वैशम्पायन उवाच 001
वने निवसतां तेषां पाण्डवानां महात्मनाम् 001a
वर्षाण्येकादशातीयुः कृच्छ्रेण भरतर्षभ 001c
फलमूलाशनास्ते हि सुखार्हा दुःखमुत्तमम् 002a
प्राप्तकालमनुध्यान्तः सेहुरुत्तमपूरुषाः 002c
युधिष्ठिरस्तु राजर्षिरात्मकर्मापराधजम् 003a
चिन्तयन्स महाबाहुर्भ्रातॄणां दुःखमुत्तमम् 003c
न सुष्वाप सुखं राजा हृदि शल्यैरिवार्पितैः 004a
दौरात्म्यमनुपश्यंस्तत्काले द्यूतोद्भवस्य हि 004c
संस्मरन्परुषा वाचः सूतपुत्रस्य पाण्डवः 005a
निःश्वासपरमो दीनो बिभ्रत्कोपविषं महत् 005c
अर्जुनो यमजौ चोभौ द्रौपदी च यशस्विनी 006a
स च भीमो महातेजाः सर्वेषामुत्तमो बली 006c
युधिष्ठिरमुदीक्षन्तः सेहुर्दुःखमनुत्तमम् 006e
अवशिष्टमल्पकालं मन्वानाः पुरुषर्षभाः 007a
वपुरन्यदिवाकार्षुरुत्साहामर्षचेष्टितैः 007c
कस्यचित्त्वथ कालस्य व्यासः सत्यवतीसुतः 008a
आजगाम महायोगी पाण्डवानवलोककः 008c
तमागतमभिप्रेक्ष्य कुन्तीपुत्रो युधिष्ठिरः 009a
प्रत्युद्गम्य महात्मानं प्रत्यगृह्णाद्यथाविधि 009c
तमासीनमुपासीनः शुश्रूषुर्नियतेन्द्रियः 010a
तोषयन्प्रणिपातेन व्यासं पाण्डवनन्दनः 010c
तानवेक्ष्य कृशान्पौत्रान्वने वन्येन जीवतः 011a
महर्षिरनुकम्पार्थमब्रवीद्बाष्पगद्गदम् 011c
युधिष्ठिर महाबाहो शृणु धर्मभृतां वर 012a
नातप्ततपसः पुत्र प्राप्नुवन्ति महत्सुखम् 012c
सुखदुःखे हि पुरुषः पर्यायेणोपसेवते 013a
नात्यन्तमसुखं कश्चित्प्राप्नोति पुरुषर्षभ 013c
प्रज्ञावांस्त्वेव पुरुषः संयुक्तः परया धिया 014a
उदयास्तमयज्ञो हि न शोचति न हृष्यति 014c
सुखमापतितं सेवेद्दुःखमापतितं सहेत् 015a
कालप्राप्तमुपासीत सस्यानामिव कर्षकः 015c
तपसो हि परं नास्ति तपसा विन्दते महत् 016a
नासाध्यं तपसः किञ्चिदिति बुध्यस्व भारत 016c
सत्यमार्जवमक्रोधः संविभागो दमः शमः 017a
अनसूयाविहिंसा च शौचमिन्द्रियसंयमः 017c
साधनानि महाराज नराणां पुण्यकर्मणाम् 017e
अधर्मरुचयो मूढास्तिर्यग्गतिपरायणाः 018a
कृच्छ्रां योनिमनुप्राप्य न सुखं विन्दते जनाः 018c
इह यत्क्रियते कर्म तत्परत्रोपभुज्यते 019a
तस्माच्छरीरं युञ्जीत तपसा नियमेन च 019c
यथाशक्ति प्रयच्छेच्च सम्पूज्याभिप्रणम्य च 020a
काले पात्रे च हृष्टात्मा राजन्विगतमत्सरः 020c
सत्यवादी लभेतायुरनायासमथार्जवी 021a
अक्रोधनोऽनसूयश्च निर्वृतिं लभते पराम् 021c
दान्तः शमपरः शश्वत्परिक्लेशं न विन्दति 022a
न च तप्यति दान्तात्मा दृष्ट्वा परगतां श्रियम् 022c
संविभक्ता च दाता च भोगवान्सुखवान्नरः 023a
भवत्यहिंसकश्चैव परमारोग्यमश्नुते 023c
मान्यान्मानयिता जन्म कुले महति विन्दति 024a
व्यसनैर्न तु संयोगं प्राप्नोति विजितेन्द्रियः 024c
शुभानुशयबुद्धिर्हि संयुक्तः कालधर्मणा 025a
प्रादुर्भवति तद्योगात्कल्याणमतिरेव सः 025c
युधिष्ठिर उवाच 026
भगवन्दानधर्माणां तपसो वा महामुने 026a
किं स्विद्बहुगुणं प्रेत्य किं वा दुष्करमुच्यते 026c
व्यास उवाच 027
दानान्न दुष्करतरं पृथिव्यामस्ति किञ्चन 027a
अर्थे हि महती तृष्णा स च दुःखेन लभ्यते 027c
परित्यज्य प्रियान्प्राणान्धनार्थं हि महाहवम् 028a
प्रविशन्ति नरा वीराः समुद्रमटवीं तथा 028c
कृषिगोरक्ष्यमित्येके प्रतिपद्यन्ति मानवाः 029a
पुरुषाः प्रेष्यतामेके निर्गच्छन्ति धनार्थिनः 029c
तस्य दुःखार्जितस्यैवं परित्यागः सुदुष्करः 030a
न दुष्करतरं दानात्तस्माद्दानं मतं मम 030c
विशेषस्त्वत्र विज्ञेयो न्यायेनोपार्जितं धनम् 031a
पात्रे देशे च काले च साधुभ्यः प्रतिपादयेत् 031c
अन्यायसमुपात्तेन दानधर्मो धनेन यः 032a
क्रियते न स कर्तारं त्रायते महतो भयात् 032c
पात्रे दानं स्वल्पमपि काले दत्तं युधिष्ठिर 033a
मनसा सुविशुद्धेन प्रेत्यानन्तफलं स्मृतम् 033c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 034a
व्रीहिद्रोणपरित्यागाद्यत्फलं प्राप मुद्गलः 034c