिद्रोणमुपार्जयत् 005c
दर्शं च पौर्णमासं च कुर्वन्विगतमत्सरः 006a
देवतातिथिशेषेण कुरुते देहयापनम् 006c
तस्येन्द्रः सहितो देवैः साक्षात्त्रिभुवनेश्वरः 007a
प्रत्यगृह्णान्महाराज भागं पर्वणि पर्वणि 007c
स पर्वकालं कृत्वा तु मुनिवृत्त्या समन्वितः 008a
अतिथिभ्यो ददावन्नं प्रहृष्टेनान्तरात्मना 008c
व्रीहिद्रोणस्य तदहो ददतोऽन्नं महात्मनः 009a
शिष्टं मात्सर्यहीनस्य वर्धत्यतिथिदर्शनात् 009c
तच्छतान्यपि भुञ्जन्ति ब्राह्मणानां मनीषिणाम् 010a
मुनेस्त्यागविशुद्ध्या तु तदन्नं वृद्धिमृच्छति 010c
तं तु शुश्राव धर्मिष्ठं मुद्गलं संशितव्रतम् 011a
दुर्वासा नृप दिग्वासास्तमथाभ्याजगाम ह 011c
बिभ्रच्चानियतं वेषमुन्मत्त इव पाण्डव 012a
विकचः परुषा वाचो व्याहरन्विविधा मुनिः 012c
अभिगम्याथ तं विप्रमुवाच मुनिसत्तमः 013a
अन्नार्थिनमनुप्राप्तं विद्धि मां मुनिसत्तम 013c
स्वागतं तेऽस्त्विति मुनिं मुद्गलः प्रत्यभाषत 014a
पाद्यमाचमनीयं च प्रतिवेद्यान्नमुत्तमम् 014c
प्रादात्स तपसोपात्तं क्षुधितायातिथिव्रती 015a
उन्मत्ताय परां श्रद्धामास्थाय स धृतव्रतः 015c
ततस्तदन्नं रसवत्स एव क्षुधयान्वितः 016a
बुभुजे कृत्स्नमुन्मत्तः प्रादात्तस्मै च मुद्गलः 016c
भुक्त्वा चान्नं ततः सर्वमुच्छिष्टेनात्मनस्ततः 017a
अथानुलिलिपेऽङ्गानि जगाम च यथागतम् 017c
एवं द्वितीये सम्प्राप्ते पर्वकाले मनीषिणः 018a
आगम्य बुभुजे सर्वमन्नमुञ्छोपजीविनः 018c
निराहारस्तु स मुनिरुञ्छमार्जयते पुनः 019a
न चैनं विक्रियां नेतुमशकन्मुद्गलं क्षुधा 019c
न क्रोधो न च मात्सर्यं नावमानो न सम्भ्रमः 020a
सपुत्रदारमुञ्छन्तमाविवेश द्विजोत्तमम् 020c
तथा तमुञ्छधर्माणं दुर्वासा मुनिसत्तमम् 021a
उपतस्थे यथाकालं षट्कृत्वः कृतनिश्चयः 021c
न चास्य मानसं किञ्चिद्विकारं ददृशे मुनिः 022a
शुद्धसत्त्वस्य शुद्धं स ददृशे निर्मलं मनः 022c
तमुवाच ततः प्रीतः स मुनिर्मुद्गलं तदा 023a
त्वत्समो नास्ति लोकेऽस्मिन्दाता मात्सर्यवर्जितः 023c
क्षुद्धर्मसञ्ज्ञां प्रणुदत्यादत्ते धैर्यमेव च 024a
विषयानुसारिणी जिह्वा कर्षत्येव रसान्प्रति 024c
आहारप्रभवाः प्राणा मनो दुर्निग्रहं चलम् 025a
मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं निश्चितं तपः 025c
श्रमेणोपार्जितं त्यक्तुं दुःखं शुद्धेन चेतसा 026a
तत्सर्वं भवता साधो यथावदुपपादितम् 026c
प्रीताः स्मोऽनुगृहीताश्च समेत्य भवता सह 027a
इन्द्रियाभिजयो धैर्यं संविभागो दमः शमः 027c
दया सत्यं च धर्मश्च त्वयि सर्वं प्रतिष्ठितम् 028a
जितास्ते कर्मभिर्लोकाः प्राप्तोऽसि परमां गतिम् 028c
अहो दानं विघुष्टं ते सुमहत्स्वर्गवासिभिः 029a
सशरीरो भवान्गन्ता स्वर्गं सुचरितव्रत 029c
इत्येवं वदतस्तस्य तदा दुर्वाससो मुनेः 030a
देवदूतो विमानेन मुद्गलं प्रत्युपस्थितः 030c
हंससारसयुक्तेन किङ्किणीजालमालिना 031a
कामगेन विचित्रेण दिव्यगन्धवता तथा 031c
उवाच चैनं विप्रर्षिं विमानं कर्मभिर्जितम् 032a
समुपारोह संसिद्धिं प्राप्तोऽसि परमां मुने 032c
तमेवंवादिनमृषिर्देवदूतमुवाच ह 033a
इच्छामि भवता प्रोक्तान्गुणान्स्वर्गनिवासिनाम् 033c
के गुणास्तत्र वसतां किं तपः कश्च निश्चयः 034a
स्वर्गे स्वर्गसुखं किं च दोषो वा देवदूतक 034c
सतां सप्तपदं मित्रमाहुः सन्तः कुलोचिताः 035a
मित्रतां च पुरस्कृत्य पृच्छामि त्वामहं विभो 035c
यदत्र तथ्यं पथ्यं च तद्ब्रवीह्यविचारयन् 036a
श्रुत्वा तथा करिष्यामि व्यवसायं गिरा तव 036c